ग्रहलाघवः - ग्रहयुत्याधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


पञ्चर्त्वगाङ्कविशिखाः पृथगीशकर्णायोगाहताः प्रकृतिभान्वरिसिद्धरामैः ।

भक्ताः फलोनसहिताः श्रवणेऽधिकोने ते त्र्युद्धृताः स्युरसृजो वपुरङ्गुलानि ॥१॥

पञ्चर्त्वगाङ्कविशिखाः , (अङ्कः ) पृथक् , ईशकर्णायोगाहताः , (तताः ) प्रकृतिभान्वरिसिद्धरामैः , भक्ताः , श्रवणे , अधिकोने , फलोनसहिताः , ते , त्र्युद्धृताः , असृजः , वपुरंगुलानि , स्युः ॥१॥

ग्रहोंकेनाम

मं .

बु .

गु .

शु .

श .

बिम्बांक

भाज्यांक

२१

१२

१६

२४

अधिकजवखगेऽधिकेऽल्पभुक्तेरथ कुटिलेऽल्पतरेऽनुलोमतो वा ।

अनृजुगखगयोस्तु शीघ्रगेऽल्पे युतिरनयोः प्रगताऽन्यथा तु गम्या ॥२॥

अनयोः , अधिकजवखगे , अल्पभुक्तेः , अधिके , अथवा , कुटिले , अनुलोमतः , अल्पतरे , अनृजुगखगयोः , तु , शीघ्रके , अल्पे , (सति ), युतिः , प्रगता , अन्यथ , गम्या , (वाच्या ) ॥२॥

ऋजुगतिखगयोस्तु वक्रयोर्वा विवरकला गतिजान्तरेण भक्ताः ॥

गतिजयुतित्दृता यदैकवक्री युतिरगता प्रगताऽऽप्तवासरैः स्यात् ॥३॥

ऋजुगतिखगयोः , वा वक्रयोः , विवरकलाः , गतिजान्तरेण , भक्ताः , यदा , एकवक्री , (तदा ), गतिजयुतिहृता , आप्तवासरैः , अगता , अगता , युतिः , स्यात् ॥३॥

चाल्यौ खेटौ समौ स्तो ग्रहयुतिदिवसैश्र्चन्द्रबाणः

स्वनत्या संस्कार्य्योऽत्र ग्रहौ स्वेषु दिशि समदिशोस्त्वल्पबाणः परस्याम् ॥

एकान्याशौ यदेषू विरहितसहितौ खेटमध्येऽन्तरं स्याद्भेदो मानैक्यखण्डादिह लघुनि तदाऽल्पं हि किं लम्बनाद्यम् ॥४॥

ग्रहयुतिदिवसैः , खेटौ , चाल्यौ , (तौ ), समौ , स्तः (तयोः , शरः , साध्यः ,) चन्द्रबाणः , (चेत् तदा ) स्वनत्या , संस्कार्य्यः , अत्र , ग्रहौ , स्वेषु , दिशि , (भवतः ), समदिशोः , तु अल्पवाणः , परस्याम् (स्यात् ) यदा इषू , एकान्याशौ , (तदा ) विरहितसहितौ , (कार्य्यौ ), तदा खेटमध्ये , (अंगुलाद्यम् ), अन्तरम् , स्यात् , इह , मानैक्यखण्डात् लघुनि , भेदः , (स्यात् ), तदा , हि , अल्पम् , लम्बनाद्यम् , (अत्र ) किम् (कर्त्तव्यम् ) ॥४॥

इति श्रीगणकवर्य्यगणेशदैवज्ञकृतौ ग्रहलाघवाख्यकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादबादवास्तव्यकाशीस्थराजकीयसंस्कृतविद्यालयप्रधानाध्यापक -पणिडतस्वमिराममिश्रशास्त्रिसान्निघ्याधिगतविद्येन भारद्वाजगोत्रोत्पन्नगौडवंशावतंसश्रीयुतभोलानाथात्मजेन पण्डितरामस्वरूपशर्म्मणा कृतया सान्वयभाषाटीकया सहितो ग्रहयुत्यधिकारः समाप्तिमितः ॥१३॥

N/A

References : N/A
Last Updated : October 24, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP