ग्रहलाघवः - मध्यमग्रहसाधनाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही.


सान्वय सोदाहरणभाषाटीकासमेतः

श्रीगणेशं नमस्कृत्य पार्वतीनन्दनं परम् ॥

श्रीगणेशकृतौ कुर्वे भाषां तत्त्वप्रकाशिकाम् ॥

ज्योतिः प्रबोधजननी परिशोध्य चित्तं तत्सूक्तकर्म्मचरणैर्गहनार्थपूर्णा ॥

स्वल्पाक्षरपि च तदंशकृतैरुपार्घ्यक्तीकृता जयति केशववाक्छ्रुतिश्र्च ॥१॥

अन्वयः तत्सूक्तकर्म्मचरणैः , चित्तं परिशोघ्य , ज्योतिःप्रबोधजननी , स्वल्पाक्षरा , अपि , गहनार्थपूर्णा , च , तदंशकृतैः , उपायैः , व्यक्तीकृता , केशवाकू , श्रुतिः , च , जयति

परिभग्नसमौर्विकेशचापं दृढगुणहारलसत्सुवृत्तबाहुम् ॥

सुफलप्रदमात्तनृप्रभं तत्स्मर रामं करणं च विष्णुरूपम् ॥ २ ॥

परिभग्नसमौर्विकेशचापम् , दृढगुणहारलसत्सुवृत्तबाहुम् , सुफलप्रदम् आत्तनृप्रभम् , तत् , विष्णुरूपम् , रामम् , करणम् , च , स्मर

यद्यप्यकार्पुरुरवः करणानि धीरास्तेषु ज्यकाधनुरपास्य न सिद्धिरस्मात् ॥

ज्याचापकर्म्मरहितं सुलघुप्रकारं कर्तुं ग्रहप्रकरणं स्फुट मुद्यतोऽस्मि ॥ ३ ॥

यद्यपि , उरवः धीराः , करणानि , अकार्षुः , (तथापि ) तेषु , ज्यकाधनुः , अपास्य , सिद्धिः , न , अस्मात् -(अहम् ) ज्याचापकर्म्भरहितम् , सुलघुप्रकारम् , स्फुटम् , ग्रहप्रकरणम् , कर्तुम् , उद्यतः , अस्मि ॥३॥

द्य्वधीन्द्रोनितशक ईशत्दृत्फलं स्याच्चक्राख्यं रविहतशेषकं तु युक्तम् ॥

चैत्राद्यैः पृथगमुतः सदृग्घ्नचक्राद्दिग्युक्तादमरफलाधिमासयुक्तम् ॥ ४ ॥

खत्रिघ्नं गततिथियुङ्निरग्रचक्राङ्गांशाढ्यं पृथगमुतोऽब्धिषट्कलब्धैः ॥

ऊनाहैर्वियुतमहर्गणो भवेद्वै वारःस्याच्छरहतचक्रयुग्गणोऽब्जात् ॥ ५ ॥

द्य्वव्धीन्द्रोनितशकः , ईशहृत , (कार्य्यः ) फलम् ,‘चक्राख्यम् , स्यात् । रविहतशेषकम् , तु , चैत्राद्यैः , युक्तम् , पृथक , (स्थाप्यम् ) सदृग्घ्नचक्रात् , दिग्युक्तात् अमुतः अमरफलाधिमासयुक्तम् , खत्रिघ्नम् , गततिथियुक् , निरग्रचक्रांगांशाढ्यम् , पृथक् , (स्थाप्यम् ) अमुतः , अब्धिषट्कलब्धैः , ऊनाहैः , वियुतम् , अहर्गणः , भवेत् । वै , गणः , शरहतचक्रयुक् , अब्जात् , वारः , स्यात्

खविधुतानभवास्तरणेर्ध्रुवः खमनला रसवार्द्धय ईश्र्वराः ॥

सितरुचो भमुखोऽथ खगा यमौ शरकृता गदितोविधुतुङ्गजः ॥ ६ ॥

शैलाद्वौ खशरा अगोः क्षितिभुवो भूतत्वदन्ता विदः केन्द्रस्याब्धिगुणोडवः सुरगुरोः खं षड्यमावस्विलाः ।

द्राक्केन्द्रस्य भृगोः कुशक्रयमला राश्यादिकोऽथो शनेः शैलाः पञ्चभुवो यमाब्धय इमेऽथ क्षेपकः कथ्यते ॥ ७ ॥

खविधुतानभवाः , तरणेः , भमुखः , ध्रुवः (भवति ) । खम् , अनलाः , रसवार्द्धयः , सितरुचः ( ध्रुवः , भवति ) । अथ , खगाः , यमौ , शरकृताः , विधुतुंगजः (ध्रुवः ), गदितः

शैलाः द्वौ , खशराः अगोः , (ध्रुधः भवति ), भूतत्त्वदन्ताः , क्षितिभुवः (ध्रुवः , भवति ) । अब्धिगुणोडवः , विदः , केन्द्रस्य , (ध्रुवः , भवति ), खम् , षडयमाः , वस्विलाः , सुरगुरोः , (ध्रुवः भवति ) । कुशक्रय , मलाः द्राक्केन्द्रस्य , मृगोः , (ध्रुवः भवति ) । अथ , शैलाः , पच्चभुवः , यमाब्धयः , इमे , शनैः , राश्यादिकः (ध्रुवः , भवति ) ।

अथ , क्षेपकः कथ्यते

नाम

रवि

चंद्र

मन्दोच्च

राहू

मंगळ

बुधके

गुरू

शुक्रके

शनि

राशि

अंश

२५

२६

१४

१५

कला

४९

४६

४५

५०

३०

२७

१८

४२

विकला

११

११

रुद्रा गोऽब्जाः कुवेदास्तपन इह विधौशूलिनोगोभुवः षट् तुङ्गेऽक्षात्यष्टिदेवास्तमसि खमुडवोऽष्टाग्नयोऽथो महीजे ॥

दिक्छैलाष्टौ ज्ञकेन्द्रे विभकलनवभं पूजितेऽद्र्य़श्र्विभूपाःशौक्रे केन्द्रे गृहाद्योऽद्रिनखनव शनौ गोतिथिसवर्ग तुल्यः ॥ ८ ॥

रुद्राः , गोब्जाः , कुवेदाः , तपने गुहाद्यः , ( क्षेपकः , स्यात् ) । शूलिनः , गौभुवः , षट् , इह , विधौ , ( क्षेपकः , भवति ) । अक्षात्यप्रिदेवाः , तुंगे , ( क्षेपकः , भवति ) । अथो , दिक्छैलाष्टौ , महीजे , (क्षेपकः , भवति ) । विभकलनवभम् , ज्ञकेन्द्रे ( क्षेपकः , भवति ) । अद्र्य़श्र्विभूपाः , पूजिते , ( क्षेपकः , भवति ) । अद्रिनखनव , शौके्र , केन्द्रे , ( क्षेपकः , भवति ) । गोतिथिस्वर्गतुल्यः , शनौ , (क्षेपकः , भवति )

नाम

रवि

चंद्र

चन्द्रोच्च

राहू

मंगळ

बुधके

गुरू

शुक्रके

शनि

राशि

११

११

१०

अंश

१९

१९

१७

२७

२९

२०

१५

कला

४१

३३

३८

३३

१६

२१

विकला

दिनगणभवखेटश्र्चक्रनिघ्नध्रुवोनो दिवसकृदुदये स्वक्षेपयुङ् मध्यमः स्यात् ॥

निजनिजपुररेखान्तः स्थिताद्योजनौघाद्रसलवमितालिप्ताः स्वर्णमिन्दौ परे प्राक् ॥ ९ ॥

चक्रनिघ्नध्रुवोनः , स्वक्षेपयुक् , दिनगणभवखेटः , दिवसकृदुदये , मध्यमः , स्यात् । निजनिजपुररेखान्तःस्थितात् , योजनौघात् , रसलवमितलिप्ताः , परे , प्राक् , इन्दौ , स्वर्णम् , ( भवति )

नाम

रवि

चंद्र

चन्द्रोच्च

राहू

मंगळ

बुधके

गुरू

शुक्रके

शनि

राशि

११

१०

अंश

१८

२५

१२

२७

कला

५६

३३

५८

५२

५७

५२

५३

४५

विकला

३२

३२

स्वखनगलवहीनो द्युव्रजोऽर्कज्ञशुक्राः

खतिथित्दृतगणोनो लिप्तिकास्वंशकाद्याः ॥ ऽऽ ॥

स्वखनगलवहीनः द्युव्रजः , लिप्तिकासु , खतिथिहृतगणोनः (कार्य्यः ) (तदा )अंशकाद्याः , अकज्ञशुक्राः , (स्युः ) ऽऽ

गणमनुहतिरिन्दुः स्वाद्रिभूभागहीनः

खमनुत्दृतगणोनो लिप्तिकास्वंशपूर्वः ॥ १० ॥

स्वाद्रिभूभागहीनः , गणमनुहतिः , लिप्तिकासु , खमनुहृतगणोनः , (कार्य्यः तदा ) अंशपूर्वः इन्दुः ( भवति ) १०

नवत्दृतदिनसंघश्र्चन्द्रतुङ्गंलवाद्यं भवति खनगभक्तद्युव्रजोपेतालिप्तम् ॥ ऽऽ ॥

नवहृतदिनसंघः खनगभक्तद्युव्रजोपेतलिप्तम् लवाद्यम् चन्द्रतुङ्गम् (भवति ) ऽऽ

नवकुभिरिषुवेदैर्घस्रसघाद्दिधाप्तात् फललवकलिकैक्यं स्यादगुश्र्चक्रशुद्धः ॥११॥

नवकुभिः , इषुवेदैः , द्विधा , धस्रसंवात् , अप्तात् फललवकलिकैक्यम् , चक्रशुद्धः , अगुः , स्यात् ॥११॥

दिग्घ्नो द्विधा दिनगणोऽङ्ककुभिस्त्रिशैलैर्भक्तः फलांशककलाविवरं कुजः स्यात् ॥ ऽऽ ॥

दिग्घ्नः , दिनगणः , द्विधा , अङ्ककुभिः , त्रिशलः , भक्तः , (कार्य्यः ), ततः , फलांशककलाविवरम् , कुजः , स्यात् ऽऽ

त्रिघ्नो गणः स्ववसुदृग्लवयुग्ज्ञशीघ्रकेन्द्र लवाद्यहिगुणाप्तगणोनलिप्तम् ॥१२॥

त्रिघ्नः , गणः , स्ववसुदृग्लवयुक , अहिगुणाप्तगणोनलिप्तम् , लवादि , ज्ञशीघ्रकेन्द्रम् , (स्यात् ) ॥१२॥

द्युपिण्डोऽर्कभक्तो लवाद्यो गुरुः स्याद् द्युपिण्डात्खशैलाप्तलिप्ताविहीनः ॥ ऽऽ ॥

अर्कभक्तः , द्युपिण्डः , द्युपिण्डात् खशैलाप्तलिप्ताविहीनः , लवाद्यः , गुरुः , स्यात् ॥ ऽऽ ॥

अहर्गणमें बारहका भाग देकर जो अंशादि लब्धि हों उनमें (अहर्गणमें ) ० का भाग देकर जो कलादि लब्धि हो उसको घटा दे जो शेष रहे सो अहर्गणोत्पन्न गुरु होता है इससे पूर्वोक्त रीतिके अनुसार मध्यमगुरु साधन करे ऽऽ

त्रिनिघ्नद्युपिण्डाद्दिधाऽक्षैः क्विभाब्जैरवाप्तांशयोगो भृगोराशुकेन्द्रम् ॥१३॥

त्रिनिघ्नद्यपिण्डात् , अक्षैः , क्विभाब्जैः , द्विधाः , अवाप्तांशयोगः , भृगोः , आशुकेन्द्रम् , भवति

खाग्न्युद्धृतो दिनगणोंऽशमुखः शनिः स्यात् षट्पञ्चभूत्दृतगणात्फललिप्तिकाढ्यः ॥ ऽऽ ॥

खाग्न्युद्घृतः , दिनगणः , षट्ञ्चभूहृतगणात् फललिखिकाढ्यः , अंशमुखः शनिः स्यात् ऽऽ

गोऽक्षा गजा रविगतिः शशिनोऽभ्रगोश्र्वाः पञ्चाग्नयोऽथ षडिलाब्धय उच्चभुक्तिः ॥१४॥

राहोस्त्रयं कुशशिनोऽसृज इन्दुरामास्तर्काश्र्विनो ज्ञचलकेन्द्रजवोऽर्यहिक्ष्माः ॥

लिप्ता जिना विकलिकाश्र्च गुरोः शराः खं शुक्राशुकेन्द्रगतिरद्रिगुणाः शनेर्द्वे ॥१५॥

गोऽक्षाः , गजाः , रवितातिः , (अस्ति ) । अभ्रगोश्वाः , पञ्चग्नयः , शशिनः , (गतिः , अस्ति ) । अथ , षट् , इलाब्धयः उच्चभुक्तिः , (अस्ति ) । त्रयम् , कुशशिनः , राहोः , (गतिः अस्ति ) । इन्दुरामाः , तर्काश्र्विनः , असृजः , (गतिः , अस्ति ) । अर्य्यहिक्ष्माः , लिप्ताः , जिनाः , विकलिकाः , ज्ञचलकेन्द्रजवः , (अस्ति ) । शराः -खम् , गुरोः , (गतिः , अस्ति ) । अद्रिगुणाः , शुक्राशुकेन्द्रगतिः , (अस्ति ) । द्वे , शनेः , (गतिः , अस्ति ) ॥१४॥१५॥

नाम

रवि

चंद्र

चन्द्रोच्च

राहु

मंगळ

बुधके०

गुरू

शुक्रके०

श०

कला

९५

७९०

३१

१८६

३७

विकला

३५

४१

११

२६

२४

सौरोऽर्कोऽपि विधूच्चमङ्ककलिकोनाब्जो गुरुस्त्वार्य्यजोऽसृग्राहू च कजज्ञकेन्द्रकमथार्य्ये सेषुभागःशनिः ॥

शौक्रं केन्द्रमजार्य्यमध्यगमितीमे यान्ति दृक्तुल्यतां सिद्धैस्तैरिह पर्वधर्म्मनयसत्कार्यादिकं त्वादिशेत् ॥१६॥

अर्कः , सौरः (घटते ) । विधूच्चम् , (सौरपक्षीयम् , घटते ) । अंककलिकोनाब्जः , अपि , (सौरः , घटते ) । गुरुः , तु आर्य्यजः , (घटते ) । असृक् -राहुः , च , ( आर्य्यपक्षीयौ , घटेते ) । कजज्ञकेन्द्रम् , (घटते ) अथ , सेषुभागः , शनिः , आर्य्ये (घटते ) । शौक्रम् , केन्द्रम् अजार्य्यमध्यगम् , (घटते ) । इति , इमे दृक्तुल्यताम् , यान्ति , इह , तु , सिद्धैः , तैः , पर्वधर्ग्मनयसत्कार्यादिकम् , आदिशेत ॥१६॥

इति श्रीगणकवर्य्यपण्डितगणेशदैवज्ञकृतौ ग्रहलाघवाख्यकरण ग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादपत्तनवास्तव्यगौडवंशावतंसश्रीयुतभेलानाथतनुजपंडितरामत्वरूपशर्म्मणा

विरचितया विस्तृतोदाहरणसनाथीकृतान्वयसमन्वितया भाषाव्याख्यया सहितो मध्यमग्रहसाधनाधिकारः समाप्तिमितः ॥१॥

N/A

References : N/A
Last Updated : October 23, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP