ग्रहलाघवः - श़ृङ्गोन्नत्यधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


मासस्य प्रथमेऽन्तिमेऽथवांऽघ्रौ विधुश़ृङ्गोन्नतिरीक्ष्यते यदह्नि ॥

तपनास्तमयोदयेऽवगम्यास्तिथयः सावयवाः क्रमाद्रतैष्याः ॥१॥

मासस्य , प्रथमे , अथवा अन्तिमे , अंघौ , यदह्नि , विधुश़ृङ्गोन्नतिः , ईक्ष्यते , (तद्दिवसे ), तपनास्तमयोद्वये , क्रमात् , गतैष्याः , तिथयः , सावयवाः , अवगम्याः ॥१॥

रविहततिथयोंऽशास्तद्वियुग्युक्क्रमेण

द्युमणिरपरपूर्वे मासपादे विधुः स्यात् ॥ऽऽ॥

रविहततिथयः , अंशाः , तद्वियुग्युक् , द्युमणिः , क्रमेण , अपर -पूर्वे , मासपादे , विधुः , स्यात् ऽऽ

नृपगुणतिथिरूना सवघ्नतिथ्याऽक्षभाघ्नी शरकुत्ददृदगाशा संस्कृताऽर्कापमांशैः ॥२॥

चन्द्रस्य च व्यस्तशरापमांशैर्द्विनिघ्नतिथ्या वित्दृताऽङ्गुलाद्यम् ॥

संस्कारदिक्कं वलनं स्फुटं स्यात् स्वेष्वंशहीनास्तिथयः सितं स्यात् ॥३॥

नृपगुणतिथिः , स्वघ्नतिथ्या , ऊना , अक्षभाघ्नी , (ततः ) शरकुहृत् , उदगाशा , (स्यात् , सा ), अर्कापमांशैः , चन्द्रस्य , व्यस्तशरापमांशैः , च , संस्कृता , (ततः ), द्विनिघ्नतिथ्या , विहृता , संस्कारदिक्कम् , वलनम् , स्फुटम् , स्यात् । स्वेष्वंशहीनाः , तिथयः , सितम् , स्यात् ॥२ -३॥

उन्नतं वलनाशायामन्यस्यां स्यान्नतं विधोः ।

वलनस्याङ्गुलैः श़ृङ्गं किमत्र परिलेखतः ॥४॥

विधोः , श़ृङ्गम् , वलनाशायाम् , उन्नतम् , अन्यस्याम् , नतम् , वलनस्य , अंगुलैः , (तुल्य भ् ) स्यात् , अत्र , परिलेखतः , किम् ॥१॥४॥

इतिश्रहगणकवर्य्यपण्डितगणेशदैवज्ञकृतौ ग्रहलाघवकरणग्रन्थेपश्र्चिमोत्तरदेशीयसुरादाबादवास्तव्य -काशीस्थराजकीयसंस्कृतविद्यालयप्रधानाध्यापकपण्डितस्तामिराममिश्रशास्त्रिसान्निध्याधिगतविद्यभारद्बाजगोत्रोत्पन्नगौडवंशावतंसश्रीयुतभोलानाथनूजपण्डितरामस्वरूपशर्म्मणा कृतया सान्वयभाषाटीकया सहितः श़ृङ्गोन्नत्यधिकारः समाप्तिमितः ॥१२॥

N/A

References : N/A
Last Updated : October 24, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP