ग्रहलाघवः - ग्रहच्छायाधिकारः

ज्योतिषशास्त्राविना हिंदू धर्मियांचे कार्य एक क्षणसुद्धा चालू शकत नाही .


प्राग्दृष्टिकर्म्मखचरस्तनुतोऽल्पकोऽस्तात्पुष्टश्र्च दृश्य इह खेचरभोग्यकालः ॥

लग्नेन युक्च विवरोदययुग्द्युयातः स्यात्खेचरस्य सितगोर्यदि गोपलोनः ॥१॥

प्राग्दृष्टिकर्म्मखचरः , (यदा ), तनुतः , अल्पकः , अस्तात् , च , पुष्टः , (स्यात् ) तदा , दृश्यः , इह , खेचरभोग्यकालः , (स्यात् ) । लग्नेन , युक् , विवरोदययुक् , च , खेचरस्य , द्युयातः , स्यात् , यदि , सितगो , (तर्हि ), गोपलोनः (कार्य्यः ) ॥१॥

जिनाप्तोऽक्षाभाघ्नोऽङ्गुलमयशरोऽनेन तु चरं स्फुटं संस्कृत्यातो दिनमथ खगस्य द्युविगतात् ॥

प्रभाद्यं संसिद्ध्य़ेदथ खचरभादेर्निशि गतं व्रुवेऽथारादिनां द्युतिपरिगमं यन्त्रवशतः ॥२॥

अंगुलमयशरः , अक्षाभाघ्नः , (ततः ) जिनाप्तः , (कार्य्यः ), अनेन , तु , चरम् , संस्कृत्य , स्फुटम् , (कार्य्यम् ) अतः , दिनम् , साध्यम् , अथ , खगस्य , द्युविगतात् , प्रभाद्यम् , ससिध्येत् , अथ , खचरभादेः , निशिगम् , अथ , आरादिनाम् , द्युतिपरिगमम , यन्त्रवशतः , वे ॥२॥

पश्येज्जलादौ प्रतिबिम्बितं वा खेटं दृगोच्च्यं गणेयेच्च लम्बम् ॥

तं लम्बपातप्रतिबिम्बमध्यं दृगौच्च्यत्दृत्सूर्य्यहृतं प्रभा स्यात् ॥३॥

जलादौ , खेटम् , प्रतिबिम्बितम् , पश्येत् , वा , दृगौच्च्यम् लम्बनम् च , गणयेत् , तम् लम्बपातप्रतिबिम्बमध्यम् , (गणयेत् ), सूर्य्यहतम् , दृगौच्च्यहृत् , प्रभा , स्यात् ॥३॥

ज्ञात्वाऽनुमानान्निशि यातनाडीस्तत्कालखेटात्कथितैश्र्चराद्यैः ॥

दृष्टप्रभादेर्द्युगतो ग्रहस्य साध्यस्त्विहेन्दोर्यदि गोपलाढ्यः ॥४॥

अनुमानात् , निशि , यातनाडीः , ज्ञात्वा , तत्कालखेटात् , कथितैः चराद्यैः , इष्टप्रभादेः , ग्रहस्य , द्युगतः , (कालः ), साध्यः , इन्दोः यदि , (तर्हि ) तु , इह , गोपलाढ्यः , (कार्य्यः ) ॥४॥

प्राग्दृक्खचराङ्गभाढ्यभान्वोरल्पोऽर्कस्त्वपरस्तनुस्तदन्तः ॥

कालः स खगोदये द्युशेषो रात्रीतः क्रमशो ग्रहेऽल्पपुष्टे ॥५॥

प्राग्दृक्खचराङ्गभाढ्यभान्वोः , अल्पः , अर्कः , अपरः , तु , तनुः , तदन्तः , (यः ) कालः , सः , खगोदये , ग्रहे , अल्पपुष्टे , क्रमशः , द्युशेषः , रात्रीतः , स्यात् ॥५॥

तेनोनोऽथ च सहितो ग्रहद्युयातः स्यादर्कास्तसमयतो निशि प्रयातः ॥

चेद् ग्लावोऽनुमितघटीष्वतोऽल्पपुष्टं द्विघ्नं तत्समपलयुग्वियुक्स्फुटः सः ॥६॥

तेन , ऊनः , अथ , च , (रात्रिगतेन ), सहितः , ग्रहद्युयातः , अर्कास्तसमयतः , निशि , प्रयातः , स्यात् ग्लावः , चेत् , (तदा ), अनुभितघटीषु , अतः , (यावत् ), अल्पपुष्टम् (तावत् , एव ), द्विघ्नम् , (पलात्मकम् , स्यात् ), तत्स्मपलयुग्वियुक् , सः , स्फुटः , (स्यात् ) ॥६॥

इति श्रीगणकवर्यपण्डितगणेशदैवज्ञकृतौ ग्रहलाघवकरणग्रन्थे पश्र्चिमोत्तरदेशीयमुरादाबादवास्तव्य -काशीस्थराजकीयसंस्कृतविद्यालयप्रधानाध्यापकपण्डितस्वामिराममिश्रशास्त्रिसान्निध्याधिगतविद्य -भारद्वाज -गोत्रोत्पन्न गौडवंशावतंसश्रीयुतभोलानाथतनूज -पण्डितरामस्वरूपशर्म्मणा कृतया सान्वयभाषाव्याख्यया सहितो ग्रहच्छायाधिकारः समाप्तिमितः ॥१

N/A

References : N/A
Last Updated : October 24, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP