संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : चतुर्थः स्कन्धः|
अथ पंचदशोऽध्यायः

चतुर्थः स्कन्धः - अथ पंचदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः ।

बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्मत ॥१॥

तद दृष्ट्वा मिथुनं जातमृषयो ब्रह्मवादिनः ।

ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम ॥२॥

ऋषय ऊचुः

एष विष्णोर्भगवतः कला भुवनपालिनी ।

इयं च लक्ष्म्याः सम्भुति पुरुषस्यानपायिनी ॥३॥

अत्र तु प्रथमो राज्ञां पुमान प्रथयिता यशः ।

पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ॥४॥

इयं च सुदती देवी गुणभुषणभुषणा ।

अर्चिर्नाम वरारोह पृथुमेवावरुन्धती ॥५॥

एष साक्षाद्धरेरंशो जातो लोकरिरक्षया ।

इयं च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥६॥

मैत्रेय उवाच

प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः ।

मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥७॥

शंखतूर्यमृदगंद्या नेदुर्दुन्दुभयो दिवि ।

तत्र सर्व उपाचग्मुर्देवार्षिपितृणां गणाः ॥८॥

ब्रह्मा जगदगुरुर्देवैः सहासृत्य सुरेश्वरैः ।

वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥९॥

पादयोररविन्दं च तं वै मने हरेः कलाम ।

यस्याप्रतिहतं चक्रमंशः स परमेष्ठिनः ॥१०॥

तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मावादिभिः ।

आभिषेचनिकान्यस्मै आजह्रु सर्वतो जनाः ॥११॥

सरित्समुद्रा गिरयो नागा गावःखगा मृगाः ।

द्यौः क्षितीः सर्वभुतानि समाजह्रुरुपायनम ॥१२॥

सो‍ऽभिषिक्तो महाराजः सुवासाः साध्वलंकृतः ।

पत्‍न्यार्चिषालंकृतया विरेजेऽ‍ग्रिरिवापरः ॥१३॥

तस्मै जहर धनदो हैमं वीर वरासनम ।

वरुणः सलिलस्रावमातपत्रं शशिप्रभम ॥१४॥

वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम ।

इन्द्र कीरीटमुत्कृष्टं दण्डं संयमनं यमः ॥१५॥

ब्रह्मा ब्रह्मामयं वर्म भारती हारमुत्तमम ।

हरिः सुदर्शनं चक्रं तत्पन्त्यव्याहतां श्रियम ॥१६॥

दशचन्द्रमसिं रुद्रः शतचन्द्र तथाम्बिका ।

सोमो‍ऽमृतमयानश्वांस्त्वष्टा रुपाश्रयां रथम ॥१७॥

अग्निराजगवं चापं सुर्यो रश्मिमयानिषुन ।

भुः पादुके योगमय्यो द्यौः पुष्पावलिमन्वहम ॥१८॥

नाट्यं सुगीतं वादित्रमन्तर्धन च खेचराः ।

ऋषयश्चाशिषः सत्यः समुद्रः शंखमात्मजम ॥१९॥

सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः ।

सुतोऽथ मागधो बन्दी तं स्तोतुमुपतस्थिरे ॥२०॥

स्तावकांस्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान ।

मेघनिर्हाद्या वाचा प्रहसन्निदमब्रवीत ॥२१॥

पृथुरुवाच

भोः सुत हे मागध सौम्य बन्दींल्लोके‍ऽधुनास्पष्टगुणस्य मे स्यात ।

किमाश्रयो मे स्तव एष योज्यतां मा मय्यभुवन वितथा गिरो वः ॥२२॥

तस्माप्तरोक्षे‍ऽस्मदुपश्रुतान्यलं करिष्यथ स्तोत्रमपीच्यवाचः ।

सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः ॥२३॥

महदगुणानात्मनि कर्तुमीशः कः स्तावकैः स्तावयतेऽसतोऽपि ।

तेऽस्याभविष्यान्निति विप्रलब्धो जनावहासं कुमतिर्न वेद ॥२४॥

प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यापि विश्रुताः ।

ह्रीमन्तः परमोदाराः पौदषं वा विगर्हितम ॥२५॥

वयं त्वविदिता लोक सुताद्यापि वरिमभिः ।

कर्मभिः कथमात्मानं गापयिष्याम बालवत ॥२६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP