अथप्रयोगः देशकालौस्मृत्वामातृपितृश्वशुरादिकुलपूतत्वब्रह्महत्यादिदोषदूषितपतिपूतत्वपत्यवियोगारुन्धती
समाचारत्वसार्धकोटित्नयसहस्त्रसंवत्सरस्वर्महीयमानत्वादिपुराणोक्तनेकफलप्राप्तयेश्रीलक्ष्मीनारायण
प्रीतिद्वाराविमुक्तिप्राप्तयेवापतिचितान्वारोहणंकरिष्येइतिसंकल्प्यहरिद्राकुङ्कुमवस्त्रफलादियुतानिशृर्पाणिसुवासिनीभ्योदद्यात्
तत्रमन्त्रः लक्ष्मीनारायणोदेवोबलसत्वगुणाश्रयः ।
गाढंसत्वंचमेदेयाद्वायनैःपरितोषिथ १ सोपस्काराणिशूर्पाणिवायनैःसंयुतानिच ।
लक्ष्मीनारायणप्रीत्यैसत्वकामाददाम्यहम् २ अनेनसोपस्करशूर्पदानेनलक्ष्मीनारायणौप्रीयेताम्
ततोञ्चलेपञ्चरत्नंनीलाञ्जनंचबध्वामुखेमौक्तिकंन्यस्याग्निसमीपंगत्वाग्निप्रार्थनांकुर्यात्
स्वाहासंश्लेषनिर्विण्णशर्वगोत्नहुताशन ।
सत्वमार्गप्रदानेननयमांपत्युरन्तिकम् १ इति अथाग्नावाज्येनजुहुयात्
अग्नयेतेजोधिपतयेस्वाहा १ विष्णवेसत्वाधिपतये स्वाहा २ कालायधर्माधिपतये०
३ पृथिव्यैलोकाधिष्ठात्र्यै० ४ अदभ्द्योरसाधिष्ठात्नीभ्यः ० ५ वायवेबलाधिपतये०
६ आकाशायसर्वाधिपतये० ७ कालायधर्माधिष्ठात्ने० ८ अभ्द्यःसर्वसाक्षिणीभ्यः०
९ ब्रह्मणेवेदाधिपतये० १० रुद्रायस्मशानाधिपतयेस्वाहा ११ इत्येकादशाहुतीर्हुत्वाग्निंप्रदक्षिणीकृत्य
दृषदमुपलांसंपूज्यपुष्पांजलिंगृहीत्वाग्निंप्रार्थयेत् त्वमग्नेसर्वभूतानामन्तश्चरसिसाक्षिवत् ।
त्वमेवदेवजानीषेनविदुर्यानिमानुषाः १ अनुगच्छामिभर्तारं वैधव्यभयपीडिता ।
सत्त्वमार्गप्रदानेननयमांभर्तुरन्तिकम् २ मन्त्रमुच्चार्यशनकैःप्रविशेच्चहुताशनम् ।
विप्राश्चइमानारीरविधवाइत्यृचं इमाःपतिव्रताःपुण्याःस्त्रियोयायाःसुशोभनाः ।
सहभर्तृशरीरेंणसंविशन्तुविभावसुम् १ इतिचपठेत् कातरांतुप्रेतोत्तरतःसुप्तांदेवरः
शिष्योवाउदीर्ष्वतिमन्त्राभ्यामुत्थापयेत् अनुव्रजतिभर्तारंस्मशानंयागृहान्मुदा ।
पदेपदेश्वमेधस्यफलंप्राप्नोतिसाध्रुवम् १ यत्तु यास्त्रीब्राह्मणजातीयामृतंपतिमनुव्रजेत् ।
सास्वर्गमात्मघानेनातत्यानंनपतिंनयेत् १ इत्यादिब्राह्मण्यानिषेधवचनजातंतत्पृथकचितिपरम्
भर्तुर्मन्त्राग्निदाहोत्तरमनुगमनंपृथकचितिः मन्त्राग्निदाहात्पूर्वमस्थिभिः
पर्णशरेणवासहगमनमेकचित्निरेव अस्थ्यादेःपतिस्थानापत्त्यापतिशरीरतुल्यत्वात्
इयमेकचितिःसर्ववर्णानाम् पृथकचितिस्तुक्षत्रियवैश्यशूद्रादेरेव नतुब्राह्मणीनाम्
पृथकचितिविधिस्तु देशान्तरमृतेपत्यौसाध्वीतत्पादुकाद्वयम् । निधायोरसिसंशुद्धाप्रविशेज्जातवेदसमिति ॥
पतितेनप्रायश्चित्तार्थमृतेनवाभर्त्नासहान्वारोहणनंभवति यत्तु ब्रह्मघ्नोवाकृतघ्नोवामित्रध्नोवाभवेत्पतिः ।
पुनात्यविधवानारीइत्यादिवाक्यंतज्जन्मान्तरीयब्रह्महत्यादिपापशोधनपरम् दिनैकगम्यदेशस्थासाध्वीचेत्कृतनिश्चया ।
नदहेत्स्वामिनंतस्यायावदागमनंभवेत् १ तृतीयेह्निउदक्यायामृतेभर्तरिवैद्विजाः । तस्याःसहगमार्थतंस्थापयेदेकरात्रकम् १
रजस्वलायाःप्रथमद्वितीयदिनेपतिमृतौलौकिकाग्निभिरमन्त्रकंतंदग्ध्वापञ्चमेह्निअस्थिभिः
सहान्वारोहणमयदिरजस्वलादेशकालवशादिनातदैवानुगन्तुमिच्छतिनशुद्धिंप्रतीक्षतेतदासैकद्रोणमितव्रीहीन्मुसलैरबहत्यतदाघातैः
सर्वरजोनिवृत्तौपञ्चमृत्तिकाकाभिःशौचंकृत्वादिनक्रमेणत्रिंशद्विंशतिर्दशवाधेनूर्दत्वाविप्रवचनाच्छुद्धिंलब्ध्वासहगमनंकुर्यात्
अत्रावहननेनरजोनिवृत्तिरतीन्द्रियेतीदंयुगान्तरपरंयोज्यमितिभाति जननमृताशौचयोस्तुसहगमनंनेतिकेचित्
कालतत्वविवेचनेतुपूर्वप्रवृत्ताशौचमध्येभर्तृमरणे आशौचवतीनामपिभार्याणांसहगमनंभवति
सूतिकोदक्ययोस्तुनेत्युक्तम् इदमेवयुक्तंभाति इदंचसहगमनंगर्भिणीबालापत्यासूतिकाभिरदृष्टरजोभिः
पत्तिताभिर्व्यभिचारिणीभिर्भर्तृदुष्टभावाभिश्चनकार्यम् केचिदत्रपतिव्रतानामेवाधिकारः वर्तन्तेयाश्चसततंभर्तृणांप्रतिकूलतः ।
कामात्क्रोधाद्भयान्मोहात्सर्वाःपूताभवन्तिताः १ इत्यादितुवाक्यमर्थवादइत्याहुः
तत्रपृथकचित्यारोहणेभर्त्राशौचमध्येतदूर्ध्ववाकृतेत्निरात्रमाशौचंपिण्डाश्च सहगमनेतु
तस्याःपिण्डादिकंशौचंपतिपिण्डादितःक्रमात् ।
अन्वारोहेतुनारीणांपत्युश्चैकोदकक्रिया १ पिण्डदानक्रियातद्वच्छ्राद्धंप्रत्याब्दिकंतथा ।
अन्वारोहेकृतेपत्न्याःपृथकपिण्डांस्तिलाञ्जलीन् २ पृथकशिलेनकुर्वीतदद्यादेकशिलेतथा ।
तत्नावयवपिण्डार्थपाकैक्यंभिन्नपिण्डता ३ नवश्राद्धानिभिन्नानिसपिण्डीकरणंपृथक् ।
एकएववृषोत्सर्गो गोरेकातत्रदीयते ४ सपिण्डीकरणंतुनकार्यम् अथवाभर्त्नैवसहकार्यम्
यद्वाभर्त्नादिभिस्त्रिभिःसहकार्यमित्यादिपक्षाउक्ताः मासिकसांवत्सरिकादौपाकैक्यकालैक्यादिव्यवस्थापिश्राद्धप्रकरणेउक्ता इतिसहगमनेनिर्णयः ॥
काशीनाथउपाध्यायइत्थमन्त्यक्रियाविधिम् । निर्णीयभगवत्पादेचार्पयत्तद्विशुद्धये १ इत्यन्त्येष्टिनिर्णयः ॥