अथसपिण्डीकरणविचारः तत्नसपिण्डनकालः नासपिण्डयाग्निमान्पुत्नःपितृयज्ञंसमाचरोदितिवचनात् पित्रादीनांमात्नादीनां
त्रितयमध्येऽन्यतममरणेसाग्निकोद्वादशाहेसपिण्डनंक्रुत्वागामिदर्शेपिण्डपितृयज्ञादिकंकुर्यात्
अत्नस्मार्ताग्निमानपिसाग्निकोग्राह्यइतिभाति तस्यापिपिण्डपितृयज्ञावश्यकत्वात्
साग्नेःप्रेतस्यतुत्निपक्षेएव प्रेतश्चेदाहिताग्निःस्यात्कर्तानग्निर्यदाभवेत् ।
सपिन्डीकरणंतस्यकुर्यान्पक्षेतृतीयके इत्युक्तेः अत्रसाग्निः श्रौताग्निमानेव
द्वयोःसाग्नित्वेद्वादशाहएव साग्निकस्तुयदाकर्ताप्रेतोवाप्यग्निमान्भवेत् ।
द्वादशाहेतदाकुर्यात्सपिण्डीकरणंपितुः इत्युक्तेह द्वयोरप्यनग्नित्वेत्वनेकेकालाः
सपिण्डीकरणंकुर्याद्यजमानस्त्वनग्निमान् । अनाहिताग्नेःप्रेतस्यपूर्णेसंवत्सरेथवा १ एकादशेमासिषष्ठेत्रिमासेवात्निपक्षके ।
मासान्तेद्वादशेवाह्निकुर्याद्वैकादशेहनि यदहर्वृद्धिरापन्नातदहर्वेतिनिश्चितम् ।
अत्नवृद्धिनिमित्तापकर्षोनिरग्नेरेवोक्तस्तथापिसाग्नेरपिसंभवेयोज्यः
अत्नवृद्धिपदंचूडोपनयनविवाहमात्नपरं सीमन्तादिसंस्कारेषुवृद्धिश्राद्धस्यलोपएवकार्योनतुतदर्थसपिण्डनापकर्षइतिकेचित्
अन्येतुगर्भाधानपुंसवनादिष्वन्नप्राशनान्तेषुसंस्कारेष्वतरणेदोषोक्तेरावश्यकेषुवृद्धिश्राद्धस्याप्यावश्यकत्वात्सपिण्डनापकर्षःकार्यएव
तथाचचतुःपुरुषसपिण्डेषुसपिण्डीकरणाभावेगर्भाधानादिकमपिनकार्यमित्याहुः
तेनपितामहमरणेपौत्नस्यवृद्धौप्राप्तायामप्यपकर्षःसपिण्डीकरणानुमासिकादीनांसिद्धः
एवमावश्यकवृद्धियुतकर्मप्राप्तौकनिष्ठःपुत्रौवाभ्रातावाभ्रातृपुत्रोवान्यः
सपिण्डोवाशिष्योवागौणकर्तापिकुलप्राप्तवृद्धिसिद्धयर्थसपिण्डनाद्यपकर्षकुर्यात्
तत्नचकृतेमुख्यस्यपुत्रादेर्नपुनःकरणम् वृद्धिनिमित्तापकर्षेपुनःकरणाभावात्
येवाभद्रंदूषयंतिस्वधाभिरितिदोषश्रुतेः वृद्धिंविनागौणाधिकारिणासपिण्ड्यादिकरणेतुमुख्याधिकारिणापुत्रादिनापुनरावर्तनीयम्
एकादशाहान्तकर्मणस्तुनपुनरावृत्तिरित्युक्तम् तत्नावश्यकपदेनानन्यगतिकंवृद्धिकर्मग्राह्यम्
तेनसगतिकेष्टापूर्तादौसगतिकोपनयनविवाहादौचनापकर्षः अगतिकेंचविवाहादावप्यपकर्षइतिव्यवस्थायोज्या
आनन्त्यात्कुलधर्माणांपुंसांचैवायुषःक्षयात् । अस्थिरत्वाच्छरीरस्यद्वादशाहःप्रशस्यते
अत्नकुलधर्मपदेनवृद्धिश्राद्धयुतंकर्मग्राह्यम् नतुपञ्चमहायज्ञदेवपूजाश्राद्धादि
अस्यवर्णधर्मत्वेननित्यत्वात्सपिण्डीकरणनिमित्तकप्रतिबन्धायोगात्
सपिण्डीकरणात्पूर्वपञ्चमहायज्ञादिधर्मोनकार्यइतिक्वपिण्डीकरणनिमित्तकप्रतिबन्धायोगात्
सपिण्डीकरणात्पूर्वपञ्चमहायज्ञादिधर्मोनकार्यइतिकापिस्मृतिवचनेनुपलम्भाच्च
एतेनसपिण्डीकरणाभावेसपिण्डेषुदेवपूजाश्राद्धादिधर्मलोपंवदन्तोनिर्मूलत्वादुपेक्ष्याः
अत्रद्वादशाहपदेनाशौचसमाप्त्युत्तरदिनंग्राह्यम् तेनत्रिदिनाशौचेपञ्चमदिनेसपिण्डीकरणम्
द्वादशाहादिकालेषुप्रमादादननुष्ठितम् । सपिण्डीकरणंकुर्यात्कालेषूत्तरभाविषु
इदमुत्तरकालविधानंसाग्निनिरग्निसाधारणम् सपिण्डीकरणश्राद्धमुक्तकालेकृतंनचेत् ।
हस्तार्द्रारोहिणीभेवानुराधायांचतच्चरेत् इदमपिसाधारणम्
स्मृत्यर्थसारेवर्षान्तसपिण्डनपक्षेवर्षान्त्यदिनेपूर्वसंवत्सरविमोक्षश्राद्धंकृत्वासपिण्डनंचकृत्वापरेद्युर्मृताहेवार्षिकंकार्यमित्युक्तम् इतिकालविचारः ॥
तच्चसपिण्डनंपुत्नेविदेशस्थेपिसतिनान्यःकुर्यात् एवंज्येष्ठपुत्नेविदेशस्थेपिनकनिष्ठःकुर्यात्
षोडशश्राद्धानितुज्येष्ठासन्निधानेकनिष्ठेनकार्याणि पुनर्ज्येष्ठेननकार्याणि
आहिताग्निःकनिष्ठोपिसपिण्डनंकुर्यादेव वृद्धिनिमित्तेतुकनिष्ठादिभिरपिण्डनंकार्यमित्युक्तम्
वृद्धिंविनाकनिष्ठपुत्नेणकृतेसपिण्डनेज्येष्ठपुत्रेणपुनःकार्यम्
आहिताग्निनापितृयज्ञार्थकृतेसपिण्डनेपिज्येष्ठेनपुनःकार्यमितिभाति
तत्नपुनःकरणेप्रेतशब्दोनवाच्यः देशान्तरस्थपुत्नाणांश्रुत्वातुवपनंभवेत् ।
दशाहंसूतकंचैवतदन्तेचसपिण्डनम् ॥