चाणक्यनीतिदर्पणाः - द्वादशोऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


सानन्दं सदनं सुतास्तु सधियः कांता प्रियालापिनी

इच्छापूर्तिधनं स्वयोषितिरतिः स्वाज्ञापराः सेवकाः

आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे

साधोः सुड्गमुपासते च सततं धन्यो गृहस्थाश्रमः ॥१॥

आर्तेषु विप्रेषु दयान्वितश्चे-

च्छ्रध्देण या स्वल्पमुपैति दानम् ।

अनन्तपारं समुपैति दानम् ।

यद्दीयते तन्न लभेद् द्विजेभ्यः ॥२॥

दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने

प्रीतिःसाधुजने स्मयः खलजने विद्वज्जने चार्जवम् ।

शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता

इत्थं ये पुरुषा कलासु कुशलास्तेष्वे लोकस्थितिः ॥३॥

हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौ

नेत्रे साधुविलोकनेन रहिते पादौ न तीर्थं गतौ ॥

अन्यायार्जितवित्त पूर्णमुदरं गर्वेण तुड्गं शिरो ।

रे रे जंबुक मुञ्चमुञ्च सहसा नीचं सुनिन्द्यं वपुः ॥४॥

येषां श्रीमद्यशोदा सुतपदकमले नास्ति भक्तिर्नराणां

येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा ।

येषां श्रीकृष्णलीलाललितरसकथा सादरौनैव कर्णौ

धिक्तांधिक्तांधिगेतांकथ यति सततं कीर्तनस्थोमॄदंगः ॥५॥

पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं

नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणं ।

वर्षा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं ।

यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥६॥

सत्सङ्गाद भवति हि साधुता खलानां ।

साधूनां न हि खलसंगतेः खलत्वम् ॥

आमोदं कुसुमभवं मृदेव धत्ते

मृदगन्धं नहि कुसुमानि धारयन्ति ॥७॥

साधूनां दर्शनं पुण्यं तीर्थीभूता हि साधवः ।

कालेन फलते तीर्थं सद्यः साधुसमागमः ॥८॥

विप्राऽस्मिन्नगरे महान् कथयकस्तालद्रुमाणां गणः

को दाता रजको ददाति वसनं प्रातर्गृ हीत्वा निशि ।

को दक्षः परवित्तदारहरणे सर्वोऽपि दक्षो जनः

कस्माज्जीवसि हे सखे विष कृमिन्यायेन जीवाम्यहम् ॥९॥

न विप्रपादोदकपंकजानि

न वेदशास्त्रध्वनिगर्जितानि ।

स्वाहास्वधाकारविवर्जितानि

श्मशानतुल्यानिगृहाणि तानि ॥१०॥

सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा

शांतिः पत्नी क्षमा पुत्रः षडेते ममबान्धवाः ॥११॥

अनित्यानि शरिराणि विभवो नैव शाश्वतः ।

नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥१२॥

निमन्त्रणोत्सवा विप्रा गावो नवतृणोत्सवाः ।

पत्युत्साहयुता भार्या अहं कृष्ण ! रणोत्सवः ॥१३॥

मातृवत्परदारेषु परद्रव्याणि लोष्ठवत् ।

आत्मवत्सर्वभूतानि यः पश्यति स पंडितः ॥१४॥

धर्मे तत्परता मुखे मधुरता दाने समुत्साहता

मित्रेऽवंचकता गुरौ विनयता चित्तेऽतिगम्भीरता ।

आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञातृता

रूपे सुन्दरता शिवे भजनता त्वय्यस्तिभी राघवः ॥१५॥

काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः

सूर्यस्तीव्रकरः शशीक्षयकरः क्षारोहि वारां निधिः ।

कामो नष्टतनुर्बलिदितिसुतो नित्यं पशुः कामगाः

नैस्तांस्ते तुलयामि भो रघुपते कस्योपमादीयते ॥१६॥

विद्या मित्रं प्रवासे च भार्या मित्र गृहे च ।

व्याधिस्तस्यौषधं मित्रं धर्मा मित्रं मृतस्य च ॥१७॥

विनयं राजपुत्रेभ्यः पंडितेभ्यः सुभाषितम् ।

अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥१८॥

अनालोक्य व्ययं कर्ता अनाथः कलहप्रियः ।

आर्तः स्त्रीसर्वक्षेत्रेषु नरः शीघ्र विनश्यति ॥१९॥

नाऽऽहारं चिन्तयेत्प्राज्ञो धर्ममेकं हि चिन्तयेत् ।

आहारो हि मनुष्याणां जन्मना सह जायते ॥२०॥

धनधान्यप्रयोगेषु विद्यासंग्रहणे तथा ।

आहारे व्यवहारे च त्यक्तलज्जः सुखीभवेत् ॥२१॥

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।

स हेतु सर्वविद्यानां धर्मस्य च धनस्य च ॥२२॥

वयसः परिणामेऽपि यः खलः खलः एव सः ।

सम्पक्वमपि माधुर्यं नापयातीन्द्रवारुणम् ॥२३॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP