प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम् । नानाशास्त्रोदधृतं वज्ञ्ये राजनीतिसमुच्चयम् ॥१॥
अधीत्दंये यथाशास्त्रं नरो जानाति सत्तमः । धर्मोपदेशं विख्यातं कार्याऽकार्य शुभाऽशुभम् ॥२॥
तदहं संप्रवक्ष्यामि लोकानां हितकाम्यया । येन विज्ञानामात्रेण सर्वज्ञत्वं प्रपद्यते ॥३॥
मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च । दुःखितै सम्प्रयोगेण पणिड्तोऽप्यवसीदति ॥४॥
दुष्टाभार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव नः संशयः ॥५॥
आपदर्थे धनं रक्षेद्दारान् रक्षेध्दनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥६॥
आपदार्थे धनं रक्षेच्छ्रीमतश्च किमापदः । कदाचिच्चलेता लक्ष्मीःसंचितोऽपिविनश्यति ॥७॥
यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवः । न च विद्यागमऽप्यस्ति वासस्तत्र न कारयेत् ॥८॥
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत ॥९॥
लोकयात्रा भयं लज्जा दाक्षिणायं त्यागशीलता । पञ्च यत्र न विद्यन्ते न कुर्य्यात्तत्र सड्गतिम् ॥१०॥
जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रं चापत्तिकाले तु भार्यां च विभवक्षये ॥११॥
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥१२॥
यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥१३॥
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् । रूपशीलां न नीचस्य विवाहः सद्रॄशे कुले ॥१४॥
नदीनां शस्रपाणीनां नखीनां श्रृड्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषुराजकुलेषु च ॥१५॥
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमां विद्यांस्त्रीरत्नं दुष्कुलादपि ॥१६॥
स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गणा । साहसं षड्र्गुणं चैव कामश्चाष्टगुणः स्मृत ॥१७॥