अथमूर्तिप्रतिष्ठा प्रतिष्ठासर्वदेवानांवैशाखज्येष्ठफाल्गुने ।
चैत्रेतुस्याद्विकल्पेनमाघेविष्ण्वन्यमूर्तिषु १ सौम्यायनेशुभाप्रोक्तानिन्दितादक्षिणायने ।
मातृभैरववाराहनरसिंहत्रिविक्रमाः २ दक्षिनेप्ययनेस्थाप्यादेव्यश्चेत्युचिरेपरे ।
विष्णोःशस्ताश्चैत्रमासाश्विनश्रावणकाअपि ३ माघफाल्गुनवैशाखज्येष्ठाषाढसहःसुच ।
श्रावणेचनभस्येचलिङ्गस्थापनमुत्तमम् ४ देव्यामाघेऽश्विनेमासेप्युत्तमासर्वकामदा ।
अश्विनीरोहिण्युत्तरात्रयमृगपुनर्वसुपुष्यहस्तचित्रास्वात्यनुराधाश्रवणत्रयरेवतीषुशनिभौमान्यवासरेदर्शरिक्तअन्यतिथौसर्वदेवप्रतिष्ठाशुभा
श्रवणेकृतिकादिविशाखन्तेषुचद्वादश्यांचविष्णोःप्रशस्ता चतुर्थीगणेशस्योक्ता
नवमीमूलभंचदेव्याःतथास्वस्वनक्षत्राणिसर्वेषाम् यथार्द्राशिवस्य हस्तःसूर्यस्येत्यादि ॥