सचप्रातर्होमोत्तरंवामध्याह्नसंध्योत्तरंवावैश्वदेवान्तेवासकृदेवकार्यः भट्टोजिदीक्षितीयेतुप्रातराहुतेरनन्तरकालः
शाखान्तरविषयः आश्वलायनैस्तु मध्याह्नसंध्योत्तरमेवानुष्टेयइयुक्तम्
शुष्कंवासस्तदभावेआद्रत्रिर्विधुन्वन्परिधायाचम्यप्राणानायम्यश्रीपरमेश्वरप्रीत्यर्थंब्रह्मयज्ञं
करिष्ये तदङ्गतयादेवऋष्याचार्यतर्पणंकरिष्ये मृतपितृकैःपितृतर्पणंचकरिष्ये इति संकल्प्य
दर्भेषुदर्भपाणिःप्राङ्मुखएवोपविश्यवामजङ्घोपरिमूलदेशे
दक्षिणपादंनिधायाथवावामपादाङ्गुष्ठोपरिदक्षिणपादांङ्गुष्ठंनिधायैवमउपस्थंकृत्वादक्षिणजानुस्थेवामेकरेउत्तानेप्रागग्राङ्गुलौ
प्रागग्रेद्वेपवित्रेधृत्वादक्षिणकरेणतथैवसंपुटीकृत्यद्यावापृथिव्योः
संधिमीक्षमाणोनिमीलिताक्षोवाॐकारव्याहृतीःसकृदुच्चार्यगायत्रींपच्छोर्धर्चशःसर्वामनवानामितित्रिर्जपेत् ततोग्रिमी
ळइतिसूक्तंपठित्वासंहिताब्राह्मणषडङ्गानिएकंसमाप्यापरमितिअध्यायंसूक्तमृचंवायथाशक्तिक्रमशःपठेत्
मंत्रब्राह्मणादीनिभागशःसर्वाणियथाशक्तिप्रतिदिनंपठेदितिकेचित्
एवंचतुर्वेदाध्यायीक्रमशश्चतुर्वेदान्भागशःसर्वानेववाऋग्वेदपूर्वकान्पठेत् एकैकशाखाध्यायीतुस्वशाखामेव
शाखाध्ययनाभावे सूक्तमृचंवापठित्वैकंयजुःसामचोपनिषदश्चेतिहासपुरणादींश्चपठेत् पुरुषसुक्तमुक्त्वा
नमोब्रह्मणेनमोअस्त्वग्रयइतिऋचंत्रिःपठेत् नात्रऋष्यादिस्मरणम् विद्युदसीत्यादेराद्यन्तेपाठस्तैत्तिरीयविषयः
उपविश्यपाठाशक्तस्तिष्ठन्व्रजन्शयानोवापठोदित्याश्वलायनः अनध्यायेष्वल्पंपठेत् ।