ध्यानजले ज्ञानहृदे सर्वपापभयापहे ।
यः स्नाति मानसे तीर्थे स याति परमां गतिम् ॥८४॥
क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः
क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः ।
क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदित-
श्चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥८५॥
चिन्ताशून्यमदैन्यभैक्ष्यमशनं पानं सरिद्वारिषु
स्वातन्त्र्येण निरङकुशा स्थितिर भीर्निद्रा श्मशाने वने ।
वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्या मही
संचारो निगमान्तवीथिषु विदांक्रीडा परे ब्रह्माणि ॥८६॥
तनुं त्यजतु काश्यां वा श्वपचस्य गृहेऽथवा ।
ज्ञानसम्प्राप्तिसमये मुक्तोऽसौ विगताशयः ॥८७॥
यस्य कस्य च वर्णस्य ज्ञानं देहे प्रतिष्टितम् ।
तस्य दासस्य दासोऽहं भवे जन्मनि जन्मनि ॥८८॥
स्नातं तेन समस्ततीर्थसलिलैर्दत्ता च सर्वावनि-
र्यज्ञानां च कृतं सहस्त्रमखिला देवाश्च सम्पूजिताः ।
संसाराच्च समुद्धृताः स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ
यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात् ॥८९॥