तत्र नवधा भक्तिः
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥१॥
उदाहरणानि
श्रीविष्णोः श्रवणे परीक्षिदभवद्वैयासकिः कीर्तने
प्रह्लादः स्मरणे तदङ्घ्रिभजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस्त्वभिबन्दने कपिपतिर्दास्येऽथ सख्येऽर्जुनः
सर्वस्वात्मनिवेदने बलिरभूत्कृष्णाप्तिरेषां परम् ॥२॥
श्रवणम्
निशम्य कर्माणि गुणानतुल्या-
न्वीर्याणि लीलातनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रुगद्गदं
प्रोत्कण्ठमुग्दायति रौति नृत्यति ॥३॥
श्रृण्वन्सुभद्राणि रथाङगपाणे-
र्जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तदर्थकानि
गायन्विलज्जो विचरेदसङगः ॥४॥
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत ।
न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ॥५॥
श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ।
न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥६॥
कीर्तनम्
हरेर्नामैव नामैव नामैव मम जीवनम् ।
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥७॥
नाहं वसामि बैकुण्ठे योगिनां हृदये न च ।
मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥८॥
गीत्वा च मम नामानि विचरेन्मम सन्निधौ ।
इति ब्रवीमि ते सत्यं क्रीतोऽहं तस्य चार्जुन ॥९॥
कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः ।
कीर्तनादेव कृष्णस्य मुक्तसङागः परं व्रजेत् ॥१०॥
कृते यद्ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद्धरिकीर्तनात् ॥११॥
तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् ।
तदेव शोकार्णवशोषणं नृणां यदुत्तमश्लोकयशोऽनुगीयते ॥१२॥
न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् ।
तद्ध्वाङक्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साधवोऽमलाः ॥
स वाग्विसर्गो जनताघसम्प्लवो
यस्मिन्प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङिकतानि य-
च्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥१४॥
तृणादपि सुनीचेन तरोरपि सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥१५॥
कमलनयन वासुदेव विष्णो
धरणिधराच्युत शङखचक्रपाणे ।
भव शरणमितीरयन्ति ये वै
त्यज भट दूरतरेण तानपापान् ॥१६॥
स्मरणम् (ध्यानं च )
भगवत उरुविक्रमाङ्घ्रिशाखा-
नखमणिचन्द्रिकया निरस्ततापे ।
हृदि कथमुपसीदतां पुनः
स प्रभवति चन्द्र इवोदितेऽर्कतापः ॥१७॥
ते सभाग्या मनुष्येषु कृतार्था नृप निश्चितम् ।
स्मरन्ति ये स्मारयन्ति हरेर्नाम कलौ युगे ॥१८॥
कृष्णे रताः कृष्णमनुस्मरन्ति
रात्रौ च कृष्णं पुनरुत्थिता ये ।
तेऽभिन्नदेहाः प्रविशन्ति कृष्णे
हविर्यथा मन्त्रहुतं हुताशे ॥१९॥
ये मानवा विगतरागपरावरज्ञा
नारायणं सुरगुरुं सततं स्मरन्ति ।
ध्यानेन तेन हतकिल्बिषचेतनास्ते
मातुः पयोधररसं न पुनः पिबन्ति ॥२०॥
पादसेवनम्
सकृन्मनः कृष्णपदारविन्दयो-
र्निवेशितं तद्गुणरागि यैरिह ।
न ते यमं पाशभृतश्च तद्भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥२१॥
श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या
लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।
यस्याः स्ववीक्षणकृतेऽन्यसुरप्रयास-
स्तद्वद्वयं च तव पादरजः प्रपन्नाः ॥२२॥
तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच्छरणं तवाङ्घ्रिद्वन्द्वातपत्रादमृताभिवर्षात् ॥२३॥
अर्चनम्
नरके पच्यमानस्य यमेन परिभाषितः ।
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥२४॥
एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः ।
कुपथं तं विजानीयाद् गोविन्दरहितागमम् ॥२५॥
वन्दनम्
खं वायुमग्निं सलिलं महीं च
ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।
सरित्समुद्रांश्च हरेः शरीरं
यत्किञ्च भूतं प्रणमेदनन्यः ॥२६॥
एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावमृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥२७॥
सर्वस्वनिवेदनम्
कायेन वाचा मनसेन्द्रियैर्वा
बुद्धयाऽऽत्मना वानुसृतस्वभावात् ।
करोति यद् यत् सकलं परस्मै
नारायणायेति समर्पयेत्तत् ॥२८॥
भक्तिसामान्यम्
श्रृण्वन् गृणन् संस्मरयंश्च चिन्तयन्
नामानि रुपाणि च मङगलानि ते ।
क्रियासु यस्त्वच्चरणारविन्दयो-
राविष्टचेता न भवाय कल्पते ॥२९॥
विपदः सन्तु नः शश्वत्तत्र तत्र जगद्गुरो ।
भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥३०॥
वाणी गुणानुकथने श्रवणौ कथायां
हस्तौ च कर्मसु मनस्तव पादयोर्नः ।
स्मृत्यां शिरस्तव निवासजगत्प्रणामे
दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥३१॥
श्रेयःस्त्रुतिं भक्तिमुदस्य ते विभो
क्लिश्यन्ति ये केवलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनाम् ॥३२॥
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः ॥३३॥
न साधयति मां योगो न सांख्यं धर्म उद्धव ।
न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥३४॥
कुर्वन्ति शान्तिं विबुधाः प्रहृष्टाः
क्षेमं प्रकुर्वन्ति पितामहाद्याः ।
स्वस्ति प्रयच्छन्ति मुनीन्द्रमुख्या
गोविन्दभक्तिं वहतां नराणाम् ॥३५॥
शुभा ग्रहा भूतपिशाचयुक्ता
ब्रह्मादयो देवगणाः प्रसन्नाः ।
लक्ष्मीः स्थिरा तिष्ठति मन्दिरे च
गोविन्दभक्तिं वहतां नराणाम् ॥३६॥
गङगागयानैमिषपुष्कराणि
काशी प्रयागः कुरुजाङगलानि ।
तिष्ठन्ति देहे कृतभक्तिपूर्वं
गोविन्दभक्तिं वहतां नराणाम् ॥३७॥
सकलभुवनमध्ये निर्धनास्तेऽपि धन्या
निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।
हरिरपि निजलोकं सर्वथा तं विहाय
प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः ॥३८॥
भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः ।
अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे ॥३९॥
नो मुक्त्यै स्पृहयामि नाथ विभवैः कार्यं न सांसारिकैः
किंत्वायोज्य करौ पुनः पुनरिदं त्वामीशमभ्यर्थये ।
स्वप्ने जागरणे स्थितौ विचलने दुःखे सुखे मन्दिरे
कान्तारे निशि वासरे च सततं भक्तिर्ममास्तु त्वयि ॥४०॥
नानाचित्रविचित्रवेषशरणा नानामतभ्रामका
नानातीर्थनिषेवका जपपरा मौने स्थिता नित्यशः ।
सर्वे चोदरसेवकास्त्वभिमता वादे विवादे रता
ज्ञानान्मुक्तिरिदं वदन्ति मुनयो मुक्त्यापि सा दुर्लभा ॥४१॥
वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः ।
वरमपि घोरे नरके पतनं न च हरिभक्तेर्विमुखः सङगः ॥४२॥
विनिश्चितं वदामि ते न अन्यथा वचांसि मे ।
हरिं नरा भजन्ति येऽतिदुस्तरं तरन्ति ते ॥४३॥
व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का
कुब्जायाः किमु नाम रुपमधिकं किं तत्सुदाम्नो धनम् ।
वंशः को विदुरस्य यादवपतेरुग्रस्य किं पौरुषं
भक्त्या तुष्यति केवलं न च गुणैर्भक्तिप्रियो माधवः ॥४४॥
भक्तस्य लक्षणं माहात्म्यं च
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥४५॥
त्रिभुवनविभवहेतवेऽप्यकुण्ठ-
स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।
न चलति भगवत्पदारविन्दा-
ल्लवनिमिषार्धमपि यः स वैष्णवाग्रयः ॥४६॥
विसृजति हृदयं न यस्य साक्षा-
द्धरिरवशाभिहितोऽप्यघौघनाशः ।
प्रणयरशनया धृताङ्घ्रिपद्मः
स भवति भागवतप्रधान उक्तः ॥४७॥
क्वचिद्रुदन्त्यच्युतचिन्तया क्वचि-
द्धसन्ति नन्दन्ति वदन्त्य लौकिकाः ।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तूष्णीं परमेत्य निर्वृताः ॥४८॥
न नाकपृष्ठं न च सार्वभौमं
न पारमेष्ठयं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥४९॥
न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङग संसृतिम् ।
स्मरन्मुकुन्दाङ्घ्रयुपगूहनं पुनर्विहातुमिच्छेन्न रसग्रहो यतः ॥५०॥
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः ॥५१॥
सालोक्यसार्ष्टिसामीप्यसारुप्यैकत्वमप्युत ।
दीयमानं न गृह्वन्ति विना मत्सेवनं जनाः ॥५२॥
अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज ।
साधुभिर्ग्रस्तहृदयो पिष्यन्ते सर्वमानवाः ।
दुःखमुक्तः सदानन्दः कृष्णभक्तो हि केवलः ॥५४॥
वासुदेवस्य ये भक्ताः शान्तास्तद्गतमानसाः ।
तेषां दासस्य दासोऽहं भवे जन्मनि जन्मनि ॥५५॥
ये मे भक्ता हि हे पार्थ न मे भक्तास्तु मे मताः ।
मद्भक्तस्य तु ये भक्तास्ते मे भक्ततमा मताः ॥५६॥
सदा मुक्तोऽपि बद्धोऽस्मि भक्तेषु स्नेहरज्जुभिः ।
अजितोऽपि जितोऽहं तैरवशोऽपि वशीकृतः ॥५७॥