अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द-
श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे ।
अधरमणिसमीपं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥२२४॥
लोकानुद्धरयञ्श्रुतीर्मुखरयन् क्षोणीरुहान्हर्षयञ्-
च्छैलान्विद्रवयन्मृगान्विवशयन्गोवृन्द मानन्दयन् ।
गोपान्सम्भ्रमयन्मुनीन्मुकुलयन्सप्तस्वराञ्जृम्भय-
न्नोङकारार्थमुदीरयन्विजयते वंशीनिनादः शिशोः ॥२२५॥
मुखारविन्दनिस्यन्दमरन्दभरतुन्दिला ।
ममानन्दं मुकुन्दस्य सन्दुग्धां वेणुकाकली ॥२२६॥
मुरहर रन्धनसमये मा कुरु मुरलीरवं मधुरम् ।
नीरसमेधो रसतां कृशानुरप्येति कृशतनुताम् ॥२२७॥
ध्यानं बलात् परमहंसकुलस्य भिन्दन्
निन्दन् सुधामधुरिमानमधीरधर्मा ।
कन्दर्पशासनधुरां मुहुरेव शंसन्
वंशीध्वनिर्जयति कंसनिषूदनस्य ॥२२८॥
भिन्दन्नम्बुभृतश्चमत्कृतिपदं कुर्वन् मुहुस्तुम्बुरुं
ध्यानादन्तरयन् सनन्दनमुखान्संस्तम्भयन् वेधसम् ।
औत्सुक्यावलिभिर्बलिं विवलयन् भोगीन्द्रमाघूर्णयन्
भिन्दन्नण्डकटाहभित्तिमभितो बभ्राम वंशीध्वनिः ॥२२९॥