मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|श्री मध्वाचार्य कृत द्वादश स्तोत्र| अथ अष्टमस्तोत्रम् श्री मध्वाचार्य कृत द्वादश स्तोत्र अथ प्रथमस्तोत्रम् अथ द्वितीयस्तोत्रम् अथ तृतीयस्तोत्रम् अथ चतुर्थस्तोत्रम् अथ पंचमस्तोत्रम् अथ षष्ठस्तोत्रम् अथ सप्तमस्तोत्रम् अथ अष्टमस्तोत्रम् अथ नवमस्तोत्रम् अथ दशमस्तोत्रम् अथ एकादशस्तोत्रम् अथ द्वादशस्तोत्रम् अथ अष्टमस्तोत्रम् मध्वाचार्य (१२३८-१३१७ ईस्वी) हे तेराव्या शतकातील महान भारतीय दार्शनिक आणि वेदांतातील द्वैतवाद (तत्ववाद) संप्रदायाचे संस्थापक होते. Tags : dvadashamadhvacharyastotraद्वादशमध्वाचार्यस्तोत्र अथ अष्टमस्तोत्रम् Translation - भाषांतर वंदिताशेषवंद्योरुवृंदारकं चंदनाचर्चितोदारपीनांसकम् ।इंदिराचंचलापांगनीराजितं मंदरोद्धारिवृत्तोद्भुजाभोगिनम् ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥१॥सृष्टिसंहारलीलाविलासाततं पुष्टषाड्गुण्यसद्विग्रहोल्लासिनम् ।दुष्टनिःशेषसंहारकर्मोद्यतं हृष्टपुष्टातिशिष्ट (अनुशिष्ट) प्रजासंश्रयम् ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥२॥उन्नतप्रार्थिताशेषसंसाधकं सन्नतालौकिकानंददश्रीपदम् ।भिन्नकर्माशयप्राणिसंप्रेरकं तन्न किं नेति विद्वत्सु मीमांसितम् ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥३॥विप्रमुख्यैः सदा वेदवादोन्मुखैः सुप्रतापैः क्षितीशेश्वरैश्चार्च्चितम् ।अप्रतर्क्योरुसंविद्गुणं निर्मलं सप्रकाशाजरानंदरूपं परम् ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥४॥अत्ययो यस्य (येन) केनापि न क्वापि हि प्रत्ययो यद्गुणेषूत्तमानां परः ।सत्यसंकल्प एको वरेण्यो वशी मत्यनूनैः सदा वेदवादोदितः ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥५॥पश्यतां दुःखसंताननिर्मूलनं दृश्यतां दृश्यतामित्यजेशार्चितम् ।नश्यतां दूरगं सर्वदाप्याऽत्मगं वश्यतां स्वेच्छया सज्जनेष्वागतम् ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥६॥अग्रजं यः ससर्जाजमग्र्याकृतिं विग्रहो यस्य सर्वे गुणा एव हि ।उग्र आद्योऽपि यस्यात्मजाग्र्यात्मजः सद्गृहीतः सदा यः परं दैवतम् ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥७॥अच्युतो यो गुणैर्नित्यमेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्तितः ।उच्यते सर्ववेदोरुवादैरजः स्वर्चितो ब्रह्मरुद्रेंद्रपूर्वैः सदा ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥८॥धार्यते येन विश्वं सदाजादिकं वार्यतेऽशेषदुःखं निजध्यायिनाम् ।पार्यते सर्वमन्यैर्नयत्पार्यते कार्यते चाखिलं सर्वभूतैः सदा ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥९॥सर्वपापानियत्संस्मृतेः संक्षयं सर्वदा यांति भक्त्या विशुद्धात्मनाम् ।शर्वगुर्वादिगीर्वाण संस्थानदः कुर्वते कर्म यत्प्रीतये सज्जनाः ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥१०॥अक्षयं कर्म यस्मिन् परे स्वर्पितं प्रक्षयं यांति दुःखानि यन्नामतः ।अक्षरो योऽजरः सर्वदैवामृतः कुक्षिगं यस्य विश्वं सदाऽजादिकम् ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥११॥नंदितीर्थोरुसन्नामिनो नंदिनः संदधानाः सदानंददेवे मतिम् ।मंदहासारुणा पांगदत्तोन्नतिं वंदिताशेषदेवादिवृंदं सदा ।प्रीणयामो वासुदेवं देवतामंडलाखंडमंडनं प्रीणयामो वासुदेवम् ॥१२॥इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितंद्वादशस्तोत्रेषु अष्टमस्तोत्रं संपूर्णम् N/A References : N/A Last Updated : August 12, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP