संस्कृत सूची|संस्कृत स्तोत्र साहित्य|अथर्वशीर्ष| श्रीदेव्यथर्वशीर्षं अथर्वशीर्ष श्रीसमर्थाथर्वशीर्षम् अथर्वशिरोपनिषत् शिवाथर्वशीर्षं श्रीगणपत्यथर्वशीर्ष श्रीगणपत्यथर्वशीर्ष गायत्र्यथर्वशीर्षम् श्रीदत्त अथर्वशीर्ष श्रीदेव्यथर्वशीर्षं श्रीदेव्यथर्वशीर्षं अथर्वशीर्ष म्हणजे "स्थिर बुद्धी देणारे उपनिषद" Tags : athrvashirshasanskritअथर्वशीर्षसंस्कृत श्रीदेव्यथर्वशीर्षं Translation - भाषांतर ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ।श्री गणेशाय नमः ।ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ॥ १॥साऽब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् ।शून्यं चाशून्यं च ॥ २॥अहमानन्दानानन्दौ । अहं विज्ञानाविज्ञाने ।अहं ब्रह्माब्रह्मणी । द्वे ब्रह्मणी वेदितव्ये । var just वेदितव्येइति चाथर्वणी श्रुतिः । अहं पञ्चभूतानि ।अहं पञ्चतन्मात्राणि । अहमखिलं जगत् ॥ ३॥वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् ।अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् ॥ ४॥अहं रुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुत विश्वदेवैः ।अहं मित्रावरुणावुभौ बिभर्मि । अहमिन्द्राग्नी अहमश्विनावुभौ ॥ ५॥अहं सोमं त्वष्टारं पूषणं भगं दधामि ।अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥ ६॥अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते । var सुव्रतेअहं राज्ञी सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । var राष्ट्रीअहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।य एवं वेद । स दैवीं सम्पदमाप्नोति ॥ ७॥ते देवा अब्रुवन् ।नमो देव्यै महादेव्यै शिवायै सततं नमः ।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ८॥तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।दुर्गां देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्यै ते नमः ॥ ९॥देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥ १०॥कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ११॥महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।तन्नो देवी प्रचोदयात् ॥ १२॥अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥ १३॥कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम् ॥ १४॥ var चापृथक् क्लेशा विश्वमातादिविद्याः ॥एषाऽऽत्मशक्तिः । एषा विश्वमोहिनी । पाशाङ्कुशधनुर्बाणधरा ।एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ॥ १५॥नमस्ते।स्तु भगवति मातरस्मान्पाहि सर्वतः ॥ १६॥सैषा वैष्णव्यष्टौ वसवः । सैषैकादश रुद्राः ।सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च ।सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षा सिद्धाः ।सैषा सत्त्वरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणी ।सैषा प्रजापतीन्द्रमनवः ।सैषा ग्रहनक्षत्रज्योतिःकलाकाष्ठादिविश्वरूपिणी । var सैषा ग्रहनक्षत्रज्योतींषि । कलाकाष्ठादिविश्वरूपिणी ।तामहं प्रणौमि नित्यम् । पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १७॥ var सर्वदां शिवाम्वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् ।अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ १८॥एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः । var एवमेकाक्षरं ब्रह्मध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १९॥वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम् । var ब्रह्मभूस्तस्मात्सूर्योऽवामश्रोत्रबिन्दुसंयुक्ताष्टात्तृतीयकम् ।नारायणेन संमिश्रो वायुश्चाधारयुक्ततः ।विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ २०॥ var नवार्णकोणस्य महानानन्ददायकःहृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् ।पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् ।त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ २१॥ var भक्तकामदुहंनमामि त्वां महादेवीं महाभयविनाशिनिम् । var भजामि त्वां महादेवि महाभयविनाशिनि ।महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ २२॥ var महादारिद्र्यशमनींयस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया ।यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता ।यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या ।यस्या जननं नोपलक्ष्यते तस्मादुच्यते अजा ।एकैव सर्वत्र वर्तते तस्मादुच्यते एका ।एकैव विश्वरूपिणी तस्मादुच्यते नैका । var तस्मादुच्यतेऽनेका ।अत एवोच्यते आज्ञेयानन्तालक्ष्याजैका नैकेति ॥ २३॥ var आज्ञेयाऽनन्तालक्ष्याजैकानेकामन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी । var चिन्मयानन्दायस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ॥ २४॥तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ २५॥इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षफलमाप्नोति ।इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयति ।शतलक्षं प्रजप्त्वाऽपि सोऽर्चासिद्धिं न विन्दति ।var नाऽर्चाशुद्धिं च विन्दतिशतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ।दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते ।महादुर्गाणि तरति महादेव्याः प्रसादतः ॥ २६॥सायमधीयानो दिवसकृतं पापं नाशयति ।प्रातरधीयानो रात्रिकृतं पापं नाशयति ।सायं प्रातः प्रयुञ्जानोऽपापो भवति ।निशीथे तुरीयसंध्यायां जप्त्वा वाक्सिद्धिर्भवति ।नूतनायां प्रतिमायां जप्त्वा देवतासांनिध्यं भवति ।प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।भौमाश्विन्यां महादेवीसंनिधौ जप्त्वा महामृत्युंतरति स महामृत्युं तरति ।य एवं वेद ॥ इत्युपनिषत् ॥ २७॥इति देव्यथर्वशीर्षं सम्पूर्णम् ॥ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः । N/A References : N/A Last Updated : January 04, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP