संस्कृत सूची|संस्कृत स्तोत्र साहित्य|अथर्वशीर्ष| श्रीसमर्थाथर्वशीर्षम् अथर्वशीर्ष श्रीसमर्थाथर्वशीर्षम् अथर्वशिरोपनिषत् शिवाथर्वशीर्षं श्रीगणपत्यथर्वशीर्ष श्रीगणपत्यथर्वशीर्ष गायत्र्यथर्वशीर्षम् श्रीदत्त अथर्वशीर्ष श्रीदेव्यथर्वशीर्षं श्रीसमर्थाथर्वशीर्षम् अथर्वशीर्ष म्हणजे "स्थिर बुद्धी देणारे उपनिषद" Tags : athrvashirshasanskritअथर्वशीर्षसंस्कृत श्रीसमर्थाथर्वशीर्षम् Translation - भाषांतर अथ श्री अक्कलकोटीस्वामीसमर्थाथर्वशीर्षम् ।अथ ध्यानम् ।ॐ ध्यायेच्छान्तं प्रशान्तं कमलनयनं योगिराजं दयालुंस्वामी मुद्रासनस्थं विमलतनुयुतं मन्दहास्यं कृपालम् ।दृष्टिक्षेपोहि यस्य हरति स्मरणात् पापजालौघ सङ्घंभक्तानां स्मर्तृगामी जयति सविदधत् केवलानन्द कन्दम् ॥ १॥। हरिः ॐ ।नमः श्रीस्वामीसमर्थाय परमहंसाय दिव्यरूपधारिणे ।नमः श्रीपाद श्रियावल्लभावतारधारिणे ।नमः श्रीमन्नरसिंह सरस्वत्यावतारधारिणे ।नमः कर्दलीवनवासिने । नमोऽवधूताय स्वेच्छाचारिणे ।नमः कैवल्यानन्दसच्चिदानन्दस्वरूपिणे ॥ २॥त्वं परं तत्त्वमयः । तत्त्वमस्यादि महावाक्यैः सम्बोधितः ।त्वं पृथिव्यादि पञ्चमहाभुतः स्वरूपः ।त्वं अष्टधा प्रकृति पुरूषात्मकः । त्वं चराचरः साक्षीः ।त्वं ज्ञप्तिमयस्त्वं पूर्णानन्दमयः ।त्वं मूलाधारादि षट्चक्रस्थित दैवतात्मकः ॥ ३॥सर्वं जगदेतत्त्वत्तो जायते । त्वयि विद्यते । त्वयि लीयते ।त्वामहं ध्यायामि नित्यम् ॥ ४॥पाहिमां त्वम् । प्राच्यां पाहि । प्रतीच्यां पाहि । दक्षिणातात् पाहि ।उत्तरस्यां पाहि । ऊर्ध्वात् पाहि । अधस्तात् पाहि । सर्वतः पाहि पाहि माम् ॥भयेभ्यःस्त्राहि माम् । संसारमहाभयात् मामुद्धर ।शरणागतोऽस्मि त्वाम् ॥ ५॥आजानुबाहुं गौराङ्गं दिव्यकौपिनधारिणम् ।तुलसीबिल्वपुष्पादि गन्धद्रव्यैः सुपूजितम् ।भक्तोद्धारैक ब्रीदं च स्मरणे भक्ततारकम् ।ध्यायामि हृदयाकाशे सच्चिदानन्दरूपिणम् ॥ ६॥``स्वामी समर्थ'' इति महामन्त्रः । महाभय विनाशकः ।नादानुसन्धाने स्वामीति जप्त्वा पापजालं प्रणश्यति ।स्वस्वरूपानुसन्धाने स्वामीति जप्त्वा सच्चिदानन्दं प्राप्नोति ।आत्मसाक्षात्कारो भवति ॥ ७॥नमाम्यहं दिव्यरूपं जगदानन्ददायकम् ।महायोगेश्वरं वन्दे ब्रह्माविष्णुमहेश्वरम् ।शक्तिं गणपतिं चैव सर्वदेवमयं भजेत् ।कृपालु भक्तवरदं वन्देऽहं सर्वसाक्षिणम् ॥ ८॥दत्तात्रेयाय विद्महे । परमहंसाय धीमहि । तन्नो स्वामी प्रचोदयात् ॥ॐ शान्तिः शान्तिः शान्तिः ।सुशान्तिर्भवतु ॥अवधूतचिन्तन श्रीगुरूदेवदत्त स्वामीसमर्थार्पणमस्तु ।सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः ।सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात् ॥इति श्रीस्वामीसमर्थाथर्वशीर्षं सम्पूर्णम् । N/A References : N/A Last Updated : January 04, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP