संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|दर्पदलनम्| सप्तमो विचारः दर्पदलनम् प्रथमो विचारः द्वितीयो विचारः तृतीयो विचारः चतुर्थो विचारः पञ्चमो विचारः षष्ठो विचारः सप्तमो विचारः दर्पदलनम् - सप्तमो विचारः "दर्पदलनम्" एक संस्कृत ग्रंथ, ज्याचा अर्थ आहे "अभिमानावर नियंत्रण"। Tags : darpadalamsanskritदर्पदलनम्संस्कृत दर्पदलनम् - सप्तमो विचारः Translation - भाषांतर तपः सदा रागधनाभिमानमोहप्रहाणाय सतामभीष्टम् । तेनैव दर्पो यदि किं वृथैव त्यक्तो निकायः क्षपितश्च कायः ॥१॥ सर्वात्मना शुद्धधिया विधेयः संसारदोषप्रशमाय यत्नः । कोपोपतप्तं धनरागदिग्धं करोति तीव्रं न तपः प्रशान्तिम् ॥२॥ चित्तं विरक्तं यदि किं तपोभिश्चित्तं सरागं यदि किं तपोभिः । चित्तं प्रसन्नं यदि किं तपोभिश्चित्तं सकोपं यदि किं तपोभिः ॥३॥ कोपेन शापश्पुरिताधराणां कामेन कम्पस्फुरिताधराणाम् । स्वेदाम्भसा तुल्यसमुद्भवेन निस्तेजसां किं तपसा मुनीनाम् ॥४॥ भार्याप्यहल्या किल गौतमस्य क्रुद्धस्य शापेन शिला बभूव । नीतो वसिष्ठेन रुषाभिशप्तश्चण्डालतां भूमिपतिस्त्रशङ्कुः ॥५॥ भूमग्नमूर्तिर्वररत्नलोभाद्विपाटयन्तीं नयने सुकन्याम् । तत्पाणिसंस्पर्शसुखादरेण सेहे निकारं च्यवनः सरागः ॥६॥ पाण्डुः प्रियाकण्ठविलम्बिबाहुर्ययौ स्तनन्यस्ततनुर्यदस्तम् । दग्धः परीक्षित्फणिफूत्कृतैर्यत्तपस्विकोपस्य विजृम्भितं तत् ॥७॥ विसारसंसारतरोर्न येन निःशेषमुन्मूलितमेव मूलम् । शापोपतापप्रभुणा परेषां किं तेन मिथ्यातपसा मुनीनाम् ॥८॥ न राजसेवारजसा विलुप्तं न भूमिविद्यादिविवादतप्तम् । न दम्भदीक्षाकुहकाकुलं यत्कल्याणमित्त्रं विमलं व्रतं तत् ॥९॥ ससंचयं गुप्तकलत्रपुत्रं पुनर्गृहीतव्यवाहरभारम् । दम्भाभिमानोद्भवकष्टभूतं मिथ्याव्रतं जीवितवृत्त्युपायः ॥१०॥ सरागरोगं बहुलप्रमोहं सरोगसंभारमखर्वगर्वम् । प्रद्वेषदोषोष्णममेयमायं संसारचिह्नं व्रतमेतदग्र्यम् ॥११॥ जटाक्षसूत्राजिनयोगपट्टकन्यादृढग्रन्थिनिपीड्यमानम् । विवेकहीनं विरतप्रकाशं व्रतं बृहद्बन्धनमामनन्ति ॥१२॥ सरागकाषायकषायचित्तं शीलांशुकत्यागदिगम्बरं वा । लौल्योद्भवद्भस्मभरप्रहासं व्रतं न वेषोद्भटतुल्यवृत्तम् ॥१३॥ निःसङ्गयोगं धनभोगसङ्गं विलम्बिकङ्कालकपालमालम् । कोपाकुलं स्पर्शविवर्जनीयं भारव्रतं तत्कथयन्ति पापम् ॥१४॥ बालस्तपस्वी किमतोऽस्ति हास्यं युवा वनैषी किमतोऽस्त्ययोग्यम् । वृद्ध सरागः किमतोऽस्ति निन्द्यं मूर्खः प्रमाता किमतोऽस्ति शोच्यम् ॥१५॥ क्षमा शमः शासनमिन्द्रियाणां मनः प्रसिक्तं करुणामृतेन । तपोऽर्हमेतत्सजने वने वा कायस्य संशोषणमन्यदाहुः ॥१६॥ हिमाचले श्यामलदेवदारुवने पुरा निर्झरचारुहास्ये । तपस्यतां शोषजुषां मुनीनां कालो ययौ वर्षसहस्रसंख्यः ॥१७॥ ततः कदाचिद्भगवान्भवार्तिहारी विहाराय नभःपथेन । समं भवान्या वृषभाधिरूढः समाययौ शीतमयूखमौलिः ॥१८॥ तस्योदितानां वदनप्रभाणां दीर्घीकृतानेकशशिप्रभाणाम् । विलासहास्येन नभो बभूव विभक्तिसंसक्तसितोत्तरीयम् ॥१९॥ देवी विलोक्याथ तपःप्रयत्नतीव्रप्रयासप्रकटास्थिशेषान् । मुनीन्कृपावेशविषण्णचित्ता शशाङ्कलेखाभरणं बभाषे ॥२०॥ देव त्वदाराधननिश्चलानां संत्यक्तसर्वाग्रहनिग्रहाणाम् । तप क्रियाशोषितविग्रहाणां नाद्यापि मुक्तिः किमहो मुनीनाम् ॥२१॥ कस्मादमी वर्षसहस्रलग्नक्लेशावलग्नास्तनुशोषमग्नाः । भवत्पदं नित्यसुखाय नैव निरामयं तन्मुनयः प्रयान्ति ॥२२॥ पृथुः प्रसादः प्रथमागतेषु निरादरत्वं चिरसंश्रितेषु । स्वाच्छन्द्यलीलाविपुलावलेपादेषु स्वभावः सुलभः प्रभूणाम् ॥२३॥ इति प्रियायाः प्रणयोपपन्नमाकर्ण्य वाक्यं गिरिशोऽब्रवीत्ताम् । कुर्वन्विषश्यामलकण्ठकान्तिं दन्तप्रभाभिः प्रतिभाविहीनम् ॥२४॥ देवि त्वयोक्तम् दयया मुनीनां भक्तानुरोधादुचितं ममैतत् । एषां भवोल्लङ्गनविघ्नभूतौ शान्तिं गतौ किं तु न कामकोपौ ॥२५॥ वनप्रवेशैर्नियमैरशेषैः क्रियाविशेषैः कृतकायशोषैः । न निर्विकारं पदमाप्नुवन्ति कोपेन कामेन च कृष्यमाणाः ॥२६॥ प्रत्यक्षमेषां मनसो विकारं संदर्शयाम्येष निषक्तमन्तः । तीव्रव्रतैः शुष्यति काय एव न वासनालीनघन/धनप्रमोहः ॥२७॥ संत्यक्तभोगाः स्पृहया विमुक्ताः स्नेहेऽप्यरागाः सुजनेऽप्यसङ्गाः । भजन्त्यविक्लेशतपःप्रसक्ता युक्ताः प्रकामं पदमव्ययं तत् ॥२८॥ उक्त्वेति शंभुर्वृषभात्सलीलं गिरेरिवाग्रादवतीर्य भूमिम् । क्षणादभूदद्भुतरूपराशिर्नग्नव्रतः कान्तिसुधावदातः ॥२९॥ तस्यामराधीशकिरीटरत्नशोणप्रभार्द्राविव पादपद्मौ । प्रचक्रतुर्विद्रुमबालवल्लीनवप्ररोहाद्भुतगर्वमुर्व्याम् ॥३०॥ सुस्पष्टजानु प्रचितोरुशोभि नाभिह्रदावर्तविभक्तमध्यम् । तत्तस्य रूपं प्रविलम्बिबाहोः पीनांसमासीन्मुखपूर्णचन्द्रम् ॥३१॥ अनन्यलावण्यसुधाब्धिमध्यस्नातैरिवाङ्गैः स्फटिकावदातैः । चक्रे दशाशाः स पृथुप्रकाशा दिगम्बरत्वादिव जातहासाः ॥३२॥ पाणिस्थितश्याममयूरपिच्छच्छायाच्छटाविच्छुरितोऽस्य कण्ठः । रराज लीनान्तरकालकूटमिषाग्निनेवार्पितधूमलेखः ॥३३॥ स लोचनाभ्यां पृथुपक्ष्मलाभ्यामारक्तपर्यन्तमनोहराभ्याम् । व्यधादिवानङ्गनवाङ्गसङ्गे दिगङ्गनानामनुरागदीक्षाम् ॥३४॥ दृष्ट्वा त्रिलोकीकलिताभिलाषं वपुः स्मरारेर्जनितस्मरं तत् । पूर्वापकारस्मृतिजातलज्जं चक्षुः क्षणं क्वापि ययौ तृतीयम् ॥३५॥ बभौ स कान्तः कुटिलासितेन स्कन्धस्पृशा कुन्तलसंचयेन । अन्वेष्टुमिष्टां मुकुटेन्दुलेखां निशागणेनेव समागतेन ॥३६॥ लतावधूपल्लवपाणिमुक्तैः स्मितावदातैर्विबभौ च पुष्पैः । रूपान्तरे निह्नुतजह्नुकन्याफेनावशेषैरिव कीर्णकेशः ॥३७॥ तेनान्यरूपेण कृता नवैव कान्तिश्चकाशे निजरूपगुप्त्यै । जूटादिवेन्दुर्मृदितः कराभ्यां सर्वाङ्गमभ्यङ्गपदे नियुक्तः ॥३८॥ रूपं विरूपीकृतमन्मथस्य तत्तस्य कान्त्या कमनीयमासीत् । लज्जापहाराद्वनदेवतानां सविस्मयो येन नवाभिलाषः ॥३९॥ विवाससस्तस्य ससङ्गमङ्गे लज्जावतीनां स्पृहयैव पेतुः । नेत्राणि विद्याधरसुन्दरीणां लीलारविन्दार्धतिरस्कृतानि ॥४०॥ नभःस्थितानां त्रिदशाङ्गनानां तद्गात्रसौन्दर्यवशीकृतानाम् । प्रकम्पशिञ्जानविभूषणानां नेत्रोत्सवोऽभूद्गतिविघ्नभूतः ॥४१॥ सुसिद्धकन्याञ्जलिपल्लवाग्रविमुक्तनीलोत्पलपुष्पकुञ्जम् । अङ्गे जगल्लोचनवर्गमस्य सौन्दर्यसंसक्तमिवाबभासे ॥४२॥ तद्दर्शने कौतुकनिश्चलानां कर्णावतंसीकृतलोचनानाम् । मृगाङ्गनानामपि सस्पृहाभून्नितान्तमन्तःकरणप्रवृत्तिः ॥४३॥ तस्य प्रवेशे वदनाधिवासलोभभ्रमद्भृङ्गगणाञ्चितानाम् । अभूत्सजृम्भश्वसनाकुलानां मुहुर्लतानां कुसुमेषु कम्पः ॥४४॥ शनैः शनैराश्रमसंनिकर्षं तं यौवनं मूर्तमिवापतन्तम् । विलोक्य कान्तं मुनिकामिनीनां मनः प्रहर्षोच्छलितं बभूव ॥४५॥ तासां तदालोकननिर्निमेषा दृष्टिः परं कर्णपथप्रविष्टा । उत्सृष्टलज्जाविपुलाभिलाषादसूचयन्मुग्धमृगीविलासम् ॥४६॥ तासां तदर्चारभसोत्थितानां स्रस्तांशुकोत्कम्पिघनस्तनीनाम् । नवेन कामेन खलीकृतानां जृम्भाभवोऽभूद्भुजयोर्विलासः ॥४७॥ तासां बभौ रोमलता मुखेन्दुभीता तमःश्रीः स्तनरक्षितेव । रागाग्निधूमप्रसराग्र्यलेखा तनीयसी नाभिविनिर्गतेव ॥४८॥ तस्याधरे चुम्बनलालसेव कण्ठे हठालिङ्गनसस्पृहेव । हृदि स्तनन्याससमुत्सुकेव पपात दृष्टिः सहसैव तासाम् ॥४९॥ भृङ्गस्वनैराहितहुंकृताभिः पुष्प्यत्प्रसूनैः प्रसृतस्मिताभिः । वाताञ्चितैः पल्लवपणिभिस्ता निवार्यमाणा इव मञ्जरीभिः ॥५०॥ संतर्ज्यमाना इव होमधूमलेखावलीभ्रूभ्रमणेन दिग्भिः । तस्यान्तिके शीलदुकूलमुक्तिसज्जा विलज्जाः प्रसभं बभूवुः ॥५१॥ निःश्वासिनीनां स्मरबाणपुङ्खपक्षान्तवातैरिव कम्पितानाम् । तासां विलोक्यैव मनोविकारं भ्रूभङ्गभीमा मुनिपर्षदासीत् ॥५२॥ कोपोत्कटव्याघ्रवीर्यमाणक्षमामृगीरक्तचितेव तेषाम् । आसन्नदोषागमवासरान्तसंध्यानिभाभूत्सहसैव दृष्टिः ॥५३॥ दष्टाधराः कम्पविधूर्णमानाः स्वेदार्द्रदेहा विषमं श्वसन्तः । ते भेजिरे रागसमुद्गतेर्ष्याः कोपाकुलाः कामुकवृत्तमेव ॥५४॥ अन्तर्ज्वलत्कोपकृशानुधूमसंकाशकृष्णाजिनबद्धकक्षः। त्रिदण्डमुद्यम्य जवेन कश्चिदभ्याद्रवन्नग्नतनुं वृषाङ्कम् ॥५५॥ बृसीं समुत्क्षिप्य सकम्पबाहुश्चिक्षेप कश्चित्क्षमया विहीनः । येनासनात्क्ष्माविरहादिवाशु मोहे निरालम्बतनुः पपात ॥५६॥ कमण्डलुं कश्चिदकाण्डचण्डसंरम्भपिण्डीकृतकोपतुल्यम् । आदाय मोहेन पिनाकपाणेः पुरः प्रहाराभिमुखो बभूव ॥५७॥ तेषाममर्षाद्भृशमक्षमाणां सोढुं निकारं क्षणमक्षमाणाम् । प्रापुः प्रयाताः क्षितिमक्षमाला भ्रूभङ्गतां तस्य तपोवनस्य ॥५८॥ तत्संभ्रमादाश्रममञ्जरीणां कम्पाकुलानां कुसुमान्तरोत्थैः । आसीत्प्रमोहप्रतिमोऽन्धकारः शापाक्षरामैर्भ्रमरैर्भ्रमद्भिः ॥५९॥ ते प्रापुरीर्ष्यापदमन्धकारि वक्त्रं शशाङ्कोपममीक्षमाणाः । कण्ठस्थलालोकनकालकूटसंपूरिताक्षा इव मोहमूर्च्छाम् ॥६०॥ ते तं स्मितप्रस्फुरिताधराग्रमुदग्रलावण्यविशेषतर्षाः । पत्नीविकारोग्रनिकारमूचुः कण्ठान्तरश्वासविकीर्णवर्णाः ॥६१॥ कोऽयं विजातिर्विगुणः कलावान्नग्नो वृषाङ्कः प्रविशत्यलज्जः । प्रदूषिता येन महर्षिजुष्टा गङ्गेव शुद्धा ललनावलीयम् ॥६२॥ अनेन संसूचयता निगूढरूपेण दर्पादकुलीनभावम् । नीता पवित्रत्वमियं मुनीनां कापालिकेनेव वनान्तभूमिः ॥६३॥ अहो बतास्य प्रतिभा प्रसह्य सतीसमालिङ्गनसस्पृहस्य । केनापि कामत्कुहकक्रमेण कान्तं कृतं रूपमनेन नूनम् ॥६४॥ उक्त्वेति तस्मै ससृजुः सकोपास्ते दण्डपाषाणबृसीशतानि । द्वेषावृताक्ष्णामविवेकजन्मा मोहः प्रमादे गुरुतामुपैति ॥६५॥ दूरे भवत्यथ शनैः शिशिरांशुमौलौ तेषं प्रकोपविपुलानलतापितानाम् । तद्दर्शनानुसरणप्रसृतस्य यत्नः पत्नीजनस्य सुतरां विनिवर्तनेऽभूत् ॥६६॥ अथ स भगवान्भर्गः स्वर्गापगापृथुनिर्झर- प्रसृतहसितस्तस्मादेशात्क्रमेण तिरोहितः । प्रशमविमलं व्योम व्याप्य प्रियामवदत्स्मय- स्मितसितमुखीं दृष्टं देवि त्वया मुनिचेष्टितम् ॥६७॥ भस्मस्मेरशरीरता पृथुजटाबन्धः शिरोमुण्डनं कुण्डी दण्डकमण्डलुप्रणयिता चर्माक्षसूत्रग्रहः । काषायव्यसनं निरम्बररुचिः कङ्कालमालाधृतिः कामक्रोधवशाद्विशेषरुचिरं सर्वं वृथैव व्रतम् ॥६८॥ दर्पोत्कोपात्परणितजटासूत्रबन्धच्च मोहा- दन्तःसीदत्सरसविषयास्वादसंवादसङ्गात् । आशापाशव्यसननिचयाद्वासनालीनदोषा- न्नैषां मुक्तिर्भवति तपसा कायसंशोषणेन ॥६९॥ इत्युक्तं त्रिपुरारिणा गिरिसुता श्रुत्वा यथार्थं वचो निश्चित्य व्रतमप्रशान्तमनसां मिथ्यैव कायक्षयम् । संसारोपरमाय मोहरजसः शान्त्यै मुनीनां परं रागद्वेषविमुक्तये च दयया चक्रे हरस्यार्थनाम् ॥७०॥ देव्यार्थितोऽथ भगवान्कृपया स्मरारि- स्तेषामनुग्रहमयेन विलोकनेन । चक्रे स्मितस्नपितदिग्वदनो मुनीनां लीनस्य मोहरजसः सहसैव शान्तिम् ॥७१॥ तपोविशेषैर्निशितप्रयत्नैस्तस्मान्न कार्यः पृथुमोहदर्पः । द्वेषेण रागेण मोहदयेन तपः क्षयं याति सह स्मयेन ॥७२॥ प्रशान्तोऽन्तस्तृष्णाविषमपरितापः शमजलै- रशेषः संतोषामृतविसरपानेन वपुषः । असङ्गः संभोगः कमलदलकीलालतुल्या भवारण्ये पुंसां परहितमुदारं खलु तपः ॥७३॥ N/A References : N/A Last Updated : October 29, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP