संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|दर्पदलनम्| द्वितीयो विचारः दर्पदलनम् प्रथमो विचारः द्वितीयो विचारः तृतीयो विचारः चतुर्थो विचारः पञ्चमो विचारः षष्ठो विचारः सप्तमो विचारः दर्पदलनम् - द्वितीयो विचारः "दर्पदलनम्" एक संस्कृत ग्रंथ, ज्याचा अर्थ आहे "अभिमानावर नियंत्रण"। Tags : darpadalamsanskritदर्पदलनम्संस्कृत दर्पदलनम् - द्वितीयो विचारः Translation - भाषांतर धनेन दर्पः किमयं नराणां लक्ष्मीकटाक्षाञ्चलचञ्चलेन । यत्कंधराबद्धमपि प्रयाति नैकं पदं कालगतस्य पश्चात् ॥१॥ सुरक्षितं तिष्ठति निर्निमित्तमरक्षितं तिष्ठति दैवयोगात् । स्थितं कदर्यस्य च चोपयुक्तमुन्मत्तनृत्तोपममेव वित्तम् ॥२॥ कर्मोक्तिनर्मनिर्माणैः प्रातः प्रातः प्रधावताम् । धनं धनं प्रलपतां निधनं विस्मृतं नृणाम् ॥३॥ विच्छाययोर्निर्व्यययोः कष्टक्लिष्टकलत्रयोः । विशेषः क्लेशदोषस्य कः कदर्यदरिद्रयोः ॥४॥ ये धनादानसंनद्धा नेक्षन्ते निधनावधिम् । निन्दन्तो लुब्धतां तेषामन्तेऽन्ये भुञ्जते धनम् ॥५॥ उक्तं परस्यामिषतामनुक्तं यात्यदृश्यताम् । हृदये शल्यतां धत्ते निधने धनिनां धनम् ॥६॥ धनेन जीवितेनेव कण्ठस्थेन निरीक्षते । पर्यन्तेऽप्यप्रकाशेन बन्धूनां मुखमातुरः ॥७॥ यदर्जितं परिक्लेशैरर्जितं यन्न भुज्यते । विभज्यते यदन्तेऽन्यः कस्यचिन्मास्तु तद्धनम् ॥८॥ विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षः परवञ्चनाय । अत्युन्नतिर्लोकपराभवाय येषां प्रकाशस्तिमिरं हि तेषाम् ॥९॥ अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरै- र्गतच्छायः कायश्चिरविरसरूक्षाशनतया । अनिद्रा मन्दोऽग्निर्नृपसलिलचौरानलभया- त्कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥१०॥ श्रावस्त्यां सार्थवाहोऽभूदर्थनाथ इवापरः । नन्दो नाम निरानन्दः कीर्तनेनार्थिनामपि ॥११॥ स कदर्यः सदा सर्वजनस्योद्वेगदुःसहः । मूर्धशायी निधानानां कालव्याल इवाभवत् ॥१२॥ कृत्वा समस्तं दिवसं धनानां निधानकुम्भीगणनाविधानम् । स लाजपेयापलमानशीलमश्नाति रात्रावुदरं सशूलम् (?) ॥१३॥ निर्व्यञ्जनं निर्लवणं विनष्टममृष्टपाकं विनिविष्टकष्टम् । अदृष्टहासं व्ययसंनिरोधात्तस्याभवद्वेश्म सशोकमूकम् ॥१४॥ विच्छायं निःसुखानन्दं निर्दीपं जलवर्जितम् । तस्य कष्टं कदर्यस्य परलोकमभूद्गृहम् ॥१५॥ स भक्तसंचये नित्यमभक्तः संततामयैः । सुवर्णवान्विवर्णोऽभूत्संपूर्णश्चिन्तया कृशः ॥१६॥ पुण्यप्राप्या मतिर्नाम धनर्द्धिरिव रूपिणी । भार्याभूत्तदयोग्यस्य तस्य दैवविपर्ययात् ॥१७॥ सदा प्रच्छाद्य सा भर्तुश्चकारातिथिसत्क्रियाम् । तेन व्ययविवादेषु शोषिता कलहाग्निना ॥१८॥ तस्यां तस्याभवत्सूनुः सगुणश्चन्दनाभिधः । पित्रा लोभान्धकारेण नीतः पद्म इवान्यताम् ॥१९॥ कदाचित्स्वगृहद्वारि दृष्ट्वा लब्धान्नमर्थिनम् । चकार कलहं नन्दः पत्न्या शोणितपातनम् ॥२०॥ सोऽवदत्कोपदष्टौष्ठः श्वसन्भार्यामधोमुखीम् । तत्स्पर्सपापं स्तनयोः क्षाल्यन्तीमिवाश्रुभिः ॥२१॥ मम दास्यति को भिक्षां त्वत्पाणिक्षीणसंपदः । दारिद्र्यजननी यस्य स्थिता त्वं दुर्भगा गृहे ॥२२॥ स्त्रियो यत्र प्रगल्भन्ते भर्तुराच्छाद्य कर्तृताम् । गृहं भवत्यवश्यं तदास्पदं परमापदाम् ॥२३॥ गृहमेकं गृहस्थस्य गृहाणां शतमर्थिनः । भार्याभर्जितवित्तस्य नष्टा गृहपतेर्गतिः ॥२४॥ तृप्तिदं दर्शनेनापि जन्तोर्जीवितजीवितम् । द्रविणं येन रक्षन्ति स्वकायं भक्षयन्ति ते ॥२५॥ जीवन्नप्यक्रियो निःस्वः शवोऽप्यर्थेन सक्रियः । दारिद्र्यं मरणं लोके धनमायुः शरीरिणाम् ॥२६॥ एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते । यत्स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ॥२७॥ प्रयच्छसि किमर्थिभ्यस्त्वमन्नं क्लेशसंचितम् । दीयते यत्किल प्राप्त्यै तत्प्राप्तं किं न रक्ष्यते ॥२८॥ पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः । क्षीणात्पुत्राः पलायन्ते दारा गच्छन्ति चान्यतः ॥२९॥ पण्डिताः कवयः शूराः कलावन्तस्तपस्विनः । वैद्यस्येव सवित्तस्य वीक्षन्ते मुखमातुराः ॥३०॥ इति तस्य वचः श्रुत्वा कृपणस्यार्थनिष्कृपम् । सा तमूचे समुचितं सत्त्वस्याभिजनस्य च ॥३१॥ सन्तः कुर्वन्ति यत्नेन धर्मस्यार्थे धनार्जनम् । धर्माचारविनीनानां द्रविणं मलसंचयः ॥३२॥ यत्करोत्यरुचिं क्लेशं तृष्णं मोहं प्रजागरम् । न तद्धनं कदर्याणां हृदयव्याधिरेव तत् ॥३३॥ वर्धते यो धनव्याधिः सुखभोगवियोगकृत् । तस्याशु शमनं पथं राजवैद्यचिकित्सया ॥३४॥ लोभान्नाभूद्गृहे यस्य कदाचित्कश्चिदुत्सवः । नृत्यन्ति पटहैस्तस्य निधने धनभागिनः ॥३५॥ कणाचामतुषाङ्गारान्यत्नेन परिरक्षसि । मूषकापहृतं कोषे रत्नराशिं न पश्यसि ॥३६॥ धनेन दर्पः को नाम यत्क्षणेन विनश्यति । रक्ष्यमाणं व्ययेनैव भक्ष्यमाणमुपप्लवैः ॥३७॥ विचार्यमाणस्तत्त्वेन दैवाधीनतया नृणाम् । न कस्यांचिदवस्थायां धनलोभः प्रशस्यते ॥३८॥ कलौ काले खले मित्रे पुत्रे दुर्व्यसनान्विते । तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किम् ॥३९॥ ॠणिकैः कलहैर्नित्यमच्छिन्नगुणनागतेः । दानद्विषोऽनपत्यस्य मन्दाग्नेश्च धनेन किम् ॥४०॥ सहसासादितार्थस्य राजद्रोहादिपातकैः । भयादव्ययशीलस्य शल्येनेव धनेन किम् ॥४१॥ घोरप्रतिग्रहग्रामग्रस्तोदग्रगुणौजसः । तद्विभागानभिज्ञस्य धूर्ताप्तस्य धनेन किम् ॥४२॥ रात्रिसेवावसन्नस्य शीतवातातपस्थितेः । प्रभुदृष्टिप्रहृष्टस्य कष्टार्हस्य धनेन किम् ॥४३॥ प्रभूतलाभलोभेन प्रयुक्तार्थस्य सर्वतः । भूर्जदृष्टेन तुष्टस्य नष्टबुद्धेर्धनेन किम् ॥४४॥ मलशीलस्य वणिजस्थूत्कृतस्य जुगुप्सया । लशुनस्याशुचेः पाकगन्धेनेव धनेन किम् ॥४५॥ काङ्क्षितेनाप्यलब्धेन भोगार्हे नवयौवने । जराजीर्णशरीरस्य भारेणेव धनेन किम् ॥४६॥ प्रव्रज्यात्यक्तगेहस्य जनगौरवपूजया । धनसंघटितार्थस्य बन्धेनेव धनेन किम् ॥४७॥ शिशोरङ्कुशशून्यस्य पातितस्यापथे विटैः । क्षणक्षयोपयोगेन स्वप्नेनेव धनेन किम् ॥४८॥ भार्यया स्वैरचारिण्या ग्रामस्थस्य नियोगिनः । प्रसभं भुज्यमानेन पापाप्तेन धनेन किम् ॥४९॥ शिष्यसंपादिताशेषभोगवस्त्रादिसंपदः । गुरोर्दम्भेन सिद्धस्य संचितेन धनेन किम् ॥५०॥ राजकोषनियुक्तस्य चौर्यचिह्नेन केवलम् । व्ययेन शङ्कनीयस्य वधेनेव धनेन किम् ॥५१॥ अज्ञातभाविचौरादिदोषैर्नित्यविनाशिना । हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥५२॥ पिटकस्येव पूर्णस्य पीडनीयस्य भूभुजा । निष्पाकशाकभोज्यस्य ग्रामीणस्य धनेन किम् ॥५३॥ कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः । आसन्नबन्धनस्यान्ते दिविरस्य धनेन किम् ॥५४॥ गृहिणीविग्रहोग्रस्य मुहुस्तृण उपेक्षया (?) । कोपोपवासनिःश्वाससंतप्तस्य धनेन कि ॥५५॥ मलिनस्य कुवस्त्रस्य स्वल्पाशनपरस्य च । दारिद्र्याधिककष्टस्य कदर्यस्य धनेन किम् ॥५६॥ निर्धनाः सुखिनो दृष्टाः सधनाश्चातिदुःखिताः । सुखदुःखोदये जान्तोर्दैवाधीने धनेन किम् ॥५७॥ समानेषु व्यतीतेषु स्वजने शून्यचेतसः । विरसासारसंसारविरक्तस्य धनेन किम् ॥५८॥ यथावाप्तोपयुक्तार्थनिश्चिन्तस्य विपश्चितः । अत्यल्पपरितुष्टस्य संतुष्टस्य धनेन किम् ॥५९॥ बालस्तृणे च कनके च समानदृष्टि- रिष्टं न वेत्ति विषयेष्वविशेषबुद्धिः । वित्तेन कोषपरिपोषसहेन तस्मि- न्काले विवेकविकलो वद किं करोति ॥६०॥ प्राणाधिकस्य सुहृदस्तरुणीजनस्य पुत्रस्य वा गुणनिधेः सहसा वियोगे । शोकेन शोचति यदा विवशः शरीरी रत्नाचलैरपि तदा वद किं करोति ॥६१॥ नार्थं शृणोति न पुनः स्थितिमीहते वा स्पर्शं न वेत्ति न रसं न तथाधिवासम् । वृद्धः प्रयाति पवनेन यदा जडत्वं भोगैर्धनेन च तदा वद किं करोति ॥६२॥ रोगार्दितः स्पृशति नैव दृशापि भोज्यं तीव्रव्यथः स्पृहयते मरणाय जन्तुः । सर्वौषधेषु विफलेषु यदा विरौति धान्यैर्धनेन च तदा वद किं करोति ॥६३॥ निद्राच्छेदसखेदबान्धवजनः सोद्वेगवैद्योज्झितः पाकक्वाथकदर्थितः परिजनैस्तन्द्रीभयात्क्षोभितः । भग्नस्वास्थ्यमनोरथः प्रियतमावष्टब्धपादद्वयः पर्यन्ते वपुषः करोति पुरुषः किं शल्यतुल्यैर्धनैः ॥६४॥ अलंकृतः काञ्चनकोटिमूल्यैर्महार्हरत्नैर्गजवाजिवाहैः । निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ॥६५॥ निश्चेतनः काष्ठसमानकायस्त्यक्तः क्षणात्पुत्रकलत्रमित्रैः । भुभाशुभप्राक्तनकर्मभागी यत्नाप्तरत्नैर्वद किं करोति ॥६६॥ तस्मात्प्रभूतविभवोद्भवविभ्रमेण भूताभिभूत इव मा भव साभिमानः । एताः श्रियः प्रबललोभघनान्धकार- विद्युल्लतापरिचिताः सहसैव यान्ति ॥६७॥ नष्टे लज्जितवित्तनाथविभवे साम्राज्यभोगे पुरा श्रूयन्ते नलरामपाण्डुतनयाः कष्टं प्रविष्टा वनम् । शक्रः श्रीविरहे विवेश नलिनीनालान्तरलं ह्रिया कस्यास्था विविधावधानविधिना निःसंनिधाने धने ॥६८॥ इत्युक्तोऽप्यसकृत्पत्न्या स्वलोभान्न चचाल सः । स्वभावः सर्वभूतानां सहजः केन वार्यते ॥६९॥ ततः स काले लोभेन भिषग्भैषज्यवर्जितः । कोषे निधानकुम्भेषु लीनपृष्टो व्यपद्यत ॥७०॥ अदत्तभुक्तमुत्सृज्य धनं सुचिररक्षितम् । मूषका इव गच्छन्ति कदर्याः स्वक्षये क्षयम् ॥७१॥ तस्य यातस्य निरयं निनाय नृपतिर्धनम् । पर्यन्ते राजगामिन्यो लुब्धानां धनसंपदः ॥७२॥ तत्सूनोश्चन्दनस्याथ शेषार्थेनापि भूयसा । बभूव भूरिसंभारभोगव्ययमहोत्सवः ॥७३॥ मा कश्चिन्नाम नन्दस्य मन्दाग्नेरिह भाषताम् । भोगभङ्गभयेनेति प्रातस्तत्राबवीज्जनः ॥७४॥ धिग्धिग्धनं कुनिधनं नन्दस्येवात्मबाधनम् । दीयतां भुज्यतां सर्वमित्यूचुः पुरवासिनः ॥७५॥ ततः काले मते बाह्यकोष्ठद्वारान्तवासिनी । वृद्धान्धा सुषुवे पुत्रं चण्डाली खण्डिकाभिधा ॥७६॥ अन्धः कुब्जः कृशः खञ्जः कुष्ठी स्थूलगलग्रहः । समूह इव दुःखानां स तस्यास्तनयोऽभवत् ॥७७॥ तदपुण्यैः परिक्षीणे मातुः क्षीरे स निश्चलः । कृपया बान्धवस्त्रीभिः शुनीक्षीरेण वर्धितः ॥७८॥ एतदेव विरुद्धानां वैचित्र्यं पूर्वकर्माणाम् । कृच्छ्रावसन्ना जीवन्तिं विपद्यन्ते यदीश्वराः ॥७९॥ व्रणैः स पूतिकलिलक्लाम्यत्कृमिकुलैर्वृतः । पक्वणे कुणपाकारस्तस्थौ क्लिन्नतृणास्तरे ॥८०॥ तस्मिन्नप्यतिवात्सल्यात्पुत्रास्थां जननी स्थिराम् । बबन्ध वासनालीनः स्नेहमोहो हि दुःसहः ॥८१॥ स वर्धमानः शनकैः स्मशानाङ्गारधूसरः । पक्वणोग्रपिशाचानामप्युद्वेगकरोऽभवत् ॥८२॥ यष्टीनिषण्णगमनः कुष्टक्लेदजुगुप्सितः । स जगाम पथा येन प्रययौ तेन नापरः ॥८३॥ अत्रान्तरे चन्दनस्य पितुः श्राद्धदिने महान् । बभूवार्थिसमूहान्नदाने कलकलस्वनः ॥८४॥ ततः कर्परमादाय स चण्डालशिशुः शनैः । आचामयाचकः कृच्छ्राद्द्वाराग्रभुवमाययौ ॥८५॥ तं दृष्ट्वा चन्दनः सौधाद्विप्राणां मार्गदूषणम् । निवार्यतामयं प्राप्तस्तूर्णमित्यवदत्क्रुधा ॥८६॥ प्रभुभ्रूभङ्गभीतेन लगुडेनाहतस्ततः । द्वारपालेन सावर्तः स कपोत इवाभवत् ॥८७॥ स निर्भिन्नललाटास्थिप्रक्षरत्क्षतजोक्षितः । क्षणं संमूर्च्छितः प्राप क्लेशभोगाय जीवितम् ॥८८॥ अदूरवर्तिनी श्रुत्वा चण्डाली तद्यथारवम् । उपसृत्य शुशोचार्ता स्पृशन्ती तस्य शोणितम् ॥८९॥ केन निष्करुणेनेदं दर्शितं बत पौरुषम् । प्रक्लिन्नकायविकले येनास्मिन्सुभटायितम् ॥९०॥ कायापापमयीं दुःखदशां दृष्ट्वास्य दुःसहाम् । वैराग्यावसरे केन क्रौर्यमेवंविधं कृतम् ॥९१॥ आर्तिमेवंविधामस्य हृदयक्लेदिनीमिमाम् । विलोक्य कुर्यात्कः पापं पापं हि पदमापदाम् ॥९२॥ यद्यनेन महत्पापं न कृतं पूर्वजन्मनि । तदुच्यतां स्फुरत्कष्टा दृष्टा कस्येदृशी दशा ॥९३॥ ये दृश्यन्ते विपत्क्लेशविशेषविषमव्यथाः । त एव गुरवः पापवापस्य (?) करणे नृणाम् ॥९४॥ करुणार्हेषु शूराणामुपकारिषु वैरिणाम् । वञ्चकानामपापेषु पापसंख्यां करोति कः ॥९५॥ तारं रोदिषि किं पुत्र सहस्वाघातजां रुजम् । अशर्मकर्मनिर्माणं मर्मच्छेदि शरीरिणाम् ॥९६॥ इति तस्यां प्रलापिन्यां प्रेक्षवाप्ते जने जिनः । अनाथबन्धुः करुणासिन्धुस्तेनाययौ पथा ॥९७॥ भवभ्रमासक्तपरिश्रमाणां रागादिदोषैरुपतापितानाम् । आश्वासनेनामृतसोदरेण लिम्पन्निव द्यां द्युतिचन्दनेन ॥९८॥ दृष्ट्वा तमापद्गतमुग्ररोगभग्नं निमग्नं व्यसने विविग्नम् । व्यलम्बतार्द्रः करुणारसेन तत्तापशान्त्यै भगवाञ्जिनेन्द्रः ॥९९॥ तत्संनिधानेन मुहूर्तमात्रं स निर्व्यथः स्वास्थ्यमिवाससाद । निहन्ति पापं कुशलं प्रसूते संदर्शनं सत्त्वहिताशयानाम् ॥१००॥ ज्ञात्वाथ चन्दनः प्राप्तं भगवन्तं तथागतम् । विकसत्कुसुमस्मेरं पूजामादाय निर्ययौ ॥१०१॥ भगवानपि साश्चर्यप्रभावादुद्गतं भुवः । हैमं कमलमारुह्य तस्थौ पर्यङ्कलीलया ॥१०२॥ प्रणतं चरणालीनं पूजाव्यग्रकरं पुरः । बभाषे भगवान्प्रीतो भिक्षुसंसदि चन्दनम् ॥१०३॥ किमयं याचमानोऽपि वराकस्ताडित्ः क्रुधा । कृतं न कृपणे कस्मात्करुणाकोमलं मनः ॥१०४॥ दयार्द्राः सर्वसत्त्वेषु भवन्ति विमलाशयाः । एवंविधानां दुःखानां कारणं कलुषं मनः ॥१०५॥ कृतक्रूरापकारेषु विद्वेषपरुषेष्वपि । भवन्ति सन्तः क्लेशोष्मशोषितेषु न कर्कशाः ॥१०६॥ क्लिष्टः कष्टं कदर्योऽयं लोभेनापरजन्मनि । अप्रदानोद्यतेनाद्य कायक्लेशेन पीडितः ॥१० ७॥ एष नन्दस्तव पिता पूर्णार्थमलसंचयात् । आवृतः पापरोगेण चण्डालत्वमुपागतः ॥१०८॥ जन्मान्तरेऽप्यतोऽन्यस्मिन्रोगयोगान्मुमूर्षणा । सुवर्णं दत्तमेतेन तेनायं सधनोऽभवत् ॥१०९॥ अन्त्यक्लेशदशायां यन्मुमूर्षुः संप्रयच्छति । तच्चाभोग्यं भवत्यस्य लोभादन्येषु जन्मसु (?) ॥११०॥ दत्त न वित्तं करुणानिमित्तं लोभप्रवृत्तं कृतमेव चित्तम् । यैः संचयोसाहरसैः प्रनृत्तं शोचन्ति ते पातकमात्मवृत्तम् ॥१११॥ इत्युक्त्वा भगवान्पुण्यां विदधे धर्मदेशनाम् । यया क्लेशप्रहाणार्हमर्हत्त्वं प्राप चन्दनः ॥११२॥ तस्मान्न दर्पः पुरुषेण कार्यः प्रवर्धमानेन धनोदयेन । अदानभोगोपहतं हि वित्तं पुंसां परत्रेह च दुर्निमित्तम् ॥११३॥ N/A References : N/A Last Updated : October 29, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP