ॐ नमो भगवते आदित्यायाखिलजगतां आत्मस्वरूपेण कालस्वरूपेण
चतुर्विधभूत - निकायानां ब्रह्मादिस्तम्भ - पर्यन्तानां
अन्तर्हृदयेषु बहिरपि चाकाश इव उपाधिनाऽव्यवधीयमानो
भवानेक एव क्षणलव - निमेषावयवोपचित - संवत्सरगणेन
अपा - मादान - विसर्गाभ्यां इमां लोकयात्रां अनुवहति ॥१॥
यदुह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनं अहरहः
आम्नायविधिना उपतिष्ठमानानां अखिल - दुरित - वृजिनबीजावभर्जन
भगवतः समभिधीमहि तपनमण्डलम् ॥२॥
य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मन - इन्द्रियासुगणान्
अनात्मनः स्वयमात्मा अन्तर्यामी प्रचोदयति ॥३॥
य एवेमं लोकं अतिकराल - वदनान्धकार - संज्ञा - जगरग्रह - गिलितं
मृतकमिव विचेतनं अवलोक्य अनुकम्पया परमकारुणिकः ईक्षयैव
उत्थाप्य अहरहरनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थाने
प्रवर्तयति अवनिपतिरिव असाधूनां भयमुदीरयन्नटति ॥४॥
परित आशापालैः तत्र तत्र कमलकोशाञ्जलिभिः उपहृतार्हणः ॥५॥
अथह भगवन् तव चरणनलिनयुगलं त्रिभुवनगुरुभिर्वन्दितं
अहं अयातयामयजुःकामः उपसरामीति ॥६॥
एवं स्तुतः स भगवान् वाजिरूपधरो हरिः ।
यजूंष्ययातयामानि मुनयेऽदात् प्रसादितः ॥७॥
॥ इति श्रीमद्भागवते द्वादशस्कन्धे श्रीयाज्ञवल्क्यकृतं श्रीसूर्यस्तोत्रं सम्पूर्णम् ॥