सूर्यस्तुति - श्रीभैरवी - भगवन...

सूर्य स्त्रोत (Surya Stotra) एक संस्कृत स्तोत्र है जो भगवान सूर्य ( सूर्य देव ) को समर्पित है।


श्रीभैरवी -

भगवन्देवदेवेश भक्तानुग्रहकारक ।

देहास्वास्थ्यं परं दुःखं भवेदिति न संशयः ॥१॥

रोगैर्जीर्णो यदा देहस्तदा कं दैवतं श्रयेत् ।

यं स्तुत्वा स्वास्थ्यमाप्नोति तदुपासनमादिश ॥२॥

श्रीभैरवः    -

श्रृणु देवि प्रवक्ष्यामि लोकानुग्रहकाम्यया ।

रोगाजगरग्रस्तानां जन्तूनां पापचेतसाम् ॥३॥

स्मरणं धारणं चैव सूर्यस्यार्चनमेव च ।

ज्वरातिसाररोगानां नाशनं स्मरणादपि ॥४॥

कुष्ठविचर्चिकादद्रूसन्निपातादि नाशनम् ।

सूक्ष्मातिसूक्ष्मं यत्तेजो तं देवं शरणं श्रये ॥५॥

वारयेद्विघ्नराशींश्च तमांसि च मुहुर्मुहुः ।

अन्तर्वातौधध्वंसी यस्तं देवं शरणं श्रये ॥६॥

आकाशरूपो विश्वात्मा देवःप्रमकटितः प्रभुः ।

द्योतनात्त्रिषु लोकेषु तं दैवं शरणं श्रये ॥७॥

ध्यायनात्सर्वलोकेषु चिन्तनादपराजितम् ।

बुद्ध्या त्सर्वसमायुक्तं तं देवं शरणं श्रये ॥८॥

धीप्रेरकं तु यत्तेजः सर्वव्यापकमव्ययम् ।

बुद्धेः पारङ्गतं यत्तच्छरण्यं शरणं श्रये ॥९॥

यत्तदादिशते बुद्धिर्भर्गः सदसदात्मकम् ।

आर्तो भक्त्या च परमं शरणं तं व्रजाम्यहम् ॥१०॥

रक्तपुष्पसमायुक्तं गृहीत्वोद्यन्तमर्चयेत् ।

प्रतिश्लोकमर्धपुष्पं दत्त्वा प्राञ्जलिकं स्थितम् ॥११॥

सर्वे रोगाः प्रणश्यन्ति लूता विस्फोटकादयः ।

भगन्दरशिरोरोगमूत्ररोगाश्मरीयुताः ॥१२॥

श्वेतकुष्ठाद्यतीसारपायुकुक्षिसमुद्भवाः ।

त्वग्रोगा ये क्षुद्ररोगा ये त्वन्ये च महेश्वरि ॥१३॥

ते सर्वे सम्प्रणश्यन्ति स्तोत्रस्यास्यानुकीर्तनात् ।

आपन्न आपदो मुच्येद्बद्धो मुच्येत बन्धनात् ॥१४॥

अपुत्रः पुत्रमाप्नोति कन्या विन्दति सत्पतिम् ।

भीतो भयात्प्रमुच्येत चेत्याज्ञा पारमेश्वरी ॥१५॥

इदं रहस्यं परमं नाख्येयं यस्य कस्यचित् ।

गुह्यं गुह्यतमं लोके वेदतन्त्रसमुत्थितम् ॥१६॥

सर्वतः सारमुद्धृत्यतवस्नेहात्प्रकाशितम् ।

नातः परतरं स्तोत्रं सूर्यस्याराधनं परम् ॥१७॥

अत्र पूज्यो रविर्देवि स्तोत्रेणानेन भक्तितः ।

सायं प्रातर्नमस्कृत्य नान्नमद्याज्जलं पिबेत् ॥१८॥

वर्षेणैव भवेत्सिद्धिरिति सत्यं वरानने ।

बद्धपद्मासनो देवः प्रसन्नो भक्तवत्सलः ॥१९॥

सप्ताश्वः सप्तजिह्वश्च द्विभुजः पातु नो रविः ।

अकृतानि च पुष्पाणि सलिलारुणचन्दनैः ॥२०॥

अर्घ्यं दत्त्वा प्रयत्नेन सूर्यनामानि कीर्तयेत् ।

नमस्ते विश्वरूपाय नमस्ते ब्रह्मरूपिणे ॥२१॥

सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे ।

नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल ॥२२॥

पद्मनाम नमस्तेऽस्तु कुण्डलाङ्गदशोभित ।

नमस्ते सर्वलोकेश जगत्सर्वं प्रबोधसे ॥२३॥

सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वग ।

सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर ॥२४॥

दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते ।

आश्रमस्थस्ततः पूजाप्रतिमां चापि पूजयेत् ॥२५॥

उदयंस्तु महाभानुस्तेजसा चाभयङ्करः ।

सहस्ररश्मिदीप्तश्च ह्यादित्यः प्रीयतां मम ॥२६॥

इति सूर्यस्तुतिः समाप्ता ।

N/A

References : N/A
Last Updated : August 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP