सूर्यस्तुती द्वादशार्या साम्बकृत - अथ श्रीसाम्बकृतद्वादश...

सूर्य स्त्रोत (Surya Stotra) एक संस्कृत स्तोत्र है जो भगवान सूर्य ( सूर्य देव ) को समर्पित है।


अथ श्रीसाम्बकृतद्वादशार्यासूर्यस्तुतिः ।

उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः ।

हृद्रोगं मम सूर्यो हरिमाणं चाशु नाशयतु ॥१॥

निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे ।

क्रममाण योजनानां नमोऽस्तुते नलिननाथाय ॥२॥

कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय ।

द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥३॥

त्वं हि यजूऋक्सामः त्वमागमस्त्वं वषट्कारः ।

त्वं विश्वं त्वं हंसः त्वं भानो परमहंसश्च ॥४॥

शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् ।

शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥५॥

त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेन्द्रियजदोषाः ।

तान् पूषा हतदोषः किञ्चिद् रोषाग्निना दहतु ॥६॥

धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् ।

बन्दीकृतेन्द्रियगणान् गदान् विखण्डयतु चण्डांशुः ॥७॥

येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् ।

धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥८॥

यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिम्बगतः ।

भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः ॥९॥

तिमिरमिव नेत्रतिमिरं पटलमिवाशेषरोगपटलं नः ।

काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात् ॥१०॥

वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च ।

ग्रहणीभगन्धराख्या महतीस्त्वं मे रुजो हंसि ॥११॥

त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः ।

त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥१२॥

इत्यार्याद्वादशकं साम्बस्य पुरो नभःस्थलात् पतितम् ।

पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात् ॥१३॥

इति    श्रीसाम्बकृतद्वादशार्यासूर्यस्तुतिः सम्पूर्णा ।

N/A

References : N/A
Last Updated : August 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP