संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|भागवतमाहात्म्यम्| विषयानुक्रमणिका भागवतमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ विषयानुक्रमणिका भागवतमाहात्म्यम् - विषयानुक्रमणिका भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण विषयानुक्रमणिका Translation - भाषांतर अथ वैष्णवखण्डे षष्ठं भागवतमाहात्म्यम् ॥१ सूतशौनकसंवादप्रसङ्गेन माथुरहस्तिनापुरयो राज्यसिंहासनयोर्वज्रपरीक्षितावभिषिच्य श्रीकृष्णपांडवानां स्वधामगमनवर्णनम्, वज्रनाभपरीक्षित्संवादोत्तरं शांडिल्यर्षेरागमनम्, शांडिल्येन व्रजशब्दार्थविवेचनपूर्वकं कृष्णकृतव्रजलीलावर्णनम्, गोवर्ध नमाथुरादिराज्यकरणेनोद्धवदर्शनलाभकथनम् ॥२ इत्थमुक्त्वा शांडिल्यस्य स्वाश्रमगमनम्, परीक्षिद्राज्ञस्तत्र माथुरमण्डलं प्रत्यागमनम्, वज्रपरीक्षिद्राजभ्यां गोविन्दगोपीललितस्थानस्थापनम्, माथुरस्यासमन्ततो बहूनां ग्रामाणामवस्थापनम्, माथुरे कुण्डकूपादिपूर्तकर्मपूर्वकशिवलिङ्गस्थापनम्, श्रीकृष्णविरहेण कृष्णपत्नीकृतशोकवर्णनम्, कालिंदीवर्णितभगवद्गुणानुवादवर्णनम्, गोवर्धनपर्वतसमीपे परीक्षिदादीनामुद्धवदर्शनवर्णनम् ॥३ उद्धवपरीक्षित्संवाद उद्धवेन भगवन्माहात्म्यकथनम्, कृष्णकृतबालक्रीडादिवर्णनम्, भागवतग्रन्थपठनेन सर्वमनोरथफलप्राप्तिकथनम्, यद्गृहे भागवतं तदेव श्रीकृष्णावासस्थानमित्यादिवर्णनम्, भागवतश्रवणेन मोक्षप्राप्तिवर्णनम्, श्रीमद्भागवतसप्ताहश्रवणफलम्, भगवत्कृतं सत्त्वरजस्तमोमयविष्णुब्रह्मदेवशंकरकार्यस्थित्युत्पत्तिलयाद्युपदेशवर्णनम्, श्रीमद्भागवतग्रहणेन शिवस्य तमोगुणनिरासः, भागवतश्रवणोत्सुकेन परीक्षितोद्धवस्य प्रार्थनाकरणम्, शुकमुखात्तव भागवतश्रवणं स्यादित्युद्धववचनं श्रुत्वोद्धवाज्ञया कलिनिग्रहार्थं दिग्विजयाय चपरीक्षितो गमनम्, वज्रस्य प्रतिबाहुं पुत्रं राज्ये संस्थाप्य वृन्दावनं गत्वोद्धवसंकीर्तितश्रीमद्भागवतश्रवणेन मुक्तिप्राप्तिवर्णनम् ॥४ सूतशौनकसंवादप्रसगेन श्रीमद्भागवतभगवतोरेकस्वरूपत्वकथनम्, श्रीमद्भागवतश्रवणविधिकथनम्, श्रीमद्भागवतश्रवणेन सद्यः सर्वसिद्धिप्राप्तिवर्णनम् ॥इति वैष्णवखण्डे षष्ठं भागवतमाहात्म्यम् ॥ N/A References : N/A Last Updated : February 04, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP