संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|भागवतमाहात्म्यम्| अध्याय ३ भागवतमाहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ विषयानुक्रमणिका भागवतमाहात्म्यम् - अध्याय ३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ३ Translation - भाषांतर ॥ श्रीसूत उवाच ॥अथोद्धवस्तु तान्दृष्ट्वा कृष्णकीर्तनतत्परान् ॥सत्कृत्याथ परिष्वज्य परीक्षितमुवाच ह ॥१॥॥ उद्धव उवाच ॥धन्योऽसि राजन्कृष्णैकभक्त्या पूर्णोऽसि नित्यदा ॥यस्त्वं निमग्नचित्तोऽसि कृष्णसंकीर्तनोत्सवे ॥२॥कृष्णपत्नीषु वज्रे च दिष्ट्या प्रीतिः प्रवर्तिता ॥तवोचितमिदं तात कृष्णदत्तांग वैभव ॥३॥द्वारकास्थेषु सर्वेषु धन्या एते न संशयः ॥येषां व्रजनिवासाय पार्थमादिष्टवान्प्रभुः ॥४॥श्रीकृष्णस्य मनश्चंद्रो राधास्यप्रभयान्वितः ॥तद्विहारवनं गोभिर्मण्डयन्रोचते सदा ॥५॥कृष्णचन्द्रः सदा पूर्णस्तस्य षोडश याः कलाः ॥चित्सहस्रप्रभाभिन्ना अत्रास्ते तत्स्वरूपता ॥६॥एवं वज्रस्तु राजेन्द्र प्रपन्नभयभञ्जकः ॥श्रीकृष्णदक्षिणे पादे स्थानमेतस्य वर्तते ॥७॥अवतारेऽत्र कृष्णेन योगमायाऽति भाविता ॥तद्बलेनात्मविस्मृत्या सीदन्त्येते न संशयः ॥८॥ऋते कृष्णप्रकाशं तु स्वात्मबोधो न कस्यचित् ॥तत्प्रकाशस्तु जीवानां मायया पिहितः सदा ॥९॥अष्टाविंशे द्वापरान्ते स्वयमेव यदा हरिः ॥उत्सारयेन्निजां मायां तत्प्रकाशो भवेत्तदा ॥१०॥स तु कालो व्यतिक्रांतस्तेनेदमपरं शृणु ॥अन्यदा तत्प्रकाशस्तु श्रीमद्भागवताद्भवेत् ॥११॥श्रीमद्भागवतं शास्त्रं यत्र भागवतैर्यदा ॥कीर्त्यते श्रूयते चापि श्रीकृष्णस्तत्र निश्चितम् ॥१२॥श्रीमद्भागवतं यत्र श्लोकं श्लोकार्द्धमेव च ॥तत्रापि भगवान्कृष्णो बल्लवीभिर्विराजते ॥१३॥भारते मानवं जन्म प्राप्य भागवतं न यैः ॥श्रुतं पापपराधीनैरात्मघातस्तु तैः कृतः ॥१४॥श्रीमद्भागवतं शास्त्रं नित्यं यैः परिसेवितम् ॥पितुर्मातुश्च भार्यायाः कुलपंक्तिः सुतारिता ॥१५॥विद्याप्रकाशो विप्राणां राजां शत्रुजयो विशाम् ॥धनं स्वास्थ्यं च शूद्राणां श्रीमद्भागवताद्भवेत् ॥१६॥योषितामपरेषां च सर्ववांछितपूरणम् ॥अतो भागवतं नित्यं को न सेवेत भाग्यवान् ॥१७॥अनेकजन्मसंसिद्धः श्रीमद्भागवतं लभेत् ॥प्रकाशो भगवद्भक्तेरुद्भवस्तत्र जायते ॥१८॥सांख्यायनप्रसादाप्तं श्रीमद्भागवतं पुरा ॥बृहस्पतिर्दत्तवान्मे तेनाहं कृष्णवल्लभः ॥१९॥आख्यायिका च तेनोक्ता विष्णुरात निबोध ताम् ॥ज्ञायते संप्रदायोऽपि यत्र भागवतश्रुतेः ॥२०॥श्रीबृहस्पतिरुवाच ॥ईक्षांचक्रे यदा कृष्णो मायापुरुषरूपधृक् ॥ब्रह्मा विष्णुः शिवश्चापि रजःसत्त्वतमोगुणैः ॥२१॥पुरुषास्त्रय उत्तस्थुरधिकारांस्तदादिशत् ॥उत्पत्तौ पालने चैव संहारे प्रक्रमेण तान् ॥२२॥ब्रह्मा तु नाभिकमलादुत्पन्नस्तं व्यजिज्ञपत् ॥॥ श्रीब्रह्मोवाच ॥नारायणादिपुरुष परमात्मन्नमोऽस्तु ते ॥२३॥त्वया सर्गे नियुक्तोऽस्मि पापीयान्मां रजोगुणः ॥त्वत्स्मृतौ नैव बाधेत तथैव कृपया प्रभो ॥२४॥॥ श्रीबृहस्पतिरुवाच ॥यदा तु भगवांस्तस्मै श्रीमद्भागवतं पुरा ॥उपदिश्याब्रवीद्ब्रह्मन्सेवस्वैनत्स्वसिद्धये ॥२५॥ब्रह्मा तु परमप्रीतस्तेन कृष्णाप्तयेऽनिशम् ॥सप्तावरणभंगाय सप्ताहं समवर्तयत् ॥२६॥श्रीभागवतसप्ताहसेवनाप्तमनोरथः ॥सृष्टिं वितनुते नित्यं ससप्ताहः पुनःपुनः ॥२७॥विष्णुरप्यर्थयामास पुमांसं स्वार्थसिद्धये ॥प्रजानां पालने पुंसा यदनेनापि कल्पितः ॥२८॥॥ श्रीविष्णुरुवाच ॥प्रजानां पालनं देव करिष्यामि यथोचितम् ॥प्रवृत्त्या च निवृत्त्या च कर्मज्ञानप्रयोजनात् ॥२९॥यदायदैव कालेन धर्मग्लानिर्भविष्यति ॥धर्मं संस्थापयिष्यामि ह्यवतारैस्तदा तदा ॥३०॥भोगार्थिभ्यस्तु यज्ञादिफलं दास्यामि निश्चितम् ॥मोक्षार्थिभ्यो विरक्तेभ्यो मुक्तिं पञ्चविधां तथा ॥३१॥येऽपि मोक्षं न वाञ्छन्ति तान्कथं पालयाम्यहम् ॥आत्मानं च श्रियं चापि पालयामि कथं वद ॥३२॥तस्मा अपि पुमानाद्यः श्रीभागवतमादिशत् ॥उवाच च पठस्वैनत्तव सर्वार्थसिद्धये ॥३३॥ततो विष्णुः प्रसन्नात्मा परमार्थकपालने ॥समर्थोऽभूच्छ्रिया मासिमासि भागवतं स्मरन् ॥३४॥यदा विष्णुः स्वयं वक्ता लक्ष्मीश्च श्रवणे रता ॥तदा भागवतश्रावो मासेनैव पुनःपुनः ॥३५॥यदा लक्ष्मीः स्वयं वक्त्री विष्णुश्च श्रवणे रतः ॥मासद्वयं रसास्वादस्तदातीव सुशोभते ॥३६॥अधिकारे स्थितो विष्णुर्लक्ष्मीर्निश्चिन्तमानसा ॥तेन भागवतास्वादस्तस्या भूरि प्रकाशते ॥३७॥अथ रुद्रोऽपि तं देवं संहाराधिकृतः पुरा ॥पुमांसं प्रार्थयामास स्वसामर्थ्यविवृद्धये ॥३८॥॥ श्रीरुद्र उवाच ॥नित्ये नैमित्तिके चैव संहारे प्राकृते तथा ॥शक्तयो मम विद्यन्ते देवदेव मम प्रभो ॥३९॥आत्यंतिके तु संहारे मम शक्तिर्न विद्यते ॥महद्दुःखं ममैतत्तु तेन त्वां प्रार्थयाम्यहम् ॥४०॥श्रीबृहस्पतिरुवाच ॥श्रीमद्भागवतं तस्मा अपि नारायणो ददौ ॥स तु संसेवनादस्य जिग्ये चापि तमोगुणम् ॥४१॥कथा भागवती तेन सेविता वर्षमात्रतः ॥लये त्वात्यंतिके तेनावाप शक्तिं सदाशिवः ॥४२॥॥ उद्धव उवाच ॥श्रीभागवतमाहात्म्य इमामाख्यायिकां गुरोः ॥श्रुत्वा भागवतं लब्ध्वा मुमुदेऽहं प्रणम्य तम् ॥४३॥ततस्तु वैष्णवीं रीतिं गृहीत्वा मासमात्रतः ॥श्रीमद्भागवतास्वादो मया सम्यङ्निषेवितः ॥४४॥तावतैव बभूवाहं कृष्णस्य दयितः सखा ॥कृष्णेनाथ नियुक्तोऽहं व्रजे स्वप्रेयसीगणे ॥४५॥विरहार्त्तासु गोपीषु स्वयं नित्यविहारिणा ॥श्रीभागवतसंदेशो मन्मुखेन प्रयोजितः ॥४६॥तं यथामति लब्ध्वा ता आसन्विरहवर्ज्जिताः ॥नाज्ञासिषं रहस्यं तच्चमत्कारस्तु लोकितः ॥४७॥स्वर्वासं प्रार्थ्य कृष्णं च ब्रह्माद्येषु गतेषु मे ॥श्रीमद्भागवते कृष्णस्तद्रहस्यं स्वयं ददौ ॥४८॥पुरतोऽश्वत्थमूलस्य चकार मयि तद्दृढम् ॥तेनात्र व्रजवल्लीषु वसामि बदरीं गतः ॥४९॥तस्मान्नारदकुण्डेऽत्र तिष्ठामि स्वेच्छया सदा ॥कृष्णप्रकाशो भक्तानां श्रीमद्भागवताद्भवेत् ॥५०॥तदेषामपि कार्य्यार्थं श्रीमद्भागवतं त्वहम् ॥प्रवक्ष्यामि सहायोऽत्र त्वयैवानुष्ठितो भवेत् ॥५१॥॥ श्रीसूत उवाच ॥विष्णुरातस्तु श्रुत्वा तदुद्धवं प्रणतोऽब्रवीत्॥॥ श्रीपरीक्षिदुवाच ॥हरिदास त्वया कार्य्यं श्रीभागवतकीर्तनम् ॥५२॥आज्ञाप्योऽहं यथाकार्य्यं सहायोऽत्र मया तथा ॥॥श्रीसूत उवाच ॥श्रुत्वैतदुद्धवो वाक्यमुवाच प्रीतमानसः ॥५३॥॥ उद्धव उवाच ॥श्रीकृष्णेन परित्यक्ते भूतले बलवान्कलिः ॥करिष्यति परं विघ्नं सत्कार्ये समुपस्थिते ॥५४॥तस्माद्दिग्विजयं याहि कलिनिग्रहमाचर ॥अहं तु मासमात्रेण वैष्णवीं रीतिमास्थितः ॥५५॥श्रीमद्भागवतास्वादं प्रचार्य त्वत्सहायतः ॥एतान्सम्प्रापयिष्यामि नित्यधाम्नि मधुद्विषः ॥५६॥॥ श्रीसूत उवाच ॥श्रुत्वैवं तद्वचो राजा मुदितश्चिन्तयातुरः ॥तदा विज्ञापयामास स्वाभिप्रायं तमुद्धवम् ॥५७॥॥ श्रीपरीक्षिदुवाच ॥कलिं तु निग्रहीष्यामि तात ते वचसि स्थितः ॥श्रीभागवतसंप्राप्तिः कथं मम भविष्यति ॥५८॥अहं तु समनुग्राह्यस्तव पादतले श्रितः ॥॥ श्रीसूत उवाच ॥श्रुत्वैतद्वचनं भूयोऽप्युद्धवस्तमुवाच ह ॥५९॥॥उद्धव उवाच ॥राजंश्चिन्ता तु ते काऽपि नैव कार्य्या कथंचन ॥तवैव भगवच्छास्त्रे यतो मुख्याधिकारिता ॥६०॥एतावत्कालपर्य्यन्तं प्रायो भागवतश्रुतेः ॥वार्तामपि न जानन्ति मनुष्याः कर्मतत्पराः ॥६१॥त्वत्प्रसादेन बहवो मनुष्या भारताजिरे ॥श्रीमद्भागवतप्राप्तौ सुखं प्राप्स्यन्ति शाश्वतम् ॥६२॥नन्दनन्दनरूपस्तु श्रीशुको भगवानृषिः ॥श्रीमद्भागवतं तुभ्यं श्रावयिष्यत्यसंशयः ॥६३॥तेन प्राप्स्यसि राजंस्त्वं नित्यं धाम व्रजेशितुः ॥श्रीभागवतसंचारस्ततो भुवि भविष्यति ॥६४॥तस्मात्त्वं गच्छ राजेन्द्र कलिनिग्रहमाचर ॥॥ श्रीसूत उवाच ॥इत्युक्तस्तं परिक्रम्य गतो राजा दिशां जये ॥६५॥वज्रस्तु निजराज्येशं प्रतिबाहुं विधाय च ॥तत्रैव मातृभिः साकं तस्थौ भागवताशया ॥६६॥अथ वृन्दावने मासं गोवर्द्धनसमीपतः ॥श्रीमद्भागवतास्वादस्तूद्धवेन प्रवर्तितः ॥६७॥तस्मिन्नास्वाद्यमाने तु सच्चिदानन्दरूपिणी ॥प्रचकाशे हरेर्लीला सर्वतः कृष्ण एव च ॥६८॥आत्मानं च तदन्तःस्थं सर्वेऽपि ददृशुस्तदा ॥वज्रस्तु दक्षिणे दृष्ट्वा कृष्णपादसरोरुहे ॥६९॥स्वात्मानं कृष्णवैधुर्य्यान्मुक्तस्तद्भुव्यशोभत ॥ताश्च तन्मातरः कृष्णे रासरात्रिप्रकाशिनि ॥७०॥चंद्रे कलाप्रभारूपमात्मानं वीक्ष्य विस्मिताः ॥स्वप्रेष्ठ विरहव्याधिविमुक्ताः स्वपदं ययुः ॥७१॥येऽन्ये च तत्र ते सर्वे नित्यलीलान्तरं गताः ॥व्यावहारिकलोकेभ्यः सद्योऽदर्शनमागताः ॥७२॥गोवर्द्धननिकुञ्जेषु गोषु वृन्दावनादिषु ॥नित्यं कृष्णेन मोदन्ते दृश्यन्ते प्रेमतत्परैः ॥७३॥॥ श्रीसूत उवाच ॥य एतां भगवत्प्राप्तिं शृणुयाच्चापि कीर्तयेत् ॥तस्य वै भगवत्प्राप्तिर्दुःखहानिश्च जायते ॥७४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे परीक्षिदुद्धवसंवादे श्रीभागवतमाहात्म्ये तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : November 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP