मार्गशीर्षमासमाहात्म्यम् - अध्याय ६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ब्रह्मोवाच ॥
घण्टानादस्य माहात्म्यं चंदनस्य तथाऽच्युत ॥
यत्फलं लभते स्वामिंस्तत्सर्वं ब्रूहि तत्त्वतः ॥१॥
॥ श्रीभगवानुवाच ॥
स्नानार्चनक्रियाकाले घंटानादं करोति यः ॥
पुरतो मम देवेश तस्य पुण्यफलं शृणु ॥२॥
वर्षकोटिसहस्राणि वर्षकोटिशतानि च ॥
वसते मामके लोके अप्सरोगणसेवितः ॥३॥
सर्ववाद्यमयी घण्टा सर्वदेवमयी यतः ॥
तस्मात्सर्वप्रयत्नेन घण्टानादं तु कारयेत् ॥४॥
सर्ववाद्यमयी घण्टा सर्वदा मम वल्लभा ॥
वादनाल्लभते पुण्यं यज्ञकोटिशतोद्भवम् ॥५॥
घंटानादः सदा कार्यः पूजाकाले विशेषतः ॥
मन्वंतरसहस्राणि मन्वतरशतानि च ॥६॥
प्रीतो भवामि सततं घंटानादेन पुत्रक ॥
भेरीशंखनिनादेन घंटानादान्वितेन च ॥७॥
मृदंगशंखेन युतं प्रणवेन समन्वितम् ॥
अर्चनं मम देवेश सततं मोक्षदं नृणाम् ॥८॥
यत्र तिष्ठेत पुरतो घंटा नादान्विता मम ॥
अर्चिता वैष्णवैर्यत्र तत्र मां विद्धि पुत्रक ॥९॥
वैनतेयांऽकिता घंटा सुदर्शनयुताऽथवा ॥
ममाग्रे स्थापयेद्यस्तु तस्य पापं हराम्यहम् ॥१०॥
मदीयार्चनवेलायां घंटानादं करोति यः ॥
नश्यंति तस्य पापानि शतजन्मार्जितान्यपि ॥११॥
स्वापकाले प्रकुर्वीत घण्टानादं स्वभक्तितः ॥
ममैवार्चनवेलायां फलं कोटिगुणोद्भवम् ॥१२॥
ये मामर्चंति देवेश सुपर्णोपरिसंस्थितम् ॥
शंखपद्मगदायुक्तं सचक्रं च श्रिया युतम् ॥१३॥
किं करिष्यंति ते तीर्थैर्देवतानां च दर्शनैः ॥
किं यज्ञैः किं व्रतैर्वापि किं दानैः किमुपोषणैः ॥१४॥
मूर्तिर्नारायणी यैश्च मामकी गरुडोपरि ॥
स्थापिता ते कलौ यांति कल्पकोटिं पदं मम ॥१५॥
ममाऽग्रे स्थापयेद्यस्तु प्रासादेऽथ गृहेऽथवा ॥
तीर्थकोटिसहस्राणि तत्र तिष्ठंति देवताः ॥१६॥
यस्तु पूजयते धन्यो गरुडोपरिसंस्थितम्॥
एकादश्यां तथा रात्रौ वासनासंयुतो मम ॥
कृत्वा गीतं च नृत्यं च तारयेन्नरकात्पितॄन् ॥१७॥
पुनश्च कथयिष्यामि शृणु घंटामहं सुत ॥१८॥
मम नामांकिता घण्टा पुरतो या च तिष्ठति ॥
अर्चिता वैष्णवी यत्र तत्र मां विद्धि पुत्रक ॥१९॥
यस्तु वादयते घंटां वैनतेयविचिह्निताम्॥
धूपे नीराजने स्नाने पूजाकाले विलेपने ॥२०॥
ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् ॥
मखायुतं गोऽयुतं च चांद्रायणशतोद्भवम् ॥२१॥
विधिबाह्यकृता पृजा सफला जायते नृणाम् ॥
घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम् ॥२२॥
नागाऽरिचिह्निता घंटा रथांगेन समन्विता ॥
वादनात्कुरुते नाशं जन्मकोटिभयस्य वै ॥२३॥
गरुडेनांऽकितां घंटां दृष्ट्वाहं प्रत्यहं मुदा ॥
प्रीतिं करोमि देवेश लक्ष्मीं प्राप्य यथाऽधनः ॥२४॥
घंटादण्डस्य शिरसि सुचक्रं स्थापयेत्तु यः ॥
मत्प्रियं वैनतेयं वा स्थापितं भुवनत्रयम् ॥२५॥
घंटानादं सचक्रं च अंतकाले शृणोति यः ॥
पापकोटियुतस्याऽपि नश्यंति यमकिंकराः ॥२६॥
सर्वदोषाः प्रणश्यंति घंटानादेन वै सुत ॥
देवतानां सरुद्राणां पितॄणामुत्सवो भवेत् ॥२७॥
अभावे वैनतेयस्य चक्रस्याऽपि न संशयः ॥
घंटानादेन भक्तानां प्रसादं प्रकरोम्यहम् ॥२८॥
गृहे यस्मिन्भवेन्नित्यं घण्टा नागारिसंयुता ॥
सर्पाणां न भयं तत्र नाग्निविद्युत्समुद्भवम् ॥२९॥
यस्य घंटा गृहे नास्ति शंखो न पुरतो मम ॥
कथं भागवतो ज्ञेयः कथं भवति वल्लभः ॥३०॥
चंदनस्य प्रवक्ष्याम माहात्म्यं तव पुत्रक ॥
यस्मिन्कृते भवेत्प्रीतिर्ममात्यंतं न संशयः ॥३१॥
सचंदनं सकुसुमं कर्पूरागरुमिश्रितम् ॥
मृगनाभिसमायुक्तं जातीफलसमन्वितम् ॥३२॥
तुलसीचंदनोपेतं ममात्यंतसुखावहम् ॥
यो ददाति हि मां नित्यं तुलसीकाष्ठसंभवम्॥ ३३॥
युगानि वसते स्वर्गे ह्यनंतानि नरोत्तमः ॥
महाविष्णोः कलौ भक्त्या दत्त्वा तुलसिचंदनम् ॥३४॥
अर्चयेन्मालतीपुष्पैर्न भूयः स्तनपो भवेत् ॥
तुलसीकाष्ठसंभूतं चंदनं यच्छते मम ॥३५॥
दहामि पातकं सर्वं पूर्वजन्मशतैः कृतम् ॥
सर्वेषामेव देवानां तुलसीकाष्ठचंदनम्॥३६॥
पितॄणां च विशेषेण सदाऽभीष्टं यथा मम ॥३७॥
श्रीखंडं चंदनं तावच्छ्रेष्ठं कृष्णागुरुं तथा ॥
यावन्न दीयते मह्यं तुलसीकाष्ठचंदनम्॥ ३८॥
तावत्कस्तूरिकाऽऽमोदः कर्पूरस्य सुगंधिता ॥
यावन्न दीयते मह्यं तुलसीकाष्ठचंदनम् ॥३९॥
कलौ यच्छंति ये मह्यं तुलसीकाष्ठचंदनम्॥
मार्गशीर्षशुभेमासे ते कृतार्था न संशयः ॥४०॥
यो हि भागवतो भूत्वा कलौ तुलसिचंदनम् ॥
नार्पयेद्वै सहोमासे नाऽसौ भागवतो नरः ॥४१॥
कुंकुमागुरुश्रीखण्डकर्दमैर्मम विग्रहम् ॥
आलिपेद्वै सहोमासे कल्पकोटिं वसेद्दिवि ॥४२॥
कर्पूरागुरुमिश्रेण चंदनेनाऽनुलिंपयेत् ॥
मृगदर्पं विशेषेण अभीष्टं च सदा मम॥४३॥
विलेपयति यो मां वै शंखे कृत्वा तु चंदनम् ॥
मार्गशीर्षे तदा प्रीतिं करोमि शतवार्षिकीम् ॥४४॥
सेवते तुलसीपत्रैर्नित्यमामलकैश्च यः ॥
मार्गशीर्षे सदा भक्त्या स लभेद्वांछितं फलम् ॥४५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये भगवते तुलसीकाष्ठचंदनार्पणफलकथनंनाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 10, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP