बृहद्देवता - अष्टमोऽध्यायः

बृहद्देवता संस्कृत भाषेतील छंदशास्त्र ह्या विषयातील शौनकऋषींनी रचलेला एक प्राचीन ग्रंथ आहे.
The Bruhaddevatā (Sanskrit: बृहद्देवता), is a metrical Sanskrit work, traditionally ascribed to Shaunaka.


न राज्यमर्हामि नृपतिर्वोस्तु शन्तनुः।
तथेत्युक्त्वाभ्यसिञ्च्यंस्ताः प्रजा राज्याय शन्तनुः ॥१॥
ततोभिषेके कौरव्ये वनं देवापिराविशत्।
न ववर्षाथ पर्जन्यो राज्ये द्वादश वै समाः ॥२॥
ततोभ्यगच्छद्देवापिं प्रजाभिः सह शन्तनुः।
प्रसादयामास चैनं तस्मिन्धर्मव्यतिक्रमे ॥३॥
शिशिक्ष चैनं राज्येन प्रजाभिः सहितस्तदा।
तमुवाचाथ देवापिः प्रह्वं तु प्राञ्जलिस्थितम् ॥४॥
न राज्यमहमर्हामि त्वग्दोषोपतेन्द्रियः।
याजयिष्यामि ते राजन् वृष्टिकामेज्यया स्वयम् ॥५॥
ततस्तं तु पुरोधत्त आर्त्विज्याय स शन्तनुः।
स चास्य चक्रे कर्माणि वार्षिकाणि यथाविधि ॥६॥
बृहस्पते प्रतीत्यृग्भिर् ईजे चैव बृहस्पतिम् ।
द्वितीययास्य सूक्तस्य बोधिते जातवेदसा ॥७॥
आस्ये ते द्युमतीं वाचं दधामि स्तुहि देवताः ।
ततः सोऽस्मै ददौ प्रीतो वाचं देवीं तथा च सः ॥८॥
ऋग्भिश्चतसृभिर्देवाञ् जगौ वृष्ट्यर्थमेव तु ।
अग्निं च सूक्तशेषेण कमैन्द्रं सूक्तमुत्तरम् ॥९॥
इन्द्र दृह्येति विश्वेषाम् उदित्यृत्विकस्तुतिः परम् ।
शक्तिप्रकाशनेनैषां विनियोगोऽत्र कीर्त्यते ॥१०॥
प्रेतीतिहाससूक्तं तु मन्यते शाकटायनः ।
यास्को द्रौघणमैन्द्रं वा वैश्वदेवं तु शौनकः ॥११॥
आजावनेन भार्म्यश्व इन्द्रासोमौ तु मुद्गलः ।
अजयद्वृषभं युक्त्वा ऐन्द्रं च द्रुघणं रथे ॥१२॥
युध्यन् संख्ये जयं प्रेप्सुरे ऐन्द्रोऽप्रतिरथो जगौ ।
आशुरैन्द्रमप्वा देवो अमीषामित्यृचि स्तुता ॥१३॥
चतुर्थी बार्हस्पत्या स्यान् नाकुले च महानिति ।
द्व्रृचस्तु मारुतः प्रेतेत्य् ऐन्द्री वा ब्रह्म यत्परम् ॥१४॥
तत्रानिरुक्तसूक्तादाव् ऋगेका सूर्यमर्चति ।
घर्मपराश्चतस्रस्तु सवितारमभीति या ॥१५॥
सूक्तशेषस्य षळृचः सूर्यायचन्द्रमसौ सह ।
तुष्टावेन्द्रमसावीति अष्टकोऽस्मात्परेण तु ॥१६॥
कौत्सः कदा वसो सूक्तं दुर्मित्रो नाम नामतः ।
सुमित्रश्चैव नाम स्याद् गुणार्थमितरत्पदम् ॥१७॥
[१]भूतांशस्तु प्रजाकामः कर्माणि कृतवान्पुरा ।
न हि लेभे प्रजाः काश्चित् कश्यपो मुनिसत्तमः ॥१८॥
उवाच भार्या भूतांशं सुतानिच्छसि यावतः ।
तावतो जनयिष्यामि देवता द्वन्द्वश स्तुहि ॥१९॥
तमभ्ययुस्तु सर्वाणि द्वन्द्वानि स्तुतिकाम्यया ।
तान्यवेक्ष्याथ तच्चक्रे नासत्यौ सूक्तभागिनौ ॥२०॥
तदेतदन्ततो भावाद् आश्विनं सूक्तमुच्यते ।
न ह्यस्मिन्देवतालिङ्गं प्रागन्त्याद्दृश्यते पदात् ॥२१॥
सूक्तेन तु परेणात्र स्वयमाविरभूदिति ।
आत्मानमेव तुष्टाव प्राजापत्याथ दक्षिणा ॥२२॥
दातॄनत्र स्तुतानेके दक्षिणानां वदन्ति तु ।
दातृत्वाद्दक्षिणानां च भोजाश्चतसृभि स्तुताः ॥२३॥
असुरा पणयो नाम रसापारनिवासिनः ।
गास्तेऽपजहुरिन्द्रस्य न्यगूहंश्च प्रयत्नतः ॥२४॥
बृहस्पतिस्तथापश्यद् दृष्ट्वेन्द्राय शशंस च ।
प्राहिणोत्तत्र दूत्येऽथ सरमां पाकशासनः ॥२५॥
[२]किमीत्यत्रायुजाभिस्तां पप्रच्छुः पणयोऽसुराः ।
कुतः कस्यासि कल्याणि किंवा कार्यमिहास्ति ते ॥२६॥
अथाब्रवीत्तान्सरमा दूत्यैन्द्री विचराम्यहम् ।
युष्मान्व्रजं चान्विष्यन्ती गाश्चैवेन्द्रस्य पृच्छतः ॥२७॥
विदितत्वेन्द्रस्य दूतीं ताम् असुराः पापचेतसः ।
ऊचुर्मा सरमे गास्त्वम् इहास्माकं स्वसा भव ॥२८॥
विभजामो गवां भागं माहिता ह ततः पुनः ।
सूक्तस्यास्यान्त्यया चर्चा युग्माभिस्त्वेव सर्वदाः ॥२९॥
साब्रवीन्नाहमिच्छामि स्वसृत्वं वा धनानि वा ।
पिबेयं तु पयस्तासां गवां यास्ता निगूहथ ॥३०॥
असुरास्तां तथेत्युक्त्वा तदाजह्रुः पयस्ततः ।
सा स्वभावाच्च लौल्याच्च पीत्वा तत्पय आसुरम् ॥३१॥
परं संवननं हृद्यं बलपुष्टिकरं ततः ।
शतयोजनविस्ताराम् अतरत्तां रसां पुनः ॥३२॥
यस्याः पारे परे तेषां पुरमासीत्सुदुर्जयम् ।
पप्रच्छेन्द्रश्च सरमां कच्चिद्गा दृष्टवत्यसि ॥३३॥
सा नेति प्रत्युवाचेन्द्रं प्रभावादासुरस्य तु ।
तां जघान पदा क्रुद्धः उद्गिरन्ती पयस्ततः ॥३४॥
जगाम सा भयोद्विग्ना पुनरेव पणीन्प्रति ।
पदानुसारिपद्धत्या रथेन हरिवाहनः ॥३५॥
गत्वा जघान च पणीन् गाश्च ताः पुनराहरत् ।
[३]तेऽवदन्वैश्वदेवं तु ब्रह्मजाया जुहूर्जगौ ॥३६॥
जामदग्नं [४]समिद्धोऽद्य आप्रीसूक्तमतः परम् ।
युगपद्वै व्रजन्तं तं वैरूपा ऋषयस्त्रिभिः ॥३७॥
इन्द्रं प्रतिजगुः सूक्तैः पणीन्प्रति [५]मनीषिणः ।
वैश्वदेवं परं सूक्तं [६]घर्मेत्येकेऽत्र तु स्तुतान् ॥३८॥
देवानिन्द्रं च मन्यन्ते छन्दांस्यग्निं च मध्यमम् ।
आग्नेयं [७]चित्र इत्येतज् जगादर्षिरुपस्तुतः ॥३९॥
[८]पिबेन्द्रं स्तौति [९]नेत्यन्नं [१०]राक्षोघ्नाग्नेयमुत्तरम् ।
[११]इतिवै लाबमैन्द्रं [१२]तद् आप्त्याः षष्ठ्यां निपातिताः ॥४०॥
प्राजापत्यमथाग्नेयं वैन्यमित्यनुपूर्वशः ।
वरुणेन्द्राग्निसोमानाम् इमं न इति संस्तवः ॥४१॥
चतस्रस्त्वत्र सूक्तादाव् आग्निरात्मस्तवं जगौ ।
स्तुतः सोमस्तु षष्ठ्या च नवम्या च पदैस्त्रिभिः ॥४२॥
वारुण्यस्त्वितरास्तिस्र ऐन्द्रमेवोत्तमं पदम् ।
[१३]अहं वाक्सूक्तमर्यम्णो मित्रस्य वरुणस्य च ॥४३॥
[१४]न तं [१५]रात्र्याः परं सूक्तं वैश्वदेवं [१६]ममेति यत् ।
नमस्ते वैद्युतं सूक्तम् आशीर्वाद परं तु यत् ॥४४॥
यां कल्पयन्ति नोऽरयः कृत्यानाशनमात्मनः ।
हिरण्यस्तुतिरायुष्यं नासद्यत्परमेष्ठिनः ॥४५॥
वदन्ति भाववृत्तं तद् यो यज्ञ इति चोत्तरम् ।
अपैन्द्रमत्र त्वाश्विन्यौ चतुर्थी पञ्चमी स्मृतेन ॥४६॥
मैत्रावरुणमीजानं प्रथमायामृचि स्तुताः ।
अर्धर्चे द्यौश्च भूमिश्च अश्विनौ चोत्तरे ततः ॥४७॥
प्रों ष्वैन्द्रे वैश्वदेव्यृक् तु नकिर्देवा मिनीमसि ।
यस्मिन्वृक्ष इति त्वस्मिन् द्युस्थान स्तूयते यमः ॥४८॥
केश्यग्निं कैशिनं सूक्तम् उत देवाः परं तु यत् ।
देवानामत्र चाद्या स्याद् वातदेवस्तृचः परः ॥४९॥
त्रायतां वैश्वदेव्यृक् तु शेषस्त्वब्दैवतः परः ।
स्यादेतद्विश्वभैषज्यं रपसो वा विनाशनम् ॥५०॥
[१७]भूमिर्लाक्षं परं सूक्तं [१८]तवैन्द्रं सूक्तमुत्तरम् ।
[१९]सूर्यरश्मिरिति त्वस्मिन् सावित्रः प्रथमस्तृचः ॥५१॥
आत्मा स्तुतः परोक्षस्तु गन्धर्वेणोत्तरे तृचे ।
इन्द्रो वैष निपातेन अथवा सूर्य उच्यते ॥५२॥
सूक्तेऽस्मिन्देवतास्तिस्र एता एव प्रकीर्तिताः ।
आग्नेयं त्वग्ने तवेति वाग्ने अच्छेति यत्परम् ॥५३॥
आग्नेयं वैश्वदेवं च अयमित्यत्र तु द्वृचाः ।
शार्ङ्गाश्चत्वार ऋषयो अग्निमार्चन्पृथक्पृथक् ॥५४॥
आश्विनं त्यं चिदित्येतद् अयमैन्द्रं ततः परम् ।
इमां खनामीति सूक्तम् इन्द्राणी यत्स्वयं जगौ ॥५५॥
तदौपनिषदं षट्कं भाववृत्तं प्रचक्षते ।
उत्तानपर्णां पाठां तु स्तौति सूक्ते महौषधिम् ॥५६॥
पतिसंवननी त्वन्त्यान्याः सपत्न्यपनोदिकाः ।
अरण्यानीत्यरण्यान्या स्तुतिरैन्द्रे श्रदुत्तरे ॥५७॥
सावित्रं सविता यन्त्रैः समिद्धश्चित्समिध्यसे ।
आग्नेयं श्रद्धया श्राद्धं मेधासूक्तमतः परम् ॥५८॥
आग्नेयमा सूरेत्वेतच् छास ऐन्द्रे ततः परे ।
सोम एकेभ्य इत्येतद् भाववृत्तं प्रचक्षते ॥५९॥
यदरायीत्यलक्ष्मीघ्नं तत्र चत्तो इति द्वृचे ।
प्राधान्याद्वा निपाताद्वा स्तूयते ब्रह्मणस्पतिः ॥६०॥
इन्द्रश्चैव यदित्यस्यां विश्वे देवाः परीत्यृचि ।
आग्नेयं चाग्निमित्येतद् वैश्वदेवमिमा नु कम् ॥६१॥
इन्द्रः प्राधान्यतस्त्वत्र विश्वैर्देवैः सह स्तुतः ।
आदित्यैश्च मरुद्भिश्च तथारूपं हि दृश्यते ॥६२॥
सूर्यो न इति सौर्यं तु यत्त्वेतदुदसाविति ।
पौलोमी स्वान्गुणांस्तत्र सपत्नीनां च शंसति ॥६३॥
ऐन्द्रं तीव्रस्य मुञ्चामि भैषज्यं यक्ष्मनाशनम् ।
राजयक्ष्महणं सूक्तं प्राजापत्यं तदुच्यते ॥६४॥
ऐन्द्राग्नं मन्यते यास्क एके लिङ्गोक्तदैवतम् ।
राक्षोघ्नाग्नेयमित्युक्तं यत्त्वेतद्ब्रह्मणेति तु ॥६५॥
स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम् ।
वैन्यं तु वेनस्तत्पश्यद् अक्षीभ्यां यक्ष्मनाशनम् ॥६६॥
दुःस्वप्नघ्नमपेहीति निपातीन्द्रोऽग्निरेव च ।
आसीदृषिर्दीर्घतपाः कपोतो नाम नैर्ऋतः ॥६७॥
अकरोत्कपोतस्तस्याष्ट्र्याम् अग्निधाने पदं किल ।
स तमात्महितैर्वाक्यैः कपोतं स्तुतवानृषिः ॥६८॥
देवा इति तु सूक्तेन प्रायश्चित्तार्थमुच्यते ।
ऋषभं मा सपत्नघ्नं येनेदमिति मानसम् ॥६९॥
तुभ्येत्यृषी ददृशतुर् ऐन्द्रं गायिनभार्गवौ ।
वरुणो विधातानुमतिर् धाता सोमो बृहस्पतिः ॥७०॥
षळेता देवतास्तत्र तृतीयायामृचि स्तुताः ।
वातस्येति परेणास्तौद् अनिलः पितरं स्वकम् ॥७१॥
मयोभूरिति यत्सूक्तम् अपश्यच्छबर ऋषिः ।
नानारूपाः पयस्विन्यो गावस्तत्र तु संस्तुताः ॥७२॥
विभ्राट् सौर्यं त्वं त्यमैन्द्रम् आ याहीत्युषस स्तुतिः ।
आ त्वा राज्ञेऽभिषिक्ताय द्वे सूक्ते चानुमन्त्रणे ॥७३॥
प्र व इत्युत्तरं ग्राव्णां ददर्श स्तुतिमार्बुदिः ।
यत्त्वतः परमाग्नेयं तत्रार्भव्यृक् प्र सूनवः ॥७४॥
ऋषिर्जगौ पतंगस्तु पतंगमिति यत्परम् ।
तत्सौर्यमेके मन्यन्ते मायाभेदं तथापरे ॥७५॥
मायाभेदे द्वितीयायां पाक् स्तुतेत्याह शौनकः ।
देवी बिभर्ति मनसा या वाचं विदितां सतीम् ॥७६॥
तयमू षु तार्क्ष्यदैवत्यं सूक्तं स्वस्त्ययनं विदुः ।
उदैन्द्रे वैश्वदेवं तु प्रथश्चेति च यत्परम् ॥७७॥
आत्मप्रभावमाचख्युस् तत्राद्या ऋषयस्त्रयः ।
रथंतरं यथा स्तोत्रं स्तोत्रं चैव यथा बृहत् ॥७८॥
यथा च संभूतो धर्मः सवितुश्चोपलक्ष्यते ।
बृहस्पतिरिति त्वस्मिन् स्तुतः सूक्ते बृहस्पतिः ॥७९॥
आशिषो यजमानस्य केचिदेतां स्तुतिं विदुः ।
प्राजापत्यस्य यत्सूक्तम् अपश्यं त्वा प्रजावतः ॥८०॥
प्रत्यृचं देवता स्तौति लिङ्गैरेवात्र लक्षिताः ।
आशिषः पुत्रकामस्य प्रथमा हि वदत्यथ ॥८१॥
द्वितीया पुत्रकामायास् तृतीयात्मस्तवं त्वृषेः ।
यद्विष्णुरिति सूक्तं तु वैश्वदेवं प्रचक्षते ॥८२॥
तस्मिन्स्वदारगर्भार्थम् ऋषिराशास्त आशिषः ।
परं तु नेजमेषेति गर्भार्थं वा तदुच्यते ॥८३॥
अस्यै मे पुत्रकामायै गर्भमा धेहि यः पुमान् ।
आशिषो योगमेतं हि सर्वर्गर्धेन मन्यते ॥८४॥
एकारमनुकम्पार्थे नाम्नि स्मरति माठरः ।
आख्याते भूतकरणं वाष्कला आव्ययोरिति ॥८५॥
माहित्रं यन्महि त्रीणाम् आदित्यानां स्तुतिं विदुः ।
वरुणार्थममित्राणाम् आदित्येष्वितरेषु तु ॥८६॥
एत एव त्रयो देवा स्तुताः स्वल्पेष्वतोऽन्यथा ।
शान्त्यर्थं सूक्तमेतद्धि पावनं चैव वै श्रुतम् ।
यातामपि स्वस्त्ययने दृष्टं तदनुमन्त्रणम् ॥८७॥
उलोऽस्तौत्पितरं वातं वात आग्नेयमुत्तरम् ।
विस्पष्टं जातवेदस्यं प्रेति दाशतयीषु तु ॥८८॥
यत्किञ्चिदन्यत्राग्नेयं जातवेदस्यमुच्यते।
आयं गौरिति यत्सूक्तं सार्पराज्ञा स्वयं जगौ ॥८९॥
तस्मात्सा देवता तत्र सर्यूमेके प्रचक्षते ।
मुद्गलः शाकपूणिश्च आचार्यः शाकटायनः ॥९०॥
त्रिस्थानाधिष्ठितां वाचं मन्यन्ते प्रत्यृचं स्तुताम् ।
भाववृत्तं परं सूक्तं ददर्शाथाघमर्षणः ॥९१॥
परं न विद्यते यस्माच् छान्त्यै वा पावनाय वा ।
यथाश्वमेधः ऋतुराट् सर्वरिप्रप्रणोदनः ॥९२॥
तथाघमर्षणं ब्रह्म सर्वरिप्रप्रणोदनम् ।
तदादीनीति यच्चातः संज्ञानं ज्ञानसंस्तवः ॥९३॥
चतुर्थं यत्तु नैर्हस्त्यं तत्सपत्ननिबर्हणम् ।
संसमित्प्राध्वराणां चेत्य् आग्नेय्यावेव ते स्मृते ॥९४॥
उशना वरुणश्चेन्द्रश् चाग्निश्च सविता स्तुताः ।
संज्ञाने प्रथमस्यां तु द्वितीयस्यामथाश्विनौ ॥९५॥
तृतीया चोत्तमे च द्वे आशिषोऽभिवदन्ति ताः ।
इन्द्रः पूषा सपत्नघ्ने द्वितीयस्यामृचि स्तुतौ ॥९६॥
देवानामितराः प्रोक्ता आशीर्वादपराश्च याः ।
संसं संज्ञानमित्येते परं संवननं विदुः ॥९७॥
महानाम्न्य ऋचो गुह्यास् ता एन्द्र्यश्चैव यो वदेत् ।
सहस्रयुगपर्यन्तम् अहर्ब्राह्मं स राध्यते ॥९८॥
तृचाधमं याज्ञिकाः सूक्तमाहुस्
तस्मिन्स्तुतौ दृश्यन्ते याः सूक्तभाजः ।
प्रधानमुक्तं किल देवता याः
सूक्तभाजः सर्वदा शौनकेन ॥९९॥
ऐन्द्रीर्ऋचो महानाम्नीस्तु विद्यात्
तथा हि इष्टं ब्राह्मणे सूक्तशब्दः ।
प्रधानमुक्तं किल देवता याः
सूक्तभाजः सर्वदा शौनकेन ॥९९॥
ऐन्द्रीर्ऋचो महानाम्नीस्तु विद्यात्
तथा हि इष्टं ब्राह्मणे सूक्तशब्दः ।
न दृश्यते सूक्तवादो निवित्सु
यथा प्रैषेष्वाह सूक्ताभिधानम् ॥१००॥
सूक्तैकदेशा इति तान्प्रतीयाद्
अन्याश्च कुन्त्याः पदशो विशास्ता ।
यथैतशो देवनीथादिसंज्ञा
कुन्तापे तत्सर्वमेकं हि सूक्तम् ॥१०१॥

पुरीषपदमासां तु प्रथमं स्यात्प्रजापतेः ।
आग्नेयमैन्द्रं वैष्णवं पौष्णं चैव तु पञ्चमम् ॥१०२॥
अग्नेः प्रयाजानुयाजाः प्रैषा ये च हवींषि च ।
यद्दैवतं हविस्तु स्यात् प्रैषास्तद्दैवताश्च ते ॥१०३॥
निविदां निगदानां च स्वैः स्वर्लिङ्गैश्च देवताः ।
निगदेन निगद्यन्ते याश्च कल्पानुगा ऋचः ॥१०४॥
अग्नेरेव तु गायत्र्य उष्णिहः सवितुः स्मृताः ।
अनुष्टुभस्तु सोमस्य बृहत्यस्तु बृहस्पतेः ॥१०५॥
पंक्त्यस्त्रिष्टुभश्चैव विद्यादैन्द्र्यश्च सर्वशः ।
विश्वेषां चैव देवानां जगत्यो यास्तु काश्चन ॥१०६॥
विराजश्चैव मित्रस्य स्वराजो वरुणस्य च ।
इन्द्रस्य निचृतः प्रोक्ता वायोश्च भुरिजः स्मृतः ॥१०७॥
विषये यस्य वा स्यातां स्यातां वा वायुदेवते ।
यास्त्वतिछन्दसः काश्चित्ताः प्रजापतिदेवताः ॥१०८॥
विच्छन्दसस्तु वायव्या मन्त्राः पादैश्च ये मिताः ।
पौरुष्यो द्विपदाः सर्वा ब्राह्म्य एकपदाः स्मृताः ॥१०९॥
समस्ता ऋच आग्नेय्यो वायव्यानि यजूंषि च ।
सौर्याणि चैव सामानि सर्वाणि ब्राह्मणानि च ॥११०॥
वैश्वदेवो वषट्कारो हिंकारो ये यजामहे ।
रूपं वज्रस्य वाक्पूर्वं स्वाहाकारोऽग्निदेवता ॥१११॥
देवानां च पितॄणां च नमस्कारः स्वधैव च ।
क्रुष्टो मूर्धानि विज्ञेयस् तालव्यः प्रथमः स्वरः ॥११२॥
द्वितीयस्तु भ्रुवोर्मध्ये तृतीयः कर्णसंश्रितः ।
चतुर्थो नासिकाग्रे स्याद् औरसो मन्द्र उच्यते ।
मन्द्रकर्षणसंयुक्तम् अतिस्वारं प्रशंसति ॥११३॥
वदन्ति देवताः क्रुष्टं मनुष्याः प्रथमं स्वरम् ।
द्वितीयं पशवः सर्वे गन्धर्वाप्सरसः स्वरम् ॥११४॥
अण्डजाः पक्षिणः सर्पाश् चतुर्थमुपभुञ्जते ।
मन्द्रं पिशाचा रक्षांसि असुराश्चोपभुञ्जते ॥११५॥
अतिस्वारस्तु सर्वस्य जङ्गमस्थावरस्य च ।
वैश्वदेवः स्वरः क्रुष्टो नित्यं यो मूर्ध्नि तिष्ठति ॥११६॥
तालव्यः प्रथमः साम्नां स्वर आदित्यदैवतः ।
स्वरो द्वितीयः साध्यानां भ्रुवोर्देशं समाश्रितः ॥११७॥
आश्विनस्तु तृतीयोऽत्र स्वरः कर्णौ समाश्रितः ।
चतुर्थस्त्वत्र वायव्यो नासिक्यः स्वर उच्यते ॥११८॥
पञ्चमस्तु स्वरः प्रोक्तश् चाक्षुषः सूर्यदैवतः ।
यस्तु सामस्वरः षष्ठः स सौम्यो मन्द्र उच्यते ॥११९॥
विकर्षेण तु मन्द्रस्य युक्तोऽतिस्वार्य उच्यते ।
स मैत्रावरुणा ज्ञेयो मन्द्रस्थानसमाहितः ॥१२०॥
सामस्वराणां सप्तानाम् एतो देवा इहोदिताः ।
त्रयाणामितरेषां तु लोकाधिपतयस्त्रयः ॥१२१॥
वाग्देवत्योऽथवाग्नेयः थस्तावश्चैव सामसु ।
उद्गीथोपद्रवावैन्द्रौ स्यातां वा वायुदेवतौ ॥१२२॥
सौर्यः स्यात्प्रतिहारोऽत्र निधनं वैश्वदेवतम् ।
हिङ्कारप्रणवाभ्यां तु पुरस्तादेव कीर्तनात् ॥१२३॥
इति व्यस्तसमस्तानां मन्त्राणामिह दैवतम् ।
देवताविदवेक्षेत प्रयोगे सर्वकर्मणाम् ॥१२४॥
सप्तर्षयो वसवश्चापि देवा अथर्वाणो भृगवः सोमसूर्याः ।
पथ्या स्वस्ती रोदसी चोक्तमन्त्रे कूहूर्गुङ्गूरदितिर्धेनुदघ्न्या ॥
असुनीतिरिळा चाप्त्या विधातानुमतिर्ह या ।
आङ्गिरोभिः सहैताः स्युर् उक्तमन्त्राश्च देवताः ॥१२६॥
वैश्वानरो हि सुपर्णो विवस्वान्
प्रजापतिर्द्यौः सुधन्वा नगोह्यः ।
अपांनपादर्यमा वातजूतिर्
इळस्पतिश्चापि रथस्पतिश्च ॥१२७॥
ऋभवः पर्जन्यः पर्वता ग्नाश्च
दक्षो भगो देवपत्नीर्दिशश्च ।
आदित्या रुद्राः पितरोऽथ
साध्या निपातिनो वैश्वदेवेषु सर्वे ॥१२८॥
अनुक्रान्ता देवताः सूक्तभाजो
हविर्भाजश्चोभयथा निपातैः ।
अप्येवं स्यादुभयथान्यथा वा
न प्रत्यक्षमनृषेरस्ति मन्त्रम् ॥१२९॥
योगेन दाक्ष्येण दमेन बुद्ध्या
बाहुश्रुत्येन तपसा नियोगैः ।
उपास्यास्ताः कृत्स्नशो देवता या
ऋचो ह यो वेद स वेद देवान् ।
यजूंषि यो वेद स वेद यज्ञान्
सामानि यो वेद स वेद तत्त्वम् ॥१३०॥
मन्त्राणां देवताविद्यः प्रयुङ्क्ते कर्म कर्हिचित् ।
जुषन्ते देवतास्तस्य हविर्नादेवताविदः ॥१३१॥
अविज्ञानप्रदिष्टं हि हविर्नेहेत दैवतम् ।
तस्मान्मनसि संन्यस्य देवतां जुहुयाद्धविः ॥१३२॥
स्वाध्यायमपि योऽधीते मन्त्रदैवतविच्छुचिः ।
स सत्त्रसदिव स्वर्गे सत्त्रशद्भिरपीड्यते ॥१३३॥
नियमोऽयं जपे होमे ऋषिश्छन्दोऽथ दैवतम् ।
अन्यथा चेत्प्रयुञ्जानस् तत्फलाच्चात्र हीयते ॥१३४॥
ऋषिछन्दोदैवतादि ज्ञानं यज्ञादिषु श्रुतम् ।
तदाश्रित्य प्राणदृष्टिर् विषितात्रेति गम्यताम् ॥१३५॥
अविदित्वा ऋषिं छन्दो दैवतं योगमेव च ।
योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥१३६॥
अर्थेप्सवः खल्वृषयश् छन्दोभिर्देवताः पुरा ।
अभ्यधावन्निति छन्दो मध्ये त्वाहुर्महर्षयः ॥१३७॥
ऋषिं तु प्रथमं ब्रूयाद् छन्दस्तु तदनन्तरम् ।
देवतामथ मन्त्राणां कर्मस्वेवमिति श्रुतिः ॥१३८॥
आधारं व्याप्यनाधारं विविच्यात्मानमात्मनि ।
ईक्षमाणो शुभौ संधिम् ऋचोदैवतवित्पठेत् ॥१३९॥
स ब्रह्यामृतमत्यन्तं योनिं सद्सतोध्रुवम् ।
महच्चाणु च विश्वेशं विशति ज्योतिरुत्तमम् ॥१४०॥

॥ इति बृहद्देवतायां अष्टमोऽध्यायः ॥

N/A

References : N/A
Last Updated : March 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP