संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहद्देवता| तृतीयोऽध्यायः बृहद्देवता माहिती प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः बृहद्देवता - तृतीयोऽध्यायः बृहद्देवता संस्कृत भाषेतील छंदशास्त्र ह्या विषयातील शौनकऋषींनी रचलेला एक प्राचीन ग्रंथ आहे.The Bruhaddevatā (Sanskrit: बृहद्देवता), is a metrical Sanskrit work, traditionally ascribed to Shaunaka. Tags : bruhaddevatasanskritबृहद्देवतासंस्कृत तृतीयोऽध्यायः Translation - भाषांतर तनूनपादयं त्वेव नाम्ना यच्छत्यसौ तनुम् ।नापादिति प्रजामाहुर् अमुतोऽस्य च संभवम् ॥१॥नराशंसमिहैके तु अग्निमाहुरथेतरे ।नराः शंसन्ति सर्वेऽस्मिन्न् आसीना इति वाध्वरे ॥२॥एतमेवाहुरन्येऽग्निं नराशंसोऽध्वरे ह्ययम् ।नरैः प्रशस्य आसीनैर् आहुश्चैर्ऋत्विजो नरः ॥३॥इळस्त्वृषिकृतं रूपम ईडेश्च स्तुतिकर्मणः ।इळावांस्तेन वोक्तोऽग्निर् इडिना वर्द्धिकर्मणा ॥४॥बर्हिरेवायमग्निस्तु सर्वं हि परिबृंहितम् ।अन्नेन यद्धतो वा सन्न् इध्मेन परिबृंहितः ॥५॥द्वारस्तु देव्यौ याः प्रोक्ता विश्वेषां तास्तु पत्नयः ।अग्नायीमनुवर्तन्ते तथाग्नाय्यग्निमेव च॥६॥.अग्नौ ध्रुवं स्थितास्तास्तु संस्तूयन्तेऽग्निना सह ।प्राधान्यं तासु कैवाग्ने स्तुतिष्वेव हविःषु च ॥७॥नक्तोषासौ च ये देव्याव् आग्नेय्यावेव ते स्मृते ।श्याव्याग्नेयी हि कालस्य तस्यैवोषाः कलेव तु ॥८॥तम उच्छत्युषा नक्तानक्तीमां हिमबिन्दुभिः ।अपि वाव्यक्तवर्णेति नञ्पूर्वाञ्चेरिदं भवेत् ॥९॥सा हि दोषा भवत्यादौ निशीथे सा तमस्वती ।नाम्ना भवत्युषाश्चैव सैषा प्रागुदयाद्रवेः ॥१०॥देव्याविति तु होताराव् अग्नि पार्थिवमध्यमौ।दिव्यादग्नेर्हि जज्ञाते दैव्यौ तेनेह जन्मना ॥११॥तिस्रस्तु देव्यो याः प्रोक्तास् त्रिस्थानैवेह सा तु वाक् ।त्रिविधेनोच्यते नाम्ना ज्योतिःषु त्रिषु वर्तिनी ॥१२॥अग्निमेवानुगेळा तु मध्यं प्राप्ता सरस्वती ।अमुं स्थिताधि लोकं तु भारती भवति ह्यसौ ॥१३॥सैषा तु त्रिविधा वाग्वै दिवि च व्योम्नि चेह च ।व्यस्ता चैव समस्ता च भजत्यग्नीनिमानपि ॥१४॥त्वष्टा तु यस्त्वयमेव पार्थिवोऽग्निरिति स्तुतिः ।पार्थिवस्यास्य वर्चः स्युः कस्याप्यृक् चार्तवेषु च ॥१५॥त्विषितस्त्वक्षतेर्वा स्यात् तृर्णमश्नुत एव वा ।कर्स्मसृऽत्तारणो वेति तेन नामैतदश्नुते ॥१६॥यः सहस्रतमो रश्मी रवेश्चन्द्रमुपाश्रितः ।सोऽपि त्वष्टारमेवाग्निं परं चेह च यन्मधु ॥१७॥प्रादाद्ब्रह्मापि सुप्रीतः सुताय तदथर्वणः ।स चाभवदृषिस्तेन ब्रह्मणा दीप्तिमत्तरः ॥१८॥तमृषिं निषिषेधेन्द्रो मैवं वोचः क्वचिन्मधु ।न हि प्राक्ते मधुन्यस्मिञ् जीवन्तंत्वोत्सृजाम्यहम् ॥१९॥तमृषिं त्वश्विनौ देवौ विवक्ते मध्वयाचताम् ।स च ताभ्यां तदाचष्टे यदुवाच शचीपतिः ॥२०॥तमब्रूतां तु नासत्याव् आश्व्येन शिरसा भवान् ।मध्वाशु ग्राहयत्वावां मेन्द्रश्च त्वा वधीत्ततः ॥२१॥आश्व्येन शिरसा तौ तु दध्यङ्ङाह यदश्विनौ ।तदस्येन्द्रोऽहरत्स्वं तन् न्यधत्तामस्य यच्छिरः ॥२२॥दधीचश्च शिरश्चाश्व्यं कृतं वज्रेण वज्रिणा ।पपात सरसो मध्ये पर्वते शर्यणावतो ॥२३॥तदद्भ्यस्तु समुत्थाय भूतेभ्यो विविधान्वरान् ।प्रादाय युगपर्यन्तं यास्वेवाप्सु निमज्जति ॥२४॥त्वष्टा रूपविकर्ता च योऽसौ माध्यमिके गणे ।स्तुतः स च निपातेन सूक्तं तस्य न विद्यते ॥२५॥वनस्पतिं तु यं प्राहुर् अयं सोऽग्निर्वनस्पतिः ।अयं वनानां हि पतिः पाता पालयतीति वा ॥२६॥अग्निर्गृत्समदेनायं वनस्पतिरितीळितः ।मन्दस्वेत्यस्य सूक्तस्य षळृचस्य तृतीयया ॥२७॥यूपवत्तरुवच्चैव स्तुतिर्यास्य प्रसङ्गजा ।सर्वेणाञ्जन्ति सूक्तेन तृतीये सा तु मण्डले ॥२८॥स्वाहाकृतयोऽनेकाश्च विदुषां मतयोऽभवन् ।तत्सर्वं त्वयमेवाग्निर् भवतीति विनिश्चयः ॥२९॥अयं हि कर्ता स्वाहानां कृतिस्तासामिहैकजा ।अयं प्रसूतिर्भूतानां सर्वेषामयमव्ययः ॥३०॥तनूनपाद्द्विताया च नराशंसवती च या ।समस्येते प्रयोक्तव्ये त्रिष्वेवोभयवत्सु तु ॥३१॥नराशंसवती वा स्याद् द्वितीया च प्रजार्थिनाम् ।बलकामोऽन्नकामो वा भूतिमिच्छेदथापि यः ॥३२॥आग्नेयं सूक्तमैभिर्यद् वैश्वदेवमिहोच्यते ।तद्विश्वलिङ्गं गायत्रं वैश्वदेवेषु शस्यते ॥३३॥इन्द्र सोमं पिबेतीदं यद्द्वादशकमार्तवम् ।तस्मिन्सहर्तुना सप्त प्रत्यृचं स्तौति देवताः ॥३४॥तत्रर्तुनेति षदस्वृक्षु चतसृष्वृतुभिः सह ।पुनर्द्वयोर्ऋतुनेति बहुत्वैकत्वलक्षिताः ॥३५॥ऋतवो देवताभिश्च निपातेनेह संस्तुताः ।तथर्तुप्रैषसूक्ते च तथा गार्त्समदेऽपि च ॥३६॥मुख्यया त्विन्द्रमेवास्तौन् मरुतस्तु द्वितीयया ।तृतीयया तु त्वष्टारं चतुर्थ्या चाग्निमेव च ॥३७॥पञ्चम्या तु पुनः शक्रं षष्ट्या देवावृतावृधौ ।सप्तम्याद्याभिरग्निं च चतुर्भिर्द्रविणोदसम् ॥३८॥आदेशाद्दैवतं ज्ञेयम् ऋङ्मन्त्राणां न लिङ्गतः ।न शक्यं लिङ्गतो ह्यासां ज्ञातुं तत्त्वेन दैवतम् ॥३९॥एकादश्या तु नासत्यौ द्वादश्याग्निमिमं पुनः ।पृथक्पृथक्स्तुतीदं तु सूक्तमाह रथीतरः ॥४०॥बहुदैवे द्विदैवे वा गुणैर्वा यत्र कर्मजैः ।स्तूयते देवतैकैका विभक्तस्तुति तद्विदुः ॥४१॥वैश्वदेवानि सूक्तानि त्रिविधानि भवन्ति तु ।सूर्यसंस्तवसंयुक्तं विश्वलिङ्गं पृथक्स्तुति ॥४२॥पृथक्स्तुतीति यत्प्रोक्तं तद्विद्याद्बहुदैवतम् ।विश्वलिङ्गं तु तद्यत्र विश्वैः स्वैः कर्मजैर्गुणैः ॥४३॥विश्वानुद्दिश्य यद्देवान् स्तौति सूर्यमनेकधा ।देवानेवाभिसंस्तौति तं प्राहुः सूर्यसंस्तवम् ॥४४॥न तु भागस्य सूक्तादौ सक्तेष्वेवौषसेषु वा ।न सावित्रे ह्रयामीति न सूर्यायां क्रतौ मखे ॥४५॥न चैवैवं प्रवादेषु मन्त्रेष्वन्येषु केषुचित् ।न च यत्र सजोषेति पदं वा स्यात्सजूरिति ॥४६॥यस्मिन्प्रसङ्गादपि तु बह्वीनां परिकीर्तनम् ।वैश्वदेवं तदप्याह स्थविरो लामकायनः ॥४७॥असंस्तुतं स्तुतं वापि प्रदिष्टं दैवतं क्वचित् ।मन्त्रैस्तदृषयोऽर्चन्ति तां तु बुध्येत शास्त्रवित् ॥४८॥आदौ हि मध्ये चान्ते च पृथक्त्वेषु च कर्तृभिः ।कर्माण्यनपदिष्टानि प्रदिष्टान्यपि तु क्वचित् ॥४९॥कर्मैव तावत्सावित्र्यां निविदि स्तौति कर्मणा ।यद्धेनुः सप्त्यनड्वाहौ वोळहा दोग्ध्याशुरेव वा ॥५०॥भागे यत्स्तौति चाग्न्यादीन् मित्राधींश्चाश्वसंस्तुतौ ।यदैभिरिति चैतस्मिन् वैश्व देवेऽग्निमर्चति ॥५१॥तदाहुरादावन्ते च प्रायशोऽन्या स्तुवन्नृचः ।प्रतियोगात्प्रसङ्गाद्वा स्तौत्यन्यामपि देवताम् ॥५२॥यस्यां वदत्यर्थवादान् सा ज्ञेया सूक्तभागिनी ।यां तु स्तौति प्रसङ्गेन सा विज्ञेया निपातिनी ॥५३॥चतुर्धा भण्यते तस्मिन् सूक्ते वा सक्तूभागिनी ।पस्मिन्सर्वास्तु राजर्षीन् ऋषीन्वापि स्तुवन्नृषिः ॥५४॥मेधातिथिरगस्त्यस्तु बृहदुक्थो मनुर्गयः ।ऋजिश्वा वसुकर्णश्च शार्यातो गोतमो लुशः ॥५५॥स्वस्त्यात्रेयः परुच्छेपः कक्षीवान् गाथिनौर्वशौ ।नाभाकश्चैव निर्दिष्टो दुवस्युर्ममतासुतः ॥५६॥विहव्यः कश्यप ऋषिर् अवत्सारश्च नाम यः ।वामदेवो मधुच्छन्दाः पार्थो दक्षसुतादितिः ॥५७॥जुहूऽर्गृत्समदश्चर्षिर् देवाः सप्तर्षयश्च ये ।यमोऽग्निस्तापसः कुत्सः कुसीदी त्रित एव च ॥५८॥बन्धुप्रभृतयश्चैव चत्वारो भ्रातरः पृथक् ।विष्णुश्च नेजमेषश्च नाम्ना संवननश्च यः ॥५९॥एते तु सर्व एवास्य विश्वैः स्वैः कर्मजैर्गुणैः ।समस्तैरथ च व्यस्तैः पृथक्सूक्तेषु तुष्टुवुः ॥६०॥पार्थिवौ द्रविणोदोऽग्निः पुरस्ताद्यस्तु कीर्तितः ।तमाहुरिन्द्रं दातृत्वाद् एके तु बलवित्तयोः ॥६१॥अयं हि द्रविणोदोऽग्निर् अयं दाता बलस्य हि ।जायते च बलेनायं मथ्यत्यृषिभिरध्वरे ॥६२॥हवींषि द्रविणं प्राहुर् हविषो यत्र जायते ।दातारश्चर्त्विजस्तेषां द्रविणोदास्ततः स्वयम् ॥६३॥ऋषीणां पुत्र इत्येषां दृश्यते सहसो यहो ।मध्यमाद्वा यतो जज्ञे तस्माद्वा द्राविणोदसः ॥६४॥द्रविणोदोऽग्निरेवायं द्रविणोदास्तदोच्यते ।आग्नेयेष्वेव दृश्यन्ते प्रवादा द्रविणोदसः ॥६५॥ऐन्द्रस्य नवकस्येह यदैन्द्रावरुणं परम् ।तस्योत्तरं च सोमानं स्तूयते ब्रह्मणस्पतिः ॥६६॥ऋग्भिः पञ्चभिराद्याभिस् तिसृभिः सदसस्पतिः ।नराशंसोऽन्त्यया चर्चा सोमेन्द्रौ तु निपातितौ ॥६७॥चतुर्थ्यां सोम इन्द्रश्च पञ्चम्यां दक्षिणाधिका ।प्रसङ्गादृषिणा प्रोक्ताः सम्बन्धा स्थानलोकयोः ॥६८॥प्राजापत्यं तथेन्द्रः स्याद् इति तस्येह नामनी ।कथिते द्वै च षट् चान्या एषां चाद्यः प्रजापतिः ॥६९॥शिष्टानि यानि नामानि तानि वक्ष्याम्यतः परम् ।सत्पतिः कश्च कामश्च सदसस्पतिरेव च ॥७०॥इळस्पतिर्वाचस्पतिस् ततस्तु ब्रह्मणस्पतिः ।तृतीयान्त्ये तु सूक्तस्य प्रथमं पञ्चमं च यत् ॥७१॥चतुर्भिरितरैस्त्वेनं न सूक्तं नाप्यृगश्नुते ।सर्वाण्येव तु सर्वासां देवतानां प्रजापतेः ॥७२॥नामानि कथयन्त्येते सम्यग्भक्तिदिदृक्षवः ।तदाहुनैंतदेवं स्याद् अष्टानामेष हि स्मृतः ॥७३॥तैरेव चास्य कल्प्यन्ते क्रतवश्च हवींषि च ।मरुद्भिर्मध्यमस्थानैर् अयमग्निस्तु पार्थिवः ॥७४॥नवकेनेह सूक्तेन प्रति त्यमिति संस्तुतः ।मरुतां साहचर्यात्तु सूक्तेऽस्मिन्नाग्रिमारुते ॥७५॥मन्यते मध्यमं चैव यान्कोऽग्निं न तु पार्थिवम् ।स्यादयं पार्थिवस्त्वेव तथा रूपं हि दृश्यते ॥७६॥हूयसे पीतये चेति वैद्युते न तदस्ति हि ।अथ स्यादभिधानस्य देवतायाः पृथक् पृथक् ॥७७॥ऋचोऽर्धर्चस्य पादस्य कथं जायेत दैवतम् ।यथा निविदि सावित्र्यां स्तूयते कर्म कर्मणा ॥७८॥दोग्ध्री धेनुर्वोढानड्वान् आशुः सप्तिः पुरंधिया ।यथा च शंनोमित्रीया वरुणः प्राविता भुवत् ॥७९॥सूक्तप्रावेणौभिरग्ने परोक्ष्यास्तत्र देवताः ।शब्दानां द्वैपदादीनां द्विदैवबहुदैवतम् ॥८०॥असंस्तुतं संस्तुतवत् प्रदिष्टं दैवतं क्वचित् ।यत्र द्विदैवते मन्त्र एकवद्देवतोच्यते ॥८१॥विभक्तस्तुति तद्विद्याद् बहुष्वबहुवच्च यत् ।आशीर्वादेषु संज्ञासु कर्मसंस्थासु देवताः ।बह्व्यो ह बहुवत्तत्र द्विपदे यत्र संस्तुते ॥८२॥सुधन्वन आङ्गिरसस्यासन्पुत्रास्त्रयः पुरा ।ऋभुर्विभ्वा च वाजश्च शिष्यास्त्वष्टुश्च तेऽभवन् ॥८३॥शिक्षयामास तांस्त्वष्टा त्वाष्ट्रं यत्कर्म किंचन ।परिनिष्ठितकर्माणो विश्वे देवा उपाह्वयन् ॥८४॥विश्वेषां ते ततश्चक्रुर् वाहनान्यायुधानि तु ।धेनुं सबर्दुघां चक्रुर् अमृतं सवरुच्यते ॥८५॥बृहस्पतेरथाश्विभ्यां रथं दिव्यं त्रिवन्धुरम् ।इन्द्राय च हरी देवप्रहितेनाग्निनापि यत् ॥८६॥एकं चमसमित्युक्ते ज्येष्ठ आहेत्यथो दिवि ।उक्त्वा ततक्षुश्चमसान् यथोक्तं तेन हर्षिताः ॥८७॥त्वष्टा च सविता चैव देवदेवः प्रजापतिः ।सर्वान्देवान् समामन्त्र्य अमृतत्वं ददुश्च ते ॥८८॥तेषामाद्यन्त्ययोर्नाम्ना दृश्यते बहुवत्स्तवः ।तृतीयसवने तेषां तैस्तु भागः प्रकल्पितः ॥८९॥अपिबत्सोममिन्द्रश्च तैस्तत्र सवने सह ।तेषां स्तुतिरिदं सूक्तं त्वयमित्यष्टकं परम् ॥९०॥इहेन्द्राग्नी स्तुतौ देवौ तृतीयस्वादिरश्विनौ ।हिरण्यपाणिं सावित्र्यश् चतस्रश्चाप्यथोत्तराः ॥९१॥एकाग्नेर्द्वे तु देवीनां द्वादश्यां देवपत्नयः ।इन्द्राणी वरुणानी च अग्नायी च पृथक् स्तुताः ॥९२॥द्यावापृथिव्यौ द्वे च स्यात् स्योनेत्यृक् पार्थिवी स्मृता।देवानां वात इत्येषा सूक्तशेषस्तु वैष्णवः ॥९३॥वायोस्तीव्रेन्द्रवायुभ्यां द्वृचो द्वाभ्यां ततः परम् ।तृचो मित्रावरुणयोस् तथेन्द्राय मरुत्वते ॥९४॥तृचो विश्वेषां देवानां पूष्ण आघृणये तृचः ।आसक्तो हि घृणिस्तस्य दध्नः पूर्णो दृती रथे ॥९५॥आघृणिस्तत्स्तुतः पूषा कीरिभी रिभ्यते ततः ।यथा हि मधुनः पूर्णो दृतिरर्थ्येति चाश्विनौ ॥९६॥आ वर्तनि मधुनेति दृतिरेव च दृश्यते ।अर्धाष्टमा अपां ज्ञेया अध्यर्धान्त्याग्निदेवता ॥९७॥कस्य नूनं तु कार्य्याद्या आग्नेय्यृक् सवितुस्तृचः ।भगमक्तस्य भागी वा परं यच्चिच्च वारुणम् ॥९८॥वसिष्वा हीति चाग्नेये ऋगग्नेर्मध्यमस्य तु ।जराबोधेति विज्ञेया वैश्वदेव्युत्तमा नमः ॥९९॥पराश्चतस्रो यत्रेति इन्द्रोलूखलयो स्तुतिः ।मन्येते यास्ककात्थक्याव् इन्द्रस्येति तु भागुरिः ॥१००॥यच्चिद्ध्यूलूखलस्य द्वे द्वे परे मुसलस्य तु ।चर्माधिषवणीयं वा सोमं वान्त्या प्रशंसति ॥१०१॥ऐन्द्र यच्चिद्धि सत्येति उत्तरं चाश्विनातृचात् ।आश्विनादुत्तरः कस्त उषस्यस्तृच उत्तमः ॥१०२॥स्तूयमानः शश्वदिति प्रीतस्तु मनसा ददौ ।शुनःशेपाय दिव्यं तु रथं सर्वं हिरण्मयम् ॥१०३॥आग्नेयं यत्त्वमैन्द्रे च त्रिश्चिदित्याश्विनं ततः ।ऋतेऽर्थवादं कर्मैतद् इन्द्रस्येति तु शंसति ॥१०४॥पादोऽग्नये ह्वयामीति मैत्रावरुण उत्तरः ।तृतीयो रात्रिसंस्तावः सूक्तं सावित्रमुच्यते ॥१०५॥पञ्चैतानि जगौ दृष्ट्वा सूक्तान्याङ्गिरसो मुनि ।हिरण्यस्तूपतां प्राप्य सख्यं चेन्द्रेण शाश्वतम् ॥१०६॥आग्नेयं प्रेति मरुतां क्रीळं त्रीणि पराण्यतः ।उत्तिष्ठ ब्राह्मणस्पत्यं यं रक्षन्ति त्रयस्तृचाः ॥१०७॥वरुणार्यममित्राणां मध्यं आदित्यदैवतः ।पौष्णं सं पूषन्षड्रौद्र्यस् तृतीया न तु केवला ॥१०८॥मित्रेण वरुणेनात्र विश्वेदेवैश्च संस्तवः ।उक्तमत्रर्षिणा पूर्वम् आदेशाद्दैवतं विना ॥१०९॥ज्ञातुं न शक्यते लिङ्गात् तथापि क्वचिदुच्यते ।आदित्या वसवो रुद्रास् त्वमग्न इति संस्तुताः ॥११०॥तिस्रः सौम्योऽग्न आग्नेये प्रगाथेनाश्विनौ स्तुतौ ।सहोषसा लिङ्गभाजा अयं सोम सुदानवः ॥१११॥अर्धर्चो देवदेवस्य एषो इत्याश्विने परे ।आदित्यं मन्यते यास्को हविषेति सह स्तुतम् ॥११२॥सहौषसे ततः सौर्यम् उदु त्यमिति संस्तुतः ।द्युभक्तिर्येन वरुणो रोगघ्नस्तृच उत्तमः ॥११३॥रोगापनुत्तिराद्याभ्याम् उद्यन्निस्युत्तमे तृचे ।अर्धर्चे तु द्विषद्द्वेषः ऐन्द्रः सव्यः शतर्चिषु ॥११४॥स्वयमिन्द्रसमं पुत्रम् इच्छतोऽङ्गिरसो मुनेः ।वज्र्येव सव्यो भूत्वर्षेर् योगित्वात्पुत्रतां गतः ॥११५॥प्रथमे मण्डले ज्ञेया ऋषयस्तु शतर्चिनः ।क्षुद्रसूक्तमहासूक्ता अन्त्ये मध्येषु मध्यमाः ॥११६॥नवकं जातवेदस्यं नन् चिद् यत्तु वया इति ।वैश्वानरीयं तत्सूक्तं वह्निमाग्नेयमुत्तरम् ॥११७॥ऐन्द्राण्यस्मै ततस्त्रीणि वृष्णो शर्धाय मारतम् ।आग्नेयानि तु पश्वेति नवशश्वद्धि वामिति ॥११८॥दशाश्विनानीमानीति इन्द्रावरुणयो स्तुतिः ।सौपर्णेयास्तु याः काश्चिन्निपातस्तुतिषु स्तुताः ॥११९॥उपप्रयन्तः सूक्तानि आग्नेयान्युत्तराणि षट् ।हिरण्यकेशो रजसः तृचोऽग्नेर्मध्यमस्य तु ॥१२०॥इत्थेति पञ्च त्वैन्द्राणि यामित्यस्यां निपातिताः ।दध्यङ् मनुरथर्वा च मारुतानि प्र ये ततः ॥१२१॥चत्वार्या नो वैश्वदेवे द्वे देवानां स्तुतिमते ।आ नो भद्राश्च देवानां भद्रं यावच्छतं पुनः ॥१२२॥मधु वातास्तृचे तस्मिन् परमं मध्वपीष्यते ।अदितिर्द्यौरिति त्वस्यां विभूतिः कथितादितेः ॥१२३॥त्वं सौम्यमौषसम् एता उ त्यास्तृचोऽश्विनोः ।अश्विताग्नेः ससोमस्य अग्नीषोमाविति स्तुतिः ॥१२४॥गोतमादौशिजः कुत्सः परुच्छेपादृषेः परः ।कुत्सद्दीर्घतमाः शश्वत् ते द्वे एवमधीयते ॥१२५॥इमं कुत्स आङ्गिरसो ददर्शजातवेदस्यं जगाद षोळशर्चम् ।पूर्वो देवा इत्यृचो देवदेवास्त्रयः पादा उत्तमायास्ततोऽर्धम् ॥१२६॥तस्यैव वा यस्य तत्पूर्वसूक्तं मित्रा-दिभ्यो वात्र षड्भ्यः प्रकृताभ्यः ।अन्त्योऽर्धर्चस्तु वा षण्णां स्तुतानांपूर्वो देवाः पादस्तु त्रिभि स्तुताः ॥१२७॥भरद्वाजे गृत्समदे वसिष्ठे नोधस्यगस्त्ये विमदे नभाके ।कुत्से नोदर्का बहुदैवतेषु तथा द्विदेवेषु समानधर्मिणः ॥१२८॥द्वे विरूपे सूक्तमौषसायाग्नये स प्रत्नथेति द्रविणोदसेऽग्नये ।वैश्वानरस्येति वैश्वानरीयम् अस्मात्पूर्वं शुचयेऽग्नये पुनः ॥१२९॥जातवेदस्यं सूक्तसहस्रमेकऐन्द्रात्पूर्वं कश्यपार्षं वदन्ति ।जातवेदसे सूक्तमाद्यं तु तेषाम्एकभूयस्त्वं मन्यते शाकपूणिः ॥१३०॥स यो वृषैन्द्राणि पञ्च वैश्वदेवानि चन्द्रमाः ।त्रीण्यैन्द्राग्ने य इन्द्राग्नी ततमित्यार्भवे परे ॥१३१॥त्रितं गास्त्वनुगच्छन्तं क्रूरा सालावृकीसुताः ।कूपे प्रक्षिप्य गाः सर्वास् तत एवापजह्रिरे ॥१३२॥स तत्र सुषुवे सोमं मन्त्रविन्मन्त्रवित्तमः ।देवांश्चावाहयत्सर्वांस् तच्छुश्राव बृहस्पतिः ॥१३३॥आगच्छतोऽथ तान्दृष्ट्वा क्व वसत्यस्य तत्त्वतः ।सर्वदृक्त्वं च वरुणस्यार्यम्णश्चेत्युपालभत् ॥१३५॥कूपेष्टकाभिर्व्रणितान्य् सङ्गान्येवाभयन्मम ।दृष्ट्वा सर्वानहं स्तौमि यद्यप्येको न पश्यति ॥१३५॥बृहस्पतिप्रचोदिता विश्वेदेवगणास्त्रयः ।जग्मुस्त्रितस्य तं यज्ञं भागांश्च जगृहुः सह ॥१३६॥बृहस्पतिस्त्रितस्यैतज् ज्ञानं विज्ञानमेव च ।तृचेनान्त्येन सूक्तस्य जगादर्षिरसाविति ॥१३७॥द्यावापृथिव्योरीळेति आग्नेयः पाद उत्तरः ।आश्विनः सूक्तशेषः स्याद इदं रात्र्युषसो स्तुतिः ॥१३८॥इमा रौद्रं परं सौर्यं चित्रं पश्चाश्विनान्यतः ।नासत्याभ्यामिति त्वन्त्ये अन्त्या दुःस्वप्ननाशिनो ॥१३९॥ऐन्द्रं कद्वैश्वदेवं च प्रौषसे पृथुरुत्तरे ।ऋषिर्दानं च भाव्यस्य प्रातरित्यत्र शंसति ॥१४०॥काक्षीवतं कदित्थेति यदैन्द्रमुपदिश्यते ।परोक्षं वैश्वदेवं तत् प्रदिष्टं स्वरसामसु ॥१४१॥अधिगम्य गुरोर्विद्यां गच्छन्स्वनिलयं किल ।कक्षीवानध्वनि श्रान्तः सुष्वापारण्यगोचरः ॥१४२॥तं राजा स्वनयो नाम भावयव्यसुतो व्रजन् ।क्रीडार्थं सानुगोऽपश्यत् सभार्यः सपुरोहितः ॥१४३॥अथैनं रूपसंपन्नं दृष्ट्वा देवसुतोपमम् ।कन्यादाने मतिं चक्रे वर्णगोत्राविरोधतः ॥१४४॥संबोध्यैनं स पप्रच्छ वर्णगोत्रादिकं ततः ।राजन्नाङ्गिरसोऽस्मीति कुमारः प्रत्युवाच तम् ॥१४५॥पुत्रोऽहं दीर्घतमस औचथ्यस्य ऋषेर्नृप ।अथास्मै स ददौ कन्या दशाभरणभूषिताः ॥१४६॥तावतश्च रथाञ्छ्यावान् वीड्वङ्गान्वै चतुर्युजः ।वधूनां वाहनार्थाय धनकुप्यमजाविकम् ॥१४७॥निष्काणां वृषभाणां च शतं शतमदात्पुनः ।एतदुत्तरसूक्तेन शतमित्यादिनोदितम् ॥१४८॥शतमश्वाञ्छतं निष्कान् रथान्दश वधूमतः ।चतुर्युजो गवां चैव सहस्रं षष्ठ्युपाधिकम् ॥१४९॥स्वनयाद्भावयव्याद्यः कक्षीवान्प्रत्यपद्यत ।प्रतिगृह्य च तुष्टाव प्रातः पित्रे शशंस च ॥१५०॥फलप्रदर्शनं तस्य क्रियते प्रायशस्त्विह ।द्वितीयां तु पितापश्यत् सुगुरित्यादिकामृचम् ॥१५१॥काक्षीवतं सर्वमिति भगवानाह शौनकः ।एषा तु दैर्घतमसी सानुलिङ्गा कथं भवेत् ॥१५२॥उच्यते प्रातरित्युक्ते सूनोर्दानेन हर्षितः ।राज्ञश्चाशिषमाहाथ सुगुरित्यादिना किल ॥१५३॥कर्माणि याभिः कथितानि राज्ञांदानानि चोच्चावचमध्यमानि ।नाराशंसीरित्यृचस्ताः प्रतीयाद्याभि स्तुतिर्दाशतयीषु राज्ञाम् ॥१५४॥पञ्चामन्दान्भावयव्यस्य गीता जायापत्योः संप्रवादो द्वृचेन ।संप्रवादं रोमशयेन्द्रराज्ञोर एते ऋचौ मन्यते शाकपूणिः ॥इन्द्रे जायापत्योश्चेतिहासं द्वृचेऽस्मिन्मन्यते शाकटायनः ।प्रादात्सुतां रोमशां नाम नाम्ना बृहस्पतिर्भावयव्याय राज्ञो ॥१५५॥॥ इति बृहद्देवतायां तृतीयोऽध्यायः ॥ N/A References : N/A Last Updated : March 27, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP