अथ योगपादः - कालचक्रविधिपटलः
सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.
अथातः संप्रवक्ष्यामि कालचक्रस्यलक्षणम् ।
कालञ्च कुरुते यस्मात् कालमेवमुदाहृतम् ॥१॥
प्राणीनाञ्चैव देवानां विनाशोत्पत्तिकारणम् ।
अमूर्तिं कालमाख्याता दृष्वादष्टन्तु लक्षणम् ॥२॥
त्रिविधं कालमाख्यातं शिवेन परिभाषितम् ।
सृष्टिकालं स्थितिकालं संहारञ्चेति कीर्तितम् ॥३॥
शिवाद्यवनि पर्यन्तं सृष्टिरेवमुदाहृतम् ।
या स्थितिः सर्वभूतानां शिवाद्यानन्तक स्थितम् ॥४॥
पृथिव्यादि शिवान्ताये लयङ्गच्छेत् परापरम् ।
तदा संहारमेवोक्तं त्रिविधं कालनिर्णयम् ॥५॥
त्रिषुकालेषु वर्तन्तेतीतानां गमं ततः ।
वर्तमानाख्यकं कालमुच्यते वै पृथक् पृथक् ॥६॥
यदा शेषं समाप्तन्तु तदा तीतमिति स्मृतम् ।
सापेक्षकञ्च यत्काले तदा नागतमुच्यते ॥७॥
असमाप्तं यदारब्धं वर्तमानमुदाहृतम् ।
तत्कालमव बोद्धव्यं देवादीनामुदाहृतम् ॥८॥
युगपत् सृष्टि संहारौ स्थितिकाले निवर्तते ।
केचित् कालात् सृजन्त्येव केचित् कालात् भ्रमन्ति च ॥९॥
मनुष्य पितृदेवानां कालसंख्यान्ततः शृणु ।
कालञ्च द्विविधं प्रोक्तं स्थूलं सूक्ष्मन्तथैव च ॥१०॥
मौक्तिकं स्थूलमाख्यातं योगिनां सूक्ष्ममेव च ।
स्थूलञ्च द्विविधंवत्स चंद्रादित्यस्य चारणम् ॥११॥
चंद्रस्य वर्तनाकालोमनुष्याणां प्रकीर्तितम् ।
सूर्यस्य वर्तनाकालो देवानान्तु प्रकीर्तितम् ॥१२॥
कालचक्रे तु वर्तन्ते भास्करादि ग्रहास्थथा ।
द्वादशारयुते चक्रे मेषाद्याराशयोरवेः ॥१३॥
पट्टिकायाञ्च नाभौ च मध्ये वायुः प्रकीर्तिताः ।
मेरुमूर्ध्निगतञ्चक्रं ब्रह्माण्डे संव्यवस्थितम् ॥१४॥
कुलालचक्रवन्नित्यं भ्रामस्तत्रैव देवताः ।
मेरुं प्रदक्षिणं कृत्वा नक्षत्राणि ग्रहाणि च ॥१५॥
सूर्योदयास्तमायान्तमहरेवविदुर्बुधाः ।
अस्तमयादुदयान्तं निशा चैवमुदाहृतम् ॥१६॥
अहर्निशिद्वयोपेतमहोरात्रमिति स्मृतम् ।
दिवाप्रातरहञ्चैव प्रोक्तः पर्यायवाचकाः ॥१७॥
शर्वरीरजनीसायं निशिनक्तन्तु रात्रिकम् ।
हायादि देवतानान्तु पितृणां प्रातरादिकम् ॥१८॥
मनुष्याणामहोरात्रमितिशास्त्रेसु निश्चितम् ।
मनुष्याणां हितार्थाय सर्वसंपत्कराय च ॥१९॥
पूर्वाह्ने चैव मध्याह्ने चापराह्नेर्धयामके ।
तस्मात् सर्वप्रयत्नेन चतुःसन्धिषु पूजयेत् ॥२०॥
यामं प्रतिविशेषेण पूजयेदष्टसन्धिषु ।
यामार्धं सन्धिरित्युक्तमहोरात्रन्तु पूजयेत् ॥२१॥
मनुष्याणां दिनं प्रोक्तं पञ्चपञ्चदशाहकः ।
पक्षद्वयिशुक्लपक्षः कृष्णपक्षस्तथैव च ॥२२॥
एकराशिगतौ यत्र चन्द्रादित्यौ सहैव तु ।
तत्रामावास्याचेत्युक्तं तत्पक्षं शुक्लमुच्यते ॥२३॥
सप्तराशिगतञ्चंद्रं तत्र पूर्णकलामतः ।
पौर्णमासी ततः प्रोक्तः कृष्णः पञ्चदशाहकः ॥२४॥
पक्षद्वयं तथा मासोमासाद्वादशवत्सरम् ।
वर्षञ्चैवाब्द पर्याय वाचकाः परिकीर्तिताः ॥२५॥
शताब्दन्तु मनुष्याणामायुष्यं समुदीरितम् ।
मृगाणां सर्वजातीनां शताब्दायुः प्रकीर्तितम् ॥२६॥
नराणाञ्चैव चायुष्यं शतञ्चैव प्रकीर्तितम् ।
एवमुक्तं मनुष्याणां पितृकालं ततः शृणु ॥२७॥
मनुष्याणामहोरात्रं पितृणां घटिका भवेत् ।
त्रिंशत्घटिमहोरात्रं शुक्लपक्षन्तु वासरम् ॥२८॥
निशिकृष्णं विजानीयात् पितृणां तदहर्न्निशम् ।
पूर्वसन्धिरमावास्या मध्याह्नञ्चाष्टमी भवेत् ॥२९॥
पौर्णमास्यपराह्णन्तु अष्टमीचार्धयामकम् ।
दिवसैर्द्वादशैर्मासं मासैर्द्वादशवत्सरम् ॥३०॥
अमावास्यान्तु या पूजा पितॄणान्तु प्रसादद ।
पितृकालमिदं प्रोक्तं मनुष्याणां हिताय वै ॥३१॥
देवानां वक्ष्यते कालस्तुट्यादि प्रलयान्तकम् ।
तुटिलवनिमेषाश्च काष्ठा चैव कला तथा ॥३२॥
क्षणं मुहूर्तं घटिका सन्धिर्यामस्त्वहर्निशि ।
दिवसः पक्षमासौ च ऋतुस्त्वयनवत्सराः ॥३३॥
युगमन्वन्तरौ कल्पं महाकल्पप्रलयस्तथा ।
तुट्यादिप्रलयान्तञ्च लक्षणं शृणु सांप्रतम् ॥३४॥
स्वस्थान राक्षिकोन्मील उन्मीलन्तु निमेषकम् ।
निमेषस्य चतुर्भागन्तुटीरेवमुदाहृतम् ॥३५॥
तुटिद्वयलवं विद्धि लवद्वयनिमेषकम् ।
निमिषोदश पञ्चैव काष्ठाः सा त्रिंशतिः कला ॥३६॥
कलार्धस्तु क्षणं प्रोक्तं क्षणद्वयं मुहूर्तकम् ।
तदर्द्धं घटिका प्रोक्ता सर्वकार्यन्तया कृतम् ॥३७॥
सत्रिपादत्रिघटिका सन्धिरित्युच्यते बुधैः ।
सन्धिद्वयन्तथायाम चतुर्यामन्दिवा स्मृतम् ॥३८॥
तदहर्मात्र विज्ञेय महोरात्रं दिनं स्मृतम् ।
दिनपञ्चदशः पक्षो मासः पक्षद्वयं तथा ॥३९॥
पूर्वपक्षोपरञ्चैव तौपक्षद्वयमुच्यते ।
मासद्वयं ऋतुः प्रोक्तमयनं वै ऋतुस्त्रयम् ॥४०॥
अयनद्वयमब्दं हि अहोरात्रन्तु दैविकम् ।
देवानान्तु दिवाप्रोक्तं मकरादि ऋतुस्त्रयम् ॥४१॥
ऋतुस्त्रयं कुलीरादि निशि चैवमुदाहृतम् ।
संक्रान्ति विषुवे चैव अयने च प्रकीर्तिताः ॥४२॥
अन्यराशि गते भानौ राशिमध्ये तु संक्रमः ।
तुलामेषगते सूर्ये विषुवे तत्प्रकीर्तितौ ॥४३॥
कुलीरेमकरे प्राप्ते दक्षिणञ्चोत्तरायणम् ।
उत्तरायण संक्रान्तिः पूर्वाह्नमिति कीर्तितम् ॥४४॥
चैत्रे विषु च मध्याह्ने अपराह्ने तु दक्षिणे ।
अश्वयुक् विषुवं प्रोक्तं देवानामर्धरात्रिकम् ॥४५॥
चतुः सन्धिषु तस्माद्वे देवेशेषं प्रपूजयेत् ।
नित्यसन्धिर्मनुष्याणां पितॄणामाससन्धिकम् ॥४६॥
अब्दसन्धिषु देवाश्च पूजयेत् तु यथा विधि ।
इत्थं भूतमहोरात्रं देवानां तु प्रकीर्तितम् ॥४७॥
प्रोक्तमब्द क्रमं ह्येवं युगमानन्तु वक्ष्यते ।
अण्डजाति युगाद्यैव केचित् शास्त्रे प्रकीर्तिताः ॥४८॥
चतुर्युगन्तु शास्त्रे तु शिवेन परिभाषितम् ।
तृतयुगन्तु त्रेता च द्वापरन्तु कलिस्तथा ॥४९॥
कृतश्चतुः सहस्राब्दं सन्धिरष्टशतं भवेत् ।
सन्ध्याशतं तथा ज्ञेयस्त्रेतार्ध पादहीनका ॥५०॥
चतुःशतः सहस्रो वा द्वापरश्चेति कीर्तिताः ।
कलियुगञ्च ऊर्धस्थो वर्धते तु पुनः पुनः ॥५१॥
एतैर्द्वादशसाहस्रैरब्दैरैव चतुर्युगाः ।
सप्तत्येक समावर्त्यामन्वन्तरमिहोच्यते ॥५२॥
अशीति सहस्रैर्वर्षैः पञ्चाशद्विसहस्रकैः ।
दिव्यसंवत्सरेणैव ज्ञेयमन्वन्तरं तथा ॥५३॥
स्वायंभुवमनुः पूर्वं स्वारोचिषमतः परम् ।
उत्तमंरैव तञ्चैव तापसञ्चक्षुषं तथा ॥५४॥
वै वस्वतञ्च सा वर्णमेरु सा वर्णमेव च ।
दक्ष सा वर्णमेवं हि ब्रह्म सा वर्णमेव च ॥५५॥
रुद्र सा वर्णमित्युक्तं रौल्यंभौत्यञ्चतुर्दश ।
इत्येवन्तवसं क्षेपात् मनवः परिकीर्तिताः ॥५६॥
नाभिकल्पन्तु तत्कालं ब्रह्मणोयदि भावयेत् ।
पञ्चैव कालमेवञ्च कल्पं ब्रह्मादि वा भवेत् ॥५७॥
कल्पमेवं समाख्यातं महाकल्पं ततः शृणु ।
त्रयस्त्रिंशच्च देवाद्यास्त्रिशतं त्रिसहस्रकम् ॥५८॥
देवानां लयमित्युक्तं तद्रात्रौ तु प्रकल्पयेत् ।
ब्रह्मणस्तदहोरात्रं तदा चेन्द्रालयं भवेत् ॥५९॥
शतत्रयं षष्टिदिनं ब्रह्मवर्षमुदाहृतम् ।
षष्टित्रिंशच्च चक्राणां लयं तत्र पुनः पुनः ॥६०॥
तेन वत्सरमानेन शताब्दं ब्रह्मणोलयम् ।
यावत्ब्रह्मलयं तावद् विष्णोस्तु तदहर्न्निशि ॥६१॥
ब्रह्मणात्रिशतं षष्टि लयंतत्र पुनः पुनः ।
तेनमानेन बोद्धव्या शताब्दमीश्वरस्य तु ॥६२॥
ईश्वरस्तु लयं यत्तु निमेषं हि सदाशिवे ।
ततो वृद्ध्याशतं वर्षात् सदाशिवलयं स्मृतम् ॥६३॥
बिन्दोर्नादस्य तद्वंशात् लयं तत्रैव चोच्यते ।
नादमूर्तिलयं यावच्छक्ताच्छक्तेर्दिनं तथा ॥६४॥
दिनवृद्ध्याशतं कान्त तावच्छक्ति स्थितः सदा ।
यदा शक्तेर्लयं विद्धि यावत् परदिनं तु यत् ॥६५॥
तत्सङ्ख्यानिशताब्दन्तु परस्यैवलयं भवेत् ।
प्रथमं शक्तिकं शान्तं शिवः पर्यायवाचकः ॥६६॥
परापरस्य तं ज्ञातं विनाशोत्पत्तिकारणम् ।
देवानां कालमित्युक्तं तत्वानां कालमुच्यते ॥६७॥
पृथिव्यादि शिवान्तञ्च सत्वकालं प्रकीर्तितम् ।
ईश्वरस्य लयं यावदात्मनस्तुलयं भवेत् ॥६८॥
सदाशिवलयं यावत् नादान्तं लयमेव च ।
ततः शक्तेर्लयं यावल्लयङ्गच्छेच्छिवान्तकम् ॥६९॥
तत्वानां लयमेवोक्तं सूक्ष्मकालं ततः शृणु ।
श्वासैस्तु त्रुटिभिः प्राणो घटिका प्राणषट्कके ॥७०॥
अहोरात्रं ततः षष्टि घटिकादिर्विशेषतः ।
पूर्ववद्दिनवृद्ध्या तु पक्षादीनि विवर्धयेत् ॥७१॥
सूक्ष्मकालेन योगेन देव ब्रह्मादिकालयः ।
ज्ञानिनां योगिनाञ्चैव सूक्ष्मकालं प्रकीर्तितम् ॥७२॥
कालचक्रमिदं प्रोक्तमाधाराधेयकं शृणु ।
इति कालचक्रविधिपटललो द्वितीयः ॥२॥
N/A
References : N/A
Last Updated : January 08, 2024
TOP