संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ योगपादः| नाडी चक्रविधिपटलः अथ योगपादः नाडी चक्रविधिपटलः कालचक्रविधिपटलः आधाराधेयविधिपटलः अथ योगपादः - नाडी चक्रविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः नाडी चक्रविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि योगपादं समासतः ।तस्यपादस्य पूर्वे तु नाडीचक्रक्रमं शृणु ॥१॥द्विसप्तति सहस्राणि नाडयस्तु प्रकीर्तिताः ।नाडीभिर्व्यावृते देहे जीर्णाश्वत्थस्य पत्रवत् ॥२॥अशीतिश्च चतुश्चैव शतसाहस्रभेदकैः ।शरीरे क्रीडते देवाः स्वेच्छया परमेश्वरम् ॥३॥भूतग्रामैश्चतुर्भिश्च सर्वयोनि समुद्भवम् ।अण्डजं स्वेदजञ्चैव उत्बीजञ्च जरायुजम् ॥४॥अण्डजाताश्चये भावास्त्वण्डजास्ते प्रकीर्तिताः ।स्वेदजाताश्चये भावास्वेदजास्तु प्रकीर्तिताः ॥५॥भूमौ तु तोयबीजाभ्यां मुत्भिदाश्चेति कीर्तिताः ।इल्वयुक्ताश्चये जाताः कीर्तितास्ते जरायुजाः ॥६॥भूतग्रामैश्चतुर्भिश्च नराद्याषड्विधो भवेत् ।नरश्चैव मृगश्चैव पशुः पक्षीतथैव च ॥७॥सरीस्रपः स्थावरश्च षड्विधं योनिसंभवम् ।वाचा वदन्ति यद्वाण्या ते नरास्त्विति कीर्तिताः ॥८॥ऊर्ध्वपुच्छन्तु तद्वृद्धिं मृगं विद्याद्विनायक ।अधोदीर्घाश्च ये पुच्छाः पशुजातिरुदीरिता ॥९॥द्विपक्षाः पक्षिरित्याहु सरतीतिसरीस्रपः ।स्थापितं स्थावरं प्रोक्तं षड्विधं भूतमेव च ॥१०॥अथ्यन्ते योनि भेदानि क्षेत्रं स्यात् भूमिकं शृणु ।पृथिव्यादीनि तत्वानि यत्र तिष्ठन्ति तल्लये ॥११॥लयस्थानं तदाख्यातं तत्वातीतं परात्परम् ।तस्माच्छिन्नं समुत्पन्न तस्माच्छक्तिरजायत ॥१२॥तस्मान्नादिं समुत्पन्नं तस्मात् बिन्दुसमुद्भवम् ।तस्मात् सदाशिवं प्रोक्तं सृष्ट्यर्थं पञ्चधा भवेत् ॥१३॥तस्मादात्मा समुत्पन्नं सहजं मलसंयुतम् ।क्षेत्रज्ञन्तं विजानीयाच्छक्तिस्थन्तु तथोच्यते ॥१४॥तस्मादुपरिवेशस्य शुद्धावस्थोनुकीर्तिताः ।शुभाशुभ वरप्राप्तौ तत्र गच्छन्ति जायते ॥१५॥मायाद्यवनि पर्यन्तं देहबद्धोत्र दृश्यते ।कर्मोदये तु जननं कर्मान्ते मरणं स्मृतम् ॥१६॥सुखदुःखनिमित्ताय शरीरग्रहणं कृतम् ।शरीरं द्विविधं प्रोक्तं पुंसत्व स्त्रीत्वमेव च ॥१७॥लिङ्गेन लांच्छितं पुंस्त्वं स्त्रीत्वं योन्याभिलांच्छितम् ।लिङ्गमीशमयं प्रोक्तं योनिः शक्तिमयं स्मृतम् ॥१८॥तस्माद्वै शिवशक्तिस्तु सर्वमेतत् चराचरम् ।तच्छरीरं द्विधाप्रोक्तं स्थूलं वै सूक्ष्ममेव च ॥१९॥पृथिव्यापस्तथा तेजोवायुराकाशमेव च ।शुक्रं बीजां शमित्युक्तं क्षेत्रांशं श्रोणितं स्मृतम् ॥२०॥अस्थि स्नायुश्चमज्जा च पित्रजंस्त्रयमेव तु ।त्वङ्मांसशोणितञ्चैव मातृजं त्रिकमेव च ॥२१॥इत्थं षट्कौशिकं प्रोक्तं शरीरान्तैस्तु जायते ।नखदन्तश्च रोमाणि केशाश्च नाडयस्तथा ॥२२॥शब्दस्पर्शश्च रूपश्च रसोगन्धश्च पञ्चधा ।एतैर्भूतगणैर्युक्तं स्थूलं शरीरकं भवेत् ॥२३॥शूक्ष्मस्य गोलकां विद्धि तच्छुभाशुभसाधनम् ।जननमरणञ्चैव कर्मणा जायते ततः ॥२४॥एवं स्थूलशरीरञ्च संक्षेपाद्वर्णितं मया ।श्रोत्रं त्वक्चक्षुजिह्वा च घ्राणं बुद्धीन्द्रियं विदुः ॥२५॥वाक्पादपाणि पायुश्चोपस्थं कर्मेन्द्रियं स्मृतम् ।प्राणः समानोदानश्च अपानोव्यान एव च ॥२६॥नागः कूर्मश्चक्रकरो देवदत्तोधनञ्जयः ।मनोबुद्धिरहंकारश्चित्तोन्तः करणं स्मृतम् ॥२७॥मदमात्सर्यमानादि सूक्ष्मशारीरकं भवेत् ।इदं शरीरं लिङ्गं हि तयोर्जन्म ततः शृणु ॥२८॥शुक्लं रक्तेन संभाव्य जनन्याश्चोदरे स्थितम् ।कर्मादौ सकलं ग्राह्यं प्राप्यते सुषिराशयम् ॥२९॥क्षेत्रांशैश्चैव बीजांशैः शरीरव्याव्रतोगतः ।रक्ताधिक्क्यात् स्त्रीप्रजा च शुक्लाधिक्यात् पुमान् भवेत् ॥३०॥यदिशुक्लसमंरक्तं जायते तु नपुंसकम् ।भजने तु यथा बिदुर्वद्धते तु शनैः शनैः ॥३१॥पुन्नागमुकुलाकारं गर्भाशयगतं तथा ।मरणादीनि कर्माणि निमित्तानि वरेण तु ॥३२॥आयुष्यं विभवं कर्मविद्या च निधनं सुखम् ।षट्कं संप्राप्य तत्रैव ततो गर्भाशयं विशन् ॥३३॥गुणाश्चैव त्रिदोषाश्च जन्तूनान्तत्र संभवाः ।सत्वं रजस्तमश्चैव गुणत्रयमिहोच्यते ॥३४॥सत्यं ज्ञानं तपोमौनं स्मृतिर्मेधाधृतिः क्षमा ।उत्साहो निश्चयन्धैर्यमेवं वै सात्विकं गुणम् ॥३५॥दर्पं महदहंकारं विषादं प्रियवाचकम् ।उद्योगंमात्सरं प्रोक्तं रजसंगुणमुच्यते ॥३६॥आलस्यं मोहनिद्राश्च चापलं ही नवृत्तिकम् ।पापिष्ठं परनिन्दा च तामसं गुणलक्षणम् ॥३७॥गुणानान्तु समावस्था मूलप्रकृतिरुच्यते ।संक्षेपात् त्रिगुणं प्रोक्तं त्रिदोषांश्च शृणुष्वमत् ॥३८॥वातं पित्तंकफञ्चैव रोगाणामधिपा स्मृताः ।सर्वजन्तुषु सामान्यं समंवाधिकमेव च ॥३९॥एवमादीनि चान्यानि संविशेत् सुषिराशयम् ।गर्भाशयगते काले वायुनाभिद्यते यथा ॥४०॥तदा रूपद्वयङ्गत्वा वर्धते तु शनैः शनैः ।पञ्चाहे तु दशाहे तु पत्मपत्रस्थतोयवत् ॥४१॥मासान्ते चाक्षफलवद् विमासां मृफलाकृतिः ।त्रिमासेऽष्टाङ्गुलं दीर्घञ्चतुर्मासे शिरोभवेत् ॥४२॥हस्तौ चैव तु पादौ च पञ्चमासे प्रकीर्तितम् ।नखाङ्गुल सपादौ च गुल्भौ च नलकौ तथा ॥४३॥जंघेजानु तथा चोरुकटिस्फिक् जघनं तथा ।स्तनपार्श्वोदरारभ्य कक्षौ वक्षाभुजावुभौ ॥४४॥पादयोर्हस्तयोरेखा ह्यंगुष्ठे नखपर्वगाः ।गलः कर्णौ च जिह्वा च ओष्ठौ दन्ताश्च नासिका ॥४५॥नयनं भ्रूललाटश्च शिरः केशादयस्तथा ।एतान्यङ्गानि सर्वाणि जायते षष्ठमासिके ॥४६॥सप्तमासेन्न पानौ च नाभिनालेन भुज्यते ।प्रसूयते वा तन्मासे वायुना न प्रसूयते ॥४७॥अष्टमासे समुत्थाय वीणादण्डं समाश्रितम् ।संप्राप्याष्टगुणैश्वर्य मणिमादिकमत्र वै ॥४८॥त्रिकालन्तु विजानाति ज्ञानात् सर्वं प्रकाशते ।जायते चाष्टमे मासे जातश्चोत्तमजीवती ॥४९॥जायते नवमे मासे दशमासे तु वा पुनः ।ततस्त्वेकादशे मासे मायया प्रेरितो जनः ॥५०॥बोद्धव्यं शक्तिना काचित् श्रमदाहक्षुधादिकान् ।एवमादीनि वर्द्धन्ते क्रमेणैव शनैः शनैः ॥५१॥तत्र भूत्वान्न वीर्येण वर्धन्ते सप्तधातवः ।अन्नद्रवसमुत्पन्न रसाद्वै श्रोणितं स्मृतम् ॥५२॥श्रोणितान्मांसमुत्पन्नं मांसान्मेदः समुत्भवम् ।मेदसोस्थि समुत्पन्नं तस्मात् मज्जातु संभवम् ॥५३॥मज्जाशुक्लं समुत्पन्न मित्येते सप्तधातवः ।शरीरन्धातुभिः प्राप्तं धातुभिः शब्दराशयः ॥५४॥शब्दादिविषयं ज्ञानं द्विमासोपरिपूर्णके ।पञ्चविंशति तत्त्वानि वक्ष्यते तु समासतः ॥५५॥भूतानि भूतमात्राणि ततो बुद्धिन्द्रियाणि च ।कर्मेन्द्रियाणि विघ्नेश तथान्तः करणानि च ॥५६॥अव्यक्तेन समायुक्तं पञ्चविंशदुदाहृतम् ।पृथिव्यादीनि तत्वानि प्राप्यते त्वखिलान्तनुम् ॥५७॥पृथिव्यापस्तथा तेजोवायुराकाश एव च ।महाभूतानि चोक्तानि तेषां भेदं शृणुष्वहि ॥५८॥यत् कठिनं तत्पृथिवी यद्रव्यं ह्याप उच्यते ।यदुष्णञ्चेत्ततो वह्निर्वायुः सञ्चरति त्विह ॥५९॥अवकाशं यदा काशं महाभूतगणास्विमे ।अस्थित्वक्मांसकेशाश्च नाडयस्त्विह कीर्तिताः ॥६०॥पृथिव्यं शास्तथा ज्ञेयास्त्वाप्यंशाश्च ततः शृणु ।कफः शोणितमूत्राणि मज्जाशुक्लन्तथैव च ॥६१॥द्रव्यांशकमिति ज्ञेयं सर्वप्राणि च संस्थितम् ।क्षुधानिद्रा च कृष्णा च आलस्यं मैधुनं तथा ॥६२॥एते पञ्चगुणा प्रोक्ता तेजोंशा इति संस्थिताः ।आस्ते शेते च गमनं प्रसाराणि निरोधनम् ॥६३॥एते पञ्चगुणा प्रोक्ता वाय्वंशा सुप्रकीर्तिताः ।कामक्रोधञ्च लोभञ्च भयोमोहसथैव च ॥६४॥पञ्चैतेनुगुणा प्रोक्ता व्योमांशास्तु प्रकीर्तिताः ।प्रोक्तं भूतगुणञ्चैवं गुणन्तेषान्तु वक्ष्यते ॥६५॥शब्दस्पर्शञ्चरुपञ्च रसंगन्धञ्च पञ्चधा ।आकाशस्य गुणं शब्दं वायोस्तु स्पर्शनं गुणम् ॥६६॥तेजसस्तु गुणं रूपं रसमापगुणं स्मृतम् ।पृथिव्यास्तु गुणं गन्धं भूमिकादीनि विन्यसेत् ॥६७॥विषयं त्विति विख्यातं भूतानाङ्गुणमुच्यते ।शब्दादिविषयं पुण्यं भूमौ तु विनिवर्द्धते ॥६८॥चतुर्गुणाः प्रवर्धन्ते त्रिगुणस्त्वथ वह्निके ।वायोश्च द्विगुणं प्रोक्तमाकाशस्यैकमेव तु ॥६९॥विषयाणि तथोक्तानि बुद्धिन्द्रियाणि ततः शृणु ।श्रोत्रत्वक्चक्षुजिह्वा च घ्राणं बुद्धिन्द्रियाणि च ॥७०॥शब्दादिविषयाणाञ्च साधनन्ते प्रकीर्तितम् ।बुद्धीन्द्रियाणामेतेषां देवभूतात्मकं शृणु ॥७१॥श्रोत्रमध्यात्ममित्युक्तं श्रोतव्यमधि भूतता ।शिवहस्ताधि दैवन्तु त्वगेवाध्यात्मकं विदुः ॥७२॥स्पर्शनञ्चाधिभूतः स्याद् वायुस्तत्राधिदैवतम् ।चक्षुरध्यात्ममित्युक्तं द्रष्टव्यमधिभूतता ॥७३॥सूर्यस्तत्राधिदैवत्य जिह्वाचाध्यात्मकं विदुः ।रसज्ञात्वधिभूतन्तु वरुणश्चाधिदेवता ॥७४॥घ्राणमध्यात्ममित्युक्तं घ्रातव्यमधि भूतता ।बृहस्पत्यधिदैवञ्च प्रातः शक्तिरिति स्मृतम् ॥७५॥बुद्धीन्द्रियाणि चोक्तानि शृणु कर्मेन्द्रियाणि च ।वागध्यात्मकमित्युक्तं वक्तव्यमधि भूतता ॥७६॥सरस्वत्यधिदैवत्यं वाणिरध्यात्मकं ततः ।दातव्यमधिभूतश्च शक्रस्तत्राधिदेवता ॥७७॥पादमध्यात्मकं प्रोक्तं गमनञ्चाधि भूतता ।शक्राधिदैवतं प्रोक्तं वायुरध्यात्मकं विदुः ॥७८॥उपस्थोध्यात्ममित्युक्तमानन्दमधिभूतता ॥७९॥प्राजापत्याधिदैवत्यं क्रियाशक्तिरिति स्मृता ।कर्मेन्द्रियाणि चोक्तानि ततोन्त करणं शृणु ॥८०॥मनोहङ्कारबुद्धि च चित्तोन्तः करणं विदुः ।मनोध्यात्ममिति प्रोक्तमन्तव्यमधिभूतता ॥८१॥सोमाधि दैवमित्युक्तो हङ्कारोध्यात्मकं विदुः ।अधिभूतमहंकारं रुद्रमूर्त्यधिदैवतम् ॥८२॥बुद्धिरध्यात्ममित्युक्तं बोद्धव्यमधिभूतता ।क्षेत्रज्ञस्याधिदैवं स्याच्चित्तमध्यात्मकं स्मृतम् ॥८३॥चैतन्यमधिभूतं हि ईश्वरश्चाधिदैवतम् ।मन्यते तंमनो ज्ञात्वा अहङ्कारमहंकृतम् ॥८४॥बोद्ध्यत्वात् बुद्धिरेवं हि चिन्तत्वाच्चित्तमुच्यते ।मनश्च द्विविधं प्रोक्तं चलाचलमिति स्मृतम् ॥८५॥अहङ्कारं त्रिधाज्ञेयं भूतवैकारि तेजसम् ।वक्ष्यते तु समासेन भूतसारसमुद्भवम् ॥८६॥शब्दतन्मात्रमादौ तु गन्धतनात्रमर्थके ।एतानि पञ्चमात्राणि भूतानां सृष्टिरुच्यते ॥८७॥स्यात्तैजस अहंकारे इन्द्रियाणि समुद्भवम् ।वैकारिकमहङ्कारे इन्द्रियाणि समुद्भवम् ॥८८॥वैकारिकमहंकारे अधिदेवाः समुद्भवम् ।बुद्धिरष्टविधा ज्ञेया धर्माधर्मादिरष्टधा ॥८९॥चित्तमेक विधं ज्ञेयं तच्चान्तः करणं विदुः ।चतुर्भिरन्तः करणैश्चतुर्विंशतिरुच्यते ॥९०॥उपादानन्तु तेषां वै चाव्यकमिति निन्दितम् ।अव्यक्तस्य तु धर्मः स्यात् त्रिगुणं संप्रकीर्तितम् ॥९१॥तामसं राजसञ्चैव सात्विकञ्च तृतीयकम् ।तामसेयान्ति नरकं राजसे स्वर्गमुच्यते ॥९२॥सात्विके मोक्षमित्युक्तं तस्मात् सात्विकमुच्यते ।सात्विके सर्वकर्माणि एक चित्तस्तु सात्विकम् ॥९३॥तस्मात् सर्वप्रयत्नेन सात्विकङ्गुणमाश्रये ।पञ्चविंशति तत्वानि समासात् कीर्तितानि तु ॥९४॥तेभ्य एकादशं तत्वं समासात् च्छृणु सांप्रतम् ।पुंरागोनियती विद्याकलाकलस्तथैव च ॥९५॥शुद्धविद्याशुद्धकला शुद्धमायान्तथैव च ।आत्मतत्वञ्च विद्याञ्च शिवतत्वमतः परम् ॥९६॥एकादशानि तत्वानि शरीरे संस्थितानि तु ।कञ्चुकत्रयमाविश्य शनैः कालेन वित्तमः ॥९७॥आलिंग्यते नियतिना आत्मवद्भाववर्तकः ।प्रकृतिः पौरुषं यस्मान् तस्मात् पुरुष उच्यते ॥९८॥बालार्कशतसाहस्र भागैकं तत्र चिद्विदुः ।सञ्जिव इति विख्यातः संसारी चेति चोच्यते ॥९९॥प्रधानादि विशेषान्तं व्यापं वै परिशक्तिना ।कलाशक्तिरितिख्याता चानमु?क्तैस्तु कारणा ॥१००॥धर्माधर्माधिसंबन्धा दाणवं सहजं स्मृतम् ।इत्येवमादि संबन्धाच्छरिरेषु व्यवस्थिताः ॥१०१॥संबन्धास्तस्य जीवस्य दुःखत्रयमिहोच्यते ।आध्यात्ममधिभूतञ्च अधिदैविकमेव च ॥१०२॥त्रिविधं दुःखमाप्नोति तेषामाध्यात्मकं शृणु ।आध्यात्मकं द्विधाप्रोक्ता शरीरं मानसं तथा ॥१०३॥गुल्मारशोति सारञ्च ज्वरशूलाद्यनेकधा ।नरमृगपिशाचैश्च गोपक्षीचोरराक्षसैः ॥१०४॥प्रोक्तं शरीरकं दुःखं मानसं शृणु सुव्रत ।शोकासूयावमानेर्ष्या मासाध्यादिभिरेव च ॥१०५॥एवं मानसमाख्यातमाधिभौतिकमुच्यते ।शीतोष्णवातवर्षैश्च विद्युदाशनिमारुते ॥१०६॥एतैर्भूतैस्तु जन्दुःखमाधिदैविकमुच्यते ।गर्भजन्मजरा ज्ञानमृत्युर्नरकजं तथा ॥१०७॥प्रोक्तं दुःखत्रयं ह्येवमेषु स्थानेषु भूज्यते ।ततोदराग्निना गर्भे मातृशीलेन बाध्यते ॥१०८॥गर्भात् कोटिगुणं दुःखं योनि यंत्रे प्रपिडनम् ।एवमादीनिदुःखानि शरीरीभुज्यते क्रमात् ॥१०९॥जाग्रत् स्वप्नं सुषुप्तिश्च तुर्यावस्था ततः शृणु ।इन्द्रियाणि गताबुद्धिः कृत्वा कर्माण्य शेषतः ॥११०॥करणी यानि सर्वाणि दृश्यन्ते जाग्रदेव तु ।करणानि चेंद्रियाणि बध्वावै वाश्रयं भवेत् ॥१११॥निद्रामाश्रयते बुद्धिर्मन्यते पूर्वकर्मकम् ।एवं स्वप्नं विजानीयात् सुषिपिञ्च ततः शृणु ॥११२॥करणानि गृहीत्वा तु बुद्धिश्चैतन्यमागता ।तदाश्रये तु काले तु कर्माण्य प्रतिबुद्ध्यति ॥११३॥सुषिप्तिरिति विख्याता तुरीयं करणं विना ।जाग्रोमुखगतो जीवस्वप्ने कर्णं समाश्रितः ॥११४॥सुषुप्तौ हृदमाश्रित्य तुर्ये सर्वगत स्मृतः ।एवं व्यवस्थितो देहे नाडयश्च तत शृणु ॥११५॥नाभिमूलन्तु हृन्नाल नाडयश्चक्रवत् तथा ।तिर्यगूर्ध्वमधश्चैव व्याप्तितातैस्तु सर्वतः ॥११६॥चक्रवत्संस्थिता ह्येताः प्रधानश्चाष्टविंशतिः ।तेषु प्रधानभूतास्तु इडादिदशनाडयः ॥११७॥इडयाविमाशोषा पृथिवी आपनी तथा ।तेजोवती वायुवी च गमनीमर्दनी तथा ॥११८॥रोदनीरक्तवागि च मृद्वंगी श्रिंगिणी तथा ।शब्दा स्पर्शा च पूर्णा च सद्रूपारसधारिणी ॥११९॥सर्वाङ्गेषु स्थिता ह्येता प्रधानाश्चाष्ट विंशतिः ।तासुनाडीषु चान्तस्थाः प्राणादि दशवायवः ॥१२०॥प्राणापानस्तथाव्यान उदानश्च समानकः ।नागकूर्माश्चक्रकरो देवदत्तोधनञ्जयः ॥१२१॥दशप्राणा इति प्रोक्ता वायवः समुदहृताः ।वायूनान्तु नवानाञ्च प्रभुः प्राणप्रकीर्तिताः ॥१२२॥निश्वासोछ्वासकासैश्च प्राणीनामुदरे स्थिताः ।इन्द्र निलप्रतिकाशप्राणरूपसुकीर्तिताः ॥१२३॥नादसंयुक्त जीवान्त जीवमाश्रित्य नित्यशः ।स्थान हृन्नाभिनासाग्रं पादाङ्गुष्ठान्तमाश्रितः ॥१२४॥अपान पृष्ठमाश्रित्य वामदक्षिणनिर्गमम् ।प्राणस्य लक्षणं प्रोक्तमपानञ्च ततः शृणु ॥१२५॥अपानो जीवमाश्रित्य तद्वर्णञ्चैंद्रकोपवत् ।स्थानन्तु मेढ्रमुले तु गुदमूलन्तु निर्गमम् ॥१२६॥नाभेरधस्तात् स्थानन्तु मेढ्रमूले तु निर्गमम् ।पुरीषोत् सर्गमात्रादि प्राणापानाश्च निर्गमम् ॥१२७॥प्राणापानोपहे नित्यं शरीराख्यं महारथम् ।दीपान्तस्थ प्रभु प्राणोरक्षाङ्कृत्वा महामनुम् ॥१२८॥व्यानं सकलमाश्रित्य स्पर्शादीनी प्रबोधकः ।गोक्षीरसमवर्णं स्यात् स्थानं सर्वाङ्गसन्धिषु ॥१२९॥उदानच्छक्तिरोगाणामुद्भवन्तत्र कारयेत् ।विद्युत्पावक सङ्काशान्तस्य वर्णं प्रकीर्तितम् ॥१३०॥स्थानं पार्श्वौ च कर्णौ च चक्षुषोर्घ्राणयोस्तथा ।समान वायोर्वर्णन्तु अतसी कुसुमप्रभम् ॥१३१॥स्कन्धे मूर्धनि जिह्वाश्च जंघयोर्गुल्भयोस्तथा ।अन्नपानरसन्नित्वा चा पादतलमस्तकम् ॥१३२॥अशेषानन्नपानादीन्वैश्विनराग्नि संयुतम् ।तत्रा शयाख्य कुण्डे तु हुतं तत्रैव कारयेत् ॥१३३॥तत्र नागसुवर्णन्तु मार्ताण्डोदय सन्निभम् ।हित्काञ्चरोमहर्षादिन् गेयभक्तिञ्च कारयेत् ॥१३४॥उदयञ्च ललाटञ्च स्थानन्नासादि चासनम् ।कुन्दपुष्पसमाकारं कूर्मवायोः प्रकीर्तितम् ॥१३५॥नेत्रपक्षौ तु संप्राप्य निमीलोन्मीलनङ्कुरु ।कृकरस्य तु वर्णं स्यात् भिन्नाञ्जनसमप्रभम् ॥१३६॥क्षुधादिकुरुते नित्यं नासाग्रे तु व्यवस्थितम् ।देवदत्तस्य वर्णं स्यात् शुद्धस्फटिक सप्रभम् ॥१३७॥मुखं पृष्ठञ्च पादञ्च पार्श्वञ्चैव विशेषतः ।उत्थाप्यशयनासीनं विज्रंभणमतः परम् ॥१३८॥धनञ्जयस्य वर्णस्यां नीलाञ्जनसमप्रभम् ।धनञ्जयस्थितो देहममृतस्यापिमुञ्चति ॥१३९॥पश्चात् तु ब्राह्मणं कृत्वा शरीरं भिद्यते गतः ।इत्येते दशवायूनां प्राणादीनां प्रचक्षते ॥१४०॥इडादिनाडयस्तत्र शरीरेव्या प्रतस्तथा ।नाडीमध्ये ततो वायुः सञ्चरेत् क्रमशस्तथा ॥१४१॥कुण्डल्याख्या महानाडी नाभिमध्ये प्रकीर्तिताः ।अष्टवर्तुलमेवन्तु कुण्डलीनाडिसुप्तवत् ॥१४२॥नाभेरूर्ध्वं भवेत् पद्मं तटाकाब्जं तु पुष्पवत् ।तस्य मध्ये स्थितो जीवः सूर्यकोटिसमप्रभः ॥१४३॥तस्यान्तस्थं समाख्यातं सूर्यसोमाग्निकुण्डलम् ।तेषां मध्ये स्थितो देवः सूर्यायुतसमप्रभम् ॥१४४॥वामपार्श्वे इडानाडी पिंगलादक्षनाडिका ।सुषुम्ना मध्यमे चैव यावदङ्गुष्ठकान्तका ॥१४५॥गान्धारी दक्षिणे नेत्रे हस्ति जिह्वा च वामके ।पूषा वै दक्षिणे कर्णे वामकर्णे यशस्विनी ॥१४६॥अलंपुष्पन्तु मेडुन्तु कुहूश्चैव गुदे स्थिता ।शखिनी नासिमध्ये तु दशनाडी ह्यवस्थिता ॥१४७॥अशेषानाडयः सर्वाश्चक्रवद् व्यावृतस्तनुम् ।चक्रवद् वा वृतोयस्मान् नाडीचक्रमिहोच्यते ॥१४८॥नाडीचक्रमिदं प्रोक्तं कालचक्रमथ शृणु॥इति नाडीचक्रविधिपटलः प्रथमः ॥१॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP