संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|ब्रह्मसूत्रम् अनुभाष्यम्|तृतीयोध्यायः| द्वितीयः पादः तृतीयोध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः तृतीयोध्यायः - द्वितीयः पादः ब्रह्मसूत्रम् अनुभाष्यम् Tags : anu bhashyambrahma sutramsanskritअनु भाष्यब्रह्म सूत्रसंस्कृत द्वितीयः पादः Translation - भाषांतर पश्चाददृष्टयविज्ञानकालदुःखपृथग्भवाः ।स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतोभवः ॥१॥गुणसाम्यमयोगश्च तर्कबाधो विलोमता ।नानाभावः प्रलोभश्च पूर्वपक्षगाः ॥२॥अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च ।अमानकॢप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥३॥विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥४॥वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥५॥त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिः सदातनम् ।तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥६॥सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥७॥संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् ।स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्त्वमेव हि ॥८॥अदृष्टे चाश्रुते भावे न भाव उपजायते ।अदृष्टादश्रुताद्भावान्न भाव उपजायते ॥९॥इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते ।कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ॥१०॥दृष्टं समानाधिकरणं दृश्यते च स च भ्रमः ।वासनामात्रमूलत्वाज्जाग्रद्वत्स्पष्टता न च ॥११॥भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते ।द्रष्टुः स्वप्नस्य दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ॥१२॥प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ।सिद्धार्थता च वैफल्यं न तैः स्यात्तत्त्वनिर्णयः ॥१३॥तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः ।उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् ॥१४॥विजिगीषुकथायां तु कथावसितिकारणम् ।परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः ।प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधका ॥१५॥आश्रयव्याश्रयासिद्धी साध्यसिद्धिश्च दूषणम् ।केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन ॥१६॥दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने ।यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने ॥१७॥प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ।न्यायाभासा अमूलाः स्युर्न्यायस्यान्यस्य तौ पुनः ॥१८॥अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।ज्ञायते साक्षिणैवाद्वा मानबाधे न तद्भवेत् ॥१९॥यत्साक्षिणैव मानत्वं मानानामवसीयते ।अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत् ॥२०॥उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।व्यभिचार्यपवादेन मानमेव भविष्यति ॥२१॥अतो हि भोजनादीनामिष्टसाधनतानुमा ।मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च ॥२२॥व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ।रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधका ॥२३॥अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा ।असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ॥२४॥व्याप्तिश्च व्यतिरेकेण तत्र तैश्चैव गम्यते ।अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ।लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते ॥२५॥साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ।यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा ॥२६॥यत्र नातिप्रसङ्गोऽस्ति मानं न च विपर्यते ।क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ॥२७॥परिशेषो मिथःसिद्धिः चक्रकस्वाश्रयादयः ।असिद्धसाधकत्वेन पञ्चावयवतां विना ।अङ्गीकार्याः समस्तैस्तन्नियमः किंनिबन्धनः ॥२८॥सिद्दसाधनतायां च न कथावसितिर्भवेत् ।व्यभिचारो हेत्वसिद्धिरेकपक्षेऽपि दूषणम् ॥२९॥साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे ।वैयथ्यर्मेकासिद्धौ च विशिष्टासिद्धिरेव हि ॥३०॥अप्रयोजकता तत्र प्रथमप्रश्नदूषणम् ।सिद्धप्रश्नादिकं यत्तदाधिक्यान्तगर्तं भवेत् ॥३१॥अर्थापत्त्युपमाभावा अनुमान्तर्गताः क्वचित् ।प्रत्यक्षान्तर्गतोऽभावः सुखादेर्नियमेन च ॥३२॥अन्यत्र खडिति प्राप्तः प्रारम्भाद्याश्च युक्तयः ।आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः ॥३३॥वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ।कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वचः ॥३४॥स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् ।स्वन्यायैर्दूषणंच स्यात्साधितैः प्रतिवादिनः ॥३५॥प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ।छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ।जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम् ॥३६॥एवं संशोधितन्यायसदागमविरोधतः ।नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि ॥३७॥विलक्षणं सदसतोरिति हि व्याहतं स्वतः ।प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत् ॥३८॥मिथ्या चेत्प्रतियोगित्वं वैलक्षण्यं ततो न हि ।अविलक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः ॥३९॥अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन ।ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः ॥४०॥इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ।इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता ॥४१॥इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोऽखिलाः ।अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः ॥४२॥यदि स्युस्तादृशा धर्माः सर्वज्ञत्वादयो न किम् ।अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा ॥४३॥देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ।सर्वधर्मोज्ज्ञितस्यास्य किं शास्त्रेणाधिगम्यते ॥४४॥मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ।अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् ॥४५॥न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ।वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् ॥४६॥धर्मारोपोऽपि सामान्यधर्मादीनां हि दशर्ने ।इदन्तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि ॥४७॥सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ।तदर्थं यदि धर्माणामारोपः सानवस्थितिः ॥४८॥ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ।भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यतेऽत्र हि ॥४९॥तन्मात्रस्यान्यथा भावात्किं न स्याद्विश्वसत्यता ।येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा ॥५०॥भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि ।भवेयुर्भ्रान्तयो नृणां नैवेशादेः कथञ्चन ॥५१॥सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते ।प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः ॥५२॥साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ।साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि ॥५३॥तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ।ऐक्यागमस्य किं न स्यात्तस्याप्येतादृशं यदि ।ऐक्यप्रामाण्यमिथ्यात्वं यदा विश्वस्य सत्यता ॥५४॥ऐक्यागमस्य मानत्वं यद्यबाध्यमितीष्यते ।अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ॥५५॥अद्वैतहानिसामान्यान्न विशेषश्च कश्चन ।यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ॥५६॥प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ।कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः ॥५७॥मिथ्यात्वमानं मोक्षेऽपि मानं किं नेति भण्यताम् ।मानत्वेऽद्वैतहानिः स्यादमानत्वेऽप्यमोक्षता ॥५८॥विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा ।अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिरतोऽन्यथा ॥५९॥अमुक्तत्वं तथा काले कालाधीना हि मुक्तता ।काल एवागमोऽप्याह मुक्तिं कालनिवर्तने ।मुक्तेरपि निवृत्तिः स्यात्संसारित्वमतो भवेत् ॥६०॥क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ।देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् ।मम देह इति ह्येव न देहोऽहमिति प्रमा ॥६१॥उपचारश्च कृष्णोऽहमिति कर्दमलेपने ।वस्त्रस्य यद्वदेवं स्याद्यद्युपाधिकृतं तदा ।स्वतः शुक्लत्ववत्कार्ष्ण्यं न ममेति प्रतीयते ॥६२॥कथं च भेदो देहादेरात्मनो न प्रमीयते ।जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः ।भयाभयस्वभोगादौ कारणानि विजानते ॥६३॥अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥६४॥यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ॥६५॥भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वाविविक्तवत् ।भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ॥६६॥अर्थान् यथानुभवतः प्रतिपादयितुं क्षमाः ।लोकास्ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ॥६७॥शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् ।कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ॥६८॥आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।विशेषं गमयेदेव कथं शक्तिग्रहोऽन्यथा ॥६९॥अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् ।विशेषं ज्ञापयेद्वाक्यं न तदज्ञातशक्तिके ॥७०॥शक्तिश्चेद्वर्तमाने स्यान्नातीतानागतं वदेत् ।यदि शक्तिग्रहोऽन्यत्र कथं स स्यात्तदग्रहे ॥७१॥सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ।सामान्यवर्जितं वस्तुस्वरूपं गमयेत्कथम् ॥७२॥न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् ।स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ॥७३॥सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ।स्यादुत्तरं ततोऽन्यच्चेत्तदेव स्वयमेव नः ॥७४॥एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवेत् ।तस्य सामान्यतो ज्ञानं विना स च भवेत्कुतः ॥७५॥अतो विशेषसामान्यरूपं सर्वमपीष्यते ।व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ॥७६॥नचैकधर्मता तेन पदार्थानां परस्परम् ।धर्माणां भेददृष्टयैव तत्सादृश्यस्य दर्शनात् ॥७७॥अतः सर्वपदार्थाश्च सामान्यात्साक्षिगोचराः ।सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ॥७८॥किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः ।शब्दशक्तिग्रहश्च स्यात्तत्तत्सादृश्यमानतः ॥७९॥प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ।तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ॥८०॥आधिक्यमनुभूतात्तु यदातीतत्वमिष्यते ।मानता च कथं न स्यात्स्मृतेर्बाधश्च नात्रहि ॥८१॥मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ।अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ॥८२॥न च सा स्मृतिमात्रार्धा तदिदन्त्वग्रहैकतः ।अतो न वतर्मानैकनियमः स्याद्ग्रहेऽक्षजे ॥८३॥न च प्रमाणतोऽन्या स्यात्प्रमितिर्नाम कुत्रचित् ।मानाभावाद्गौरवाच्च कल्पनायाः किमेतया ॥८४॥मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ।ज्ञानमेव ततोऽन्या न प्रमितिर्नाम दृश्यते ॥८५॥मानामातृप्रमेयाणां तदुच्छित्तिर्नहि क्वचित् ।स्वप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् ॥८६॥जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ।अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च ॥८७॥आत्मवत्क्वचिदात्मा च स्यादेव भ्रमगोचरः ।एतावता न मिथ्यासौ स्वप्ने जागरिते तथा ॥८८॥यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ।अबाधितानुवृत्तेस्तु स्वप्नादेर्भ्रान्तता कुतः ॥८९॥न च काचित्प्रमा विश्वभ्रान्तत्वे सर्वमेव च ।अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् ॥९०॥किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ।अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता ।वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति ॥९१॥भ्रान्तित्वभ्रान्तता चेत्स्यात्कथं नाभ्रान्तिसत्यता ।अशेषदोषदुष्यं तन्मतं हेयं बुभूषिभिः ॥९२॥येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।भ्रान्तित्वाद्दुर्घटत्वस्य भूषणत्वाच्च केवलम् ॥९३॥उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति ।ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम् ॥९४॥अतः प्रज्ञात्र मायोक्ता जैव्युपादानमेव सा ।निमित्तमैश्वरी मुख्यं निर्मितं त्रातमेव च ॥९५॥ताभ्यां सह पृथक्चैव मायामात्रमितीर्यते ।उभाभ्यां मातमैश्वर्या त्रातं सह पृथक्ततः ॥९६॥प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः ।धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ॥९७॥चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ॥९८॥मनोविकारा विषयाः स्वाप्ना यद्बह्यवन्न ते ।स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ॥९९॥क्वचित्स्पष्टा अपि स्युष्ये वासना मानसी च सा ।ईशेच्छयान्तर्दधाति व्यज्यते च पुनस्तया ॥१००॥सृष्ट्वैव वासानभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः ॥१०१॥सुषुप्तिमोहबोधांश्च स्ववशस्तद्वशं सदा ।जीवं नयति देवेशो नान्यः कर्तास्य कश्चन ॥१०२॥न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः ।सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः ॥१०३॥तद्विरुद्धं तु यत्तत्र मानं नैव भवेत्क्वचित् ।महातात्पर्यरोधेन कथं तन्मानमत्र तु ॥१०४॥दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।भवेन्मानं तदीशानात्प्रसन्नादेव नान्यथा ॥१०५॥प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।निर्दोषतापरिज्ञानादपि नान्येन केनचित् ॥१०६॥यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् ।जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं नचान्यथा ॥१०७॥यो मामशेषाभ्यधिकं विजानाति स एव माम् ।विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ॥१०८॥यो मामेवमसम्मूढः किं मा निन्दन्ति शत्रवः ।इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ॥१०९॥लोकतश्च प्रसादेन मुक्तिः स गुणवेदनात् ।महातात्पर्यमुख्यस्य विरोधादत एव हि ॥११०॥दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन ।नार्थः श्रुतिपुराणादेस्तद्विरुद्धोऽखिलस्य च ।अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् ॥१११॥इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥११२॥इत्यतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा ।वर्तते तत्र तेनेशो निर्णीतोऽखिलसद्गुणः ॥११३॥न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।यत आभासतामेव श्रुतिरस्य वदत्यलम् ॥११४॥यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ।छाया यथा पुंसदृशा पुमाधीना च दृश्यते ।एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः ॥११५॥सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते ।आभास एव पुरुषा मुक्ताश्च परमात्मनः ॥११६॥छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ ।तस्येन्द्रकामौ च तयोस्तयोरन्येऽखिला अपि ॥११७॥हरेर्ब्रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः ।मारश्चाभासकाः सर्व एतयोस्तदधीनतः ॥११८॥सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।चेतनत्वेऽपि भिन्नास्ते तस्मादेतेन सर्वदा ।इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि ॥११९॥आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ।तन्न युक्तं यदाभास उपाध्यायत्त ईयते ॥१२०॥उपाध्यायत्तताभावादाभासत्वविरोधतः ।चेतनत्वेन चांशत्वात्समुदायैक्यमापतेत् ॥१२१॥अतः पृथक्तवमुदितं समुदायांशयोर्भवेत् ।ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता ॥१२२॥अतो देहाद्युपाधीनामपाये समता भवेत् ।ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत् ॥१२३॥यदा तदोपाध्यायत्तरूपाणां नाशिता भवेत् ।इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।अत एवोपमेत्येव चान्याभासविशेषिताम् ॥१२४॥यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।जीवस्य सदृशत्वं च चित्त्वमात्रं नचापरम् ॥१२५॥तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ।नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने ॥१२६॥किञ्चित्सुखादिसादृश्यमपीशेनेसुरानृते ।तत आभासते नित्यं तद्वदाभासतेऽपि च ॥१२७॥भानमस्तित्वमपिचैवासमन्ताद्यतस्ततः ।जीव आभास उद्दिष्टः सदैव परमात्मनः ॥१२८॥न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः ।तदधीनत्वमेवेति किञ्चित्सादृश्यमेव च ।सम्प्रकाशयतः सूत्रगतावखिलमानतः ॥१२९॥जीवेशभेददृष्टयैव समुदायैकता कुतः ।अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः ॥१३०॥सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा ।अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान् कथम् ॥१३१॥अनुसन्धानरहितमैक्यं चेदेकता न तत् ।चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम् ॥१३२॥अनुसन्धानरहितसमुदायैक्यमेव चेत् ।चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः ॥१३३॥मुक्तौ स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् ।सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः ॥१३४॥पश्चात्स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् ।विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत् ॥१३५॥असदैक्यं भवेत्पश्चाद्यदि स्यात्सप्तमो रसः ।समुदायैक्यमेतस्माद्दूरतोऽपाकृतं सदा ॥१३६॥अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ।तावदेवेश्वरो नाम तत्र भेदोऽपि न क्वचित् ॥१३७॥नेह नानास्ति किमपि हरयोऽयमयं हि सः ।इत्यादिश्रुतिमानेन जीवांशाः सर्व एव च ॥१३८॥नियमेनानुसन्धानवन्तो यद्येकता स्वतः ।अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ॥१३९॥भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ॥१४०॥ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ।सेशतानुपपन्नैव यदि जीवैकतास्य हि ।अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ॥१४१॥ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः ।अनीशत्वेन विज्ञातमीशत्वेनाथवा दिशेत् ॥१४२॥उपजीव्यविरोधेन नैव मानत्वमेष्यति ।अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ॥१४३॥ईशत्वेऽनीशभेदेन श्रुत्या सम्यक्प्रकाशिते ।अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ॥१४४॥अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते ।श्रुत्याभासाप्तमपि नहीशत्वपरिपन्थि यत् ॥१४५॥ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि ।इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ॥१४६॥इति हि ब्रह्मतर्कोक्तिरतिहेयमतोऽखिलैः ।बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ॥१४७॥नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् ।यदीशित्वविरोधि स्यात्तदेवायुक्तमञ्जसा ॥१४८॥ईशित्वस्याविरोधेन योजयित्वाखिलाः प्रमाः ।सिद्धेशित्वेन चायुक्तमपि हीशे न योजयेत् ॥१४९॥मानतः प्राप्तमखिलं नामानं योजयेत्क्वचित् ।इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम् ॥१५०॥स चाप्राकृतरूपत्वादरूपः स्वगुणशत्मकम् ।रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ॥१५१॥अतो नानित्यता नैव श्रुतिद्वयविरोधिता ।यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि ।आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ॥१५२॥तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ।ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ॥१५३॥प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ।नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया ॥१५४॥तस्माद्भिन्नश्च सततमन्यज्ज्ञानं परस्य च ।अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता ॥१५५॥मुख्येशता परेशस्य गौणी जीवस्य सा यतः ।इति श्रुतेः सृष्टिनाशौ तदधीनावितीरिते ।स्वभावत्वात्स्थितेर्नैतदपेक्षेति न युज्यते ॥१५६॥यतः स्वभावोऽखिल ईशायत्तोऽखिलस्य च ।अव्यक्तोऽपि स्वक्तयैव भक्तानां दृश्यते हरिः ॥१५७॥तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥१५८॥विशेषात्मतया तेषां नित्यशक्तयात्मना तथा ।नित्यस्थितेर्न धर्माणां क्रियादीनामनित्यता ॥१५९॥न विशेषात्मता चेयमनित्या शक्तिरूपता ।सैव यत्सविशेषा स्याद्विशेषोऽन्यो नचाप्ययम् ॥१६०॥स्वनिर्वाहकताहेतोस्तथापि स्याद्विशेषतः ।विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ॥१६१॥ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।श्रुत्यैव स स एवेति तदभेदश्च गम्यते ॥१६२॥भेदो यदि विशेषस्य स भेदो भेदिना कथम् ।भिन्नश्चेदनवस्था स्यादभिन्नश्चेत्पुरा न किम् ॥१६३॥विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते ।अभिन्नो निविर्शेषश्चेद्भेदस्तद्भेदता कुतः ॥१६४॥अनेनानेन भिन्नोऽयमिति यत्स विशेषतः ।भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ॥१६५॥अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिना ।तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः ॥१६६॥अभेदभेदशब्दौ च पर्यायाविति को वदेत् ।भेदोऽन्योन्यमभेदश्च भेदिना चेद्विशेषता ॥१६७॥निर्विशेषे कथं भेदो भेदिनैकस्तथाभिदा ।पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ॥१६८॥भेदिनश्चैव भेदस्य विशेषो यदि गम्यते ।अभेदाभेदिनोश्चैव किं भेदोऽभेदभेदयोः ॥१६९॥विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् ।कल्पनागौरवायैव किं भेदः कल्प्यते तदा ॥१७०॥ऐक्यप्रतीत्यभावेन भेद एव गवश्वयोः ।स एवेति प्रतीतौ हि विशेषो नाम भण्यते ॥१७१॥सच्चिदादेरपर्यायसिद्धयर्थं मायिनापि हि ।अङ्गीकार्यो विशेषोऽयं यद्यसत्यविशेषणम् ।पृथक्पृथग्वारयितुं शब्दान्तरमितीष्यते ॥१७२॥मायाविशेषराहित्यविशेषेण विशेषिता ।सत्यस्यापि भवेत्सा च तथा चेदनवस्थितिः ॥१७३॥यदि सत्ये विशेषो न न तदुक्तिर्भवेत्तदा ।लक्ष्यते चेत्तेन लक्ष्यमित्यपि स्याद्विशेषिता ॥१७४॥पुनःपुनर्लक्षणायामपि स्यादनवस्थितिः ।यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते ॥१७५॥असार्वज्ञ्यादिराहित्यमप्येवं ते भविष्यति ।तदा सार्वज्ञ्यमेव स्याद्भावार्थत्वान्नञोर्द्वयोः ॥१७६॥यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात् ।असत्त्वज्ञानतादेश्च स्यादसत्त्वादिकं तदा ॥१७७॥अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ।अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते ॥१७८॥अखण्डखण्डनादेवं विशेषोऽखण्डवादिना ।खण्डितेनापि मनसा स्वीकार्योऽनन्यथागतेः ॥१७९॥अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् ।महादरेण शिरसि विशेषो धार्य एव हि ॥१८०॥निदर्शनत्रयेणातो भगवानत्यभिन्नताम् ।गुणानामादरेणाह तच्च नाभिहितान्वयः ॥१८१॥यदाशेषविशेषाणमुक्तिः सामान्यतो भवेत् ।पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् ॥१८२॥यतोऽशेषविशेषाणां वस्तुनास्त्येव चैकता ।अतः सामान्यतो ज्ञातः पदान्तरबलात्पुनः ।भवेद्विशेषतो ज्ञानस्तेन स्यादन्वितोक्तिता ॥१८३॥स्वार्थ एवान्वितो यस्मात्केनचित्तद्विशेषतः ।अनेनेति तदुक्तयैव ज्ञायतेऽनुभवेन हि ॥१८४॥यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह ।तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ॥१८५॥व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात् ।पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत् ॥१८६॥अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य न ।यदैवानन्वितार्थस्य वचनं तैः पदैभर्वेत् ॥१८७॥अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सोऽन्वयः ।निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ॥१८८॥तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ॥१८९॥अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते ।कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत् ॥१९०॥अपूर्तिश्चेत्पदैरुक्तैः किं नृशृङ्गेण पूर्यते ।व्यापारश्चेत्पुनस्तेषामनुक्तावपि किं न सः ॥१९१॥उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ।बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च ।पुरुषाधीनता तेषां यदि पश्चाच्च सा समा ॥१९२॥पुमानेवान्वयायैषां पश्चाद्यदि विचेष्यते ।अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ।यततां शब्दशक्तिश्चेत्तत्र नैवान्वये कथम् ॥१९३॥तत्कल्पनागुरुत्वादिदोषेतोऽभिहितान्वयः ।अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः ॥१९४॥कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ।विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति ॥१९५॥गुणक्रियादिधर्माणां विशेषे कथिते पुनः ।निराकाङ्क्षो भवेद्यस्माच्छब्दा अन्वितवाचकाः ॥१९६॥अतोऽनन्तगुणात्मैको भगवानेक एव तु ।उच्यते सर्ववेदैश्च ते चाखिलविलक्षणाः ॥१९७॥सर्वे सर्वगुणात्मानः सर्वकर्तार एव च ।तथापि सविशेषाश्च विद्वद्य्वुत्पत्तितोऽपिच ॥१९८॥तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः ।अन्यानन्दादिसादृश्यमानुकूल्यादिना परम् ॥१९९॥पूर्णत्वादि महत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् ।पूर्णेऽशेषनियन्ता च सुखादुतम एककलः ॥२००॥गुणोरुसमुदायोऽयं वासुदेवः स निष्कळः ।वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान् ॥२०१॥स एवाशेषजीवस्थनिस्सङ्खयानादिकालिकान् ।धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः ॥२०२॥कांश्चित्तेषां फलं चैव ददाति स्वयमच्युतः ।न ते विशेषं कमपि प्रेरणादिकमुच्यते ।कुर्युः कदापि तेनायं स्वतन्त्रोऽनुपचारतः ॥२०३॥कर्माणि तानि च पृथक्चेतनान्येव सर्वशः ।अचेतनशरीराणि स्वकर्मफलभाञ्चि च ॥२०४॥प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च ।तानि चैवमितीशस्य निस्सीमा शक्तिरुत्तमा ॥२०५॥एकैव ब्रह्महत्या हि वराहहरिणोदिता ।ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ॥२०६॥स्तोत्रस्य तस्य माहात्म्याद्व्याधत्वं गमिता पुनः ।प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वदा ॥२०७॥अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि ।संसारे पच्यमानानि कर्माण्यपि पृथक्पृथक् ॥२०८॥तस्मादनन्तमाहात्म्यगुणपूगो जनार्दनः ।भक्त्या परमयाऽराध्य इति पादार्थ ईर्यते ॥२०९॥॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः॥ N/A References : N/A Last Updated : July 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP