स्वाभाविकान्यथानामसहाभावान्यथोक्तयः ।
अविशेषो विशेषौ च सहभावो विमिश्रता ॥१॥
विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।
युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतोभवौ ॥२॥
उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।
योग्यता प्रबलत्वं च विभागः कारणाभवः ।
कॢप्तिरन्यागतिश्चैव सिद्धान्तस्यैव साधकाः ॥३॥
बीजापूरुषयोनीनां सङ्गातिनियमोज्खितिम् ।
अथशब्देन भगवानाह कारणतश्च ताम् ॥४॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP