संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|दशरूपकम्| चतुर्थः परिच्छेदः दशरूपकम् प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः दशरूपकम् - चतुर्थः परिच्छेदः 'दशरूपकम्' नाट्यशास्त्रातील दशरूप लक्षण आणि त्यातील विशेषतांचे प्रतिपादन करणारा ग्रंथ आहे. Tags : dasharupakamdramaदशरूपकम्नाट्य चतुर्थः परिच्छेदः Translation - भाषांतर विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।आनीयमानः स्वाद्यत्वं स्थायी भावो रसः स्मृतः ॥१॥ज्ञायमानतया तत्र विभावो भावपोषकृत् ।आलम्बनोद्दीपनत्वप्रभेदेन स च द्विधा ॥२॥अनुभावो विकारस्तु भावसंसूचनात्मकः ।हेतुकार्यात्मनोः सिद्धिस्तयोः संव्यवहारतः ॥३॥सुखदुःखादिकैर्भावैर्भावस्तद्भावभावनम् ।पृथग् भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्त्विकाः ।सत्त्वादेव समुत्पत्तेस्तच् च तद्भावभावनम् ॥४॥स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू ।अश्रुवैस्वर्यमित्यष्टौ स्तम्भोऽस्मिन् निष्क्रियाङ्गता ।प्रलयो नष्टसञ्ज्ञत्वं शेषाः सुव्यक्तलक्षणाः ॥५॥विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः ।स्थायिन्युन्मग्ननिर्मग्नाः कल्लोला इव वारिधौ ॥६॥निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्र्यचिन्तास्त्रासेर्ष्यामर्षगर्वाः स्मृतिमरणमदाः सुप्तनिद्राविबोधाः ।व्रीडापस्मारमोहाः समतिरलसतावेगतर्कावहित्थाव्याध्युन्मादौ विपादोत्सुकचपलयुतास्त्रिंशदेते त्रयश्च ॥७॥तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् ।तत्र चिन्ताश्रुनिःश्वासवैअवर्ण्योच्छ्वासदीनताः ॥८॥रत्याद्यायासतृट्क्षुद्भिर्ग्लानिर्निष्प्राणतेह च ।वैवर्ण्यकम्पानुत्साहक्षामाङ्गवचनक्रियाः ॥९॥अनर्थप्रतिभा शङ्का परक्रौर्यात् स्वदुर्नयात् ।कम्पशोषाभिवीक्षादिरत्र वर्णस्वरान्यता ॥१०॥श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन् मर्दनादयः ।सन्तोषो ज्ञानशक्त्यादेर्धृतिरव्यग्रभोगकृत् ॥११॥अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।अनिमिषनयननिरीक्षणतूष्णीम्भावादयस्तत्र ॥१२॥प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाः ।दौर्गत्याद्यैरनौजस्यं दैन्यं कार्ष्ण्याभृजादिमत् ॥१३॥दुष्टेऽपराधदौर्मुख्यक्रौर्यैश्चण्डत्वमुग्रता ।तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥१४॥ध्यानं चिन्तेहितानाप्तेः शून्यताश्वासतापकृत् ।गर्जितादेर्मनःक्षोभस्त्रासोऽत्रोत्कम्पितादयः ॥१५॥परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा ।दोषोक्त्यवज्ञे स्रुकुटिमन्युक्रोधेङ्गितानि च ॥१६॥अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता ।तत्र खेदशिरःकम्पतर्जनाताडनादयः ॥१७॥गर्वोऽभिजनलावण्यबलैश्वर्यादिभिर्मदः ।कर्माण्याधर्पणावज्ञा सविलासाङ्गवीक्षणम् ॥१८॥सदृशज्ञानचिन्ताद्यैः संस्कारात् स्मृतिरत्र च ।ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयः ।मरणं सुप्रसिद्धत्वादनर्थत्वाच् च नोच्यते ॥१९॥हर्षोत्कर्षो मदः पानात् स्खलदङ्गवचोगतिः ।निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु ।सुप्तं निद्रोद्भवं तत्र श्वासोच्छासक्रिया परम् ॥२०॥मनःसम्मीलनं निद्रा चिन्तालस्यक्लमादिभिः ।तत्र जृम्भाङ्गभङ्गाक्षिमीलनोत्स्वप्नतादयः ।विवोधः परिणामादेस्तत्र जृम्भाक्षिमर्दने ॥२१॥दुराचारादिभिर्व्रीडा धार्ष्ट्याभावस्तमुन्नयेत् ।साचीकृताङ्गावरणवैवर्ण्याधोमुखादिभिः ॥२२॥आवेशो ग्रहदुःखाद्यैरपस्मारो यथाविधिः ।भूपातकम्पप्रखेदलालाफेनोद्गमादयः ॥२३॥मोहो विचित्तता भीतिदुःखावेशानुचिन्तनैः ।तत्राज्ञानभ्रमाघातघूर्णनादर्शनादयः ॥२४॥भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिः ।आलस्यं श्रमगर्भादेजह्यजृम्भासितादिमत् ॥२५॥आवेगः सम्ग्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगोवातात् पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः ।उत्पातात् स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावावह्नेर्धूमाकुलास्यः करिजमनुभयस्तम्मकम्पापसाराः ॥२६॥तर्को विचारः सन्देहाद् भ्रूशिरोङ्गुलिनर्तकः ।लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया ।व्याधयः सन्निपाताद्यास्तेषामन्यत्र विस्तरः ॥२७॥अप्रेक्षाकारितोन्मादः सन्निपातग्रहादिभिः ।अस्स्मिन्नवस्था रुदितगीतहासासितादयः ॥२८॥प्रारब्धकार्यासिद्ध्यादेर्विषादः सत्त्वसङ्क्षयः ।निःश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत् ॥२९॥कालाक्षमत्वमौत्मुक्यं रम्येच्छारतिसम्ग्रमैः ।तत्रोच्छ्वासत्वनिःश्वासहृत्तापस्वेदविभ्रमाः ॥३०॥मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिः ।तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥३१॥विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते ।आत्मभावं नयत्यन्यान् स स्थायी लवणाकरः ॥३२॥रत्युत्साहज्गुप्साः क्रोधो हासः स्मयो भयं शोकः ।शममपि केचित् प्राहुः पुष्टिर्नाट्येषु नैतस्य ॥३३॥निर्वेदादिरताद्रूप्यादस्थायी स्वदते कथम् ।वैरस्यायैव तत्पोषस्तेनाष्टौ स्थायिनो मताः ॥३४॥वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया ।वाक्यार्थः कारकैर्युक्ता स्थायी भावस्तथेतरैः ॥३५॥रसः स एव स्वाद्व्यत्वाद् रसिकस्यैव वर्तनात् ।नानुकार्यस्य वृत्तत्वात् काव्यस्यातत्परत्वतः ॥३६॥द्रष्टुः प्रतीतिर्व्रीडेर्ष्यारागद्वेषप्रसङ्गतः ।लौकिकस्य स्वरमणीसंयुक्तस्येव दर्शनात् ॥३७॥धीरोदात्ताद्यवस्थानां रामादिः प्रतिपादकः ।विभावयति रत्यादीन् स्वदन्ते रसिकस्य ते ॥३८॥क्रीडतां मृन्मयैर्यद्वद् बालानां द्विरदादिभिः ।स्वोत्साहः स्वदते तद्वच्छ्रोतृणामर्जुनादिभिः ॥३९॥काव्यार्थभावनास्वादो नर्तकस्य न वार्यते ।स्वादः काव्यार्थसम्भेदानात्मानन्दसमुद्भवः ॥४०॥विकाशविस्तरक्षोभविक्षेपैः स चतुर्बिधः ।शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् ॥४१॥हास्याद्भुतभयोत्कर्षकरुणानां त एव हि ।अतस्तज्जन्यता तेषामत एवावधारणम् ॥४२॥शमप्रकर्षो निर्वाच्यो मुदितादेस्तदात्मता ।पदार्थैरिन्दुनिर्वेदरोमाञ्चादिस्वरूपकैः ।काव्याद् विभावसञ्चार्यनुभावप्रख्यतां गतैः ॥४३॥भावितः स्वदते स्थायी रसः स परिकीर्तितः ।लक्षणैक्यं विभावैक्यादभेदाद् रसभावयोः ॥४४॥रम्यदेशकलाकालवेषभोगादिसेवनैः ।प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ।प्रहृष्यमाणा शृङ्गारो मधुराङ्गविचेष्टितैः ॥४५॥ये सत्त्वजाः स्थायिन् एव चाष्टौत्रिंशत् त्रयो ये व्यभिचारिणश्च ।एकोनपञ्चाशदमी हि भावाःयुक्त्या निबद्धाः परिपोषयन्ति ।आलस्यमौग्र्यं मरणं जुगुप्सातस्याश्रयाद्वैतविरुद्धमिष्टम् ॥४६॥तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः ।पारतन्त्र्येण दैवाद् वा विप्रकर्षादसङ्गमः ॥४७॥दशावस्थः स तत्रादावभिलाषोऽथ चिन्तनम् ।स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसञ्ज्वराः ।जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥४८॥अभिलापः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे ।दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाः ॥४९॥साक्षात् प्रतिकृतिस्वप्नच्छायामायासु दर्शनम् ।श्रुतिर्व्याजात् सखीगीतमागधादिगुणस्तुतेः ॥५०॥सानुभावविभावास्तु चिन्ताद्याः पूर्वदर्शिताः ।दशावस्थत्वमाचार्यैः प्रायो वृत्या निदर्शितम् ।महाकविप्रबन्धेषु दृश्यते तदनन्तता ॥५१॥दृष्टे श्रुतेऽभिलाषाच् च किं नौत्सुक्यं प्रजायते ।अप्राप्तौ किं न निर्वेदो ग्लानिः किं नातिचिन्तनात् ॥५२॥विप्रयोगस्तु विश्लेषो रूढविभ्रम्भयोर्द्विधा ।मानप्रवासभेदेन मानोऽपि प्रणयेर्ष्ययोः ॥५३॥तत्र प्रणयमानः स्यात् कोपावसितयोर्द्वयोः ।स्त्रीणामीर्ष्याकृतो मानः कोपोऽन्यासङ्गिनि प्रिये ।श्रुते वानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् ॥५४॥उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः ।त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः ॥५५॥यथोत्तरं गुरुः षड्भिरुपायैस्तमुपाचरेत् ।साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैः ॥५६॥तत्र ओरियवचः साम भेदस्तत्सख्युपार्जनम् ।दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥५७॥सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् ।रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ।कोपचेष्टाश्च नारीणां प्रागेव प्रतिपादिताः ॥५८॥कार्यतः सम्भ्रमाच्छापात् प्रवासो भिन्नदेशता ।द्वयोस्तत्राश्रुनिःश्वासकार्श्यलम्बालकादिता ॥५९॥द्वितीयः सहसोत्पन्नो दिव्यमानुपविप्लवात् ।स्वरूपान्यत्वकरणाच्छापजः सन्निधावपि ॥६०॥मृते त्वेकत्र यत्रान्यः प्रलपेच्छोक एव सः ।व्याश्रयत्वान् न शृङ्गारः प्रत्यापन्ने तु नेतरः ॥६१॥प्रणयायोगयोरुत्का प्रवासे प्रोषितप्रिया ।कलहान्तरितेर्ष्यायां विप्रलव्धा च खण्डिता ॥६२॥अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ ।दर्शनस्पर्शनादीनि स सम्भोगो मुदान्वितः ॥६३॥चेष्टास्तत्र प्रवर्तन्ते लीलाद्या दश योषिताम् ।दाक्षिण्यमार्दवप्रेम्णामनुरूपाः प्रियं प्रति ॥६४॥रमयेच् चाटुकृत् कान्तः कलाक्रीडादिभिश्च ताम् ।न ग्राम्यमाचरेत् किञ्चिन् नर्मभ्रंशकरं न च ॥६५॥वीरः प्रतापविनयाध्यवसायसत्त्व-मोहाविषादनयविस्मयविक्रमाद्यैः ।उत्साहभूः स च दयारणदानयोगात्त्रेधा किलात्र मतिगर्वधृतिप्रहर्षाः ॥६६॥बीभत्सः कृमिपूतिगन्धिवमथुप्रायैर्जुगुप्सैकभूर्उद्वेगो रुधिरान्त्रकीकसवसामांसादिभिः क्षोभणः ।वैराग्याज् जघनस्तनादिषु घृणाशुद्धोऽनुभावैर्वृतोनासावक्त्रविकूणनादिभिरिहावेगार्तिशङ्कादयः ॥६७॥क्रोधो मत्सरवैरिवैकृतमयैः पोषोऽस्य रौद्रोऽनुजःक्षोभः खाधरदंशकम्पभ्रुकुटिस्वेदास्यरागैर्युतः ।शत्रोल्लासविकत्थमांसधरणीघातप्रतिज्ञाग्रहैर्अत्रामर्षमदौ स्मृतिश्चपलतासूयाग्र्यवेगादयः ॥६८॥विकृताकृतिवाग्वेषैरात्मनोऽथ परस्य वा ।हासः स्यात् परिपोषोऽस्य हास्यस्त्रिप्रकृतिः स्मृतः ॥६९॥स्मितमिह विकासिनयनं किञ्चिल्लक्ष्यद्विजं तु हसितं स्यात् ।मधुरस्वरं विहसितं सशिरःकम्पमिदमुपहसितम् ॥७०॥अपहसितं सास्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम् ।द्वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ॥७१॥निद्रालस्यश्रमग्लानिमूर्छाश्च सहचारिणः ।अतिलोकैः पदार्थैः स्याद् विस्मयात्मा रसोऽद्भुतः ॥७२॥कर्मास्य साधुवादाश्रुवेपथुस्वेदगद्गदाः ।हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणः ॥७३॥विकृतस्वरसत्त्वादेर्भयभावो भयानकः ।सर्वाङ्गवेपथुस्वेदशोषवैचित्त्यलक्षणः ।दैन्यसम्भ्रमसम्मोहत्रासादिस्तत्सहोदरः ॥७४॥इष्टनाशादनिष्टाप्तौ शोकात्मा करुणोऽनु तम् ।निःश्वासोच्छ्वासरुदितस्तम्भप्रलपितादयः ॥७५॥स्वापापस्मारदैन्याधिमरणालस्यसम्भ्रमाः ।विषादजडयोन्मादचिन्ताद्या व्यभिचारिणः ॥७६॥प्रीतिभक्त्यादयो भावा मृगयाक्षादयो रसाः ।हर्षोत्साहादिषु स्पष्टमन्तर्भावान् न कीर्तिताः ॥७७॥षट्त्रिंशद्भूषणादीनि सामादीन्येकविंशतिः ।लक्ष्यसन्ध्यन्तराङ्गानि सालङ्कारेषु तेषु च ॥७८॥रम्यं जुगुप्सितमुदारमथापि नीचम्उग्रं प्रसादि गहनं विकृतं च वस्तु ।यद्वाप्यवस्तु कविभावकभाव्यमानंतन् नास्ति यन् न रसभावमुपैति लोके ॥७९॥विष्णोः सुतेनापि धनञ्जयेनविद्वन्मनोरागनिबन्धहेतुः ।आविष्कृटं मुञ्जमहीशगोष्ठी-वैदग्ध्यभाजा दशरूपमेतत् ॥८०॥एको चरे खग्गविसाणकप्पो॥ N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP