संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|दशरूपकम्| प्रथमः परिच्छेदः दशरूपकम् प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः दशरूपकम् - प्रथमः परिच्छेदः 'दशरूपकम्' नाट्यशास्त्रातील दशरूप लक्षण आणि त्यातील विशेषतांचे प्रतिपादन करणारा ग्रंथ आहे. Tags : dasharupakamdramaदशरूपकम्नाट्य प्रथमः परिच्छेदः Translation - भाषांतर नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते ।मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ॥१॥दशरूपानुकारेण यस्य माद्यन्ति भावकः ।नमः सर्वविदे तस्मै विष्णवे भरताय च ॥२॥कस्यचिदेव कदाचिद् दयया विषयं सरस्वती विदुषः ।घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम् ॥३॥उद्धृत्योद्धृत्य सारं यमखिलनिगमान् नाट्यवेदं विरिञ्चिश्चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठः ।शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टेनाट्यानां किन्तु किञ्चित् प्रगुणरचनया लक्षणं सङ्क्षिपामि ॥४॥व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमः ।तस्यार्थस्तत्पदैस्तेन सङ्क्षिप्य क्रियतेऽञ्जसा ॥५॥आनन्दनिस्यन्दिषु रूपकेषुव्युत्पत्तिमात्रं फलमल्पबुद्धिः ।योऽपीतिहासादिवदाह साधुस्तस्मै नमः स्वादुपराङ्मुखाय ॥६॥अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते ।रूपकं तत् समारोपाद् दशधैव रसाश्रयम् ॥७॥नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ॥८॥अन्यद भावाश्रयं नृत्यं नृत्तं ताललयाश्रयम् ।आद्यं पदार्थाभिनयो मार्गो देशो तथा परम् ॥९॥मधुरोद्धतभेदेन तद् द्वयं द्विविधं पुनः ।लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥१०॥वस्तु नेता रसस्तेषां भेदको वस्तु च द्विधा ।तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः ॥११॥अधिकारः फलस्वाम्यमधिकारो च तत्प्रभुः ।तन्निरवर्त्यमभिव्यापि वृत्तं स्यादाधिकारिकम् ॥१२॥प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक् ॥१३॥प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।सानुबन्धं तुल्यसंविधानविशेषणम् ॥१४॥प्रख्यातोत्पाद्यमिश्रत्वभेदात् त्रेधापि तत् त्रिधा ।प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् ।मिश्रं च सङ्करात् ताभ्यां दिव्यनर्त्यादिभेदतः ॥१५॥कार्यं त्रिवर्गस्तत् शुद्धमेकानेकानुबन्धि च ।स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा ।अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥१६॥बीजबिन्दुपताकाख्यप्रकरोकार्यलक्षणाः ।अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥१७॥अवस्थाः पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिः ।आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥१८॥औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ॥१९॥उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः ।अपायाभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता ।समग्रफलसम्पत्तिः फलयोगो यथोदितः ॥२०॥अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।यथासङ्ख्येन जायन्ते मुखाद्याः पञ्च सन्धयः ॥२१॥अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति ।मुखप्रतिमुखे गर्भः सावमर्शोपसंहृतिः ॥२२॥मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा ।अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥२३॥उपक्षेपः परिकरः परिन्यासो विलोभनम् ।युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।उद्भेदभेदकरणान्यन्वर्थान्यथ लक्षणम् ॥२४॥बीजन्यासस् उपक्षेपः तद्बाहुल्यं परिक्रिया ।तन्न्निष्पत्तिः परिन्यासो गुणाख्यानाद् विलोभनम् ॥२५॥सम्प्रधारणमर्थानां युक्तिः प्राप्तिः सुखागमः ।बीजागमः समाधानं विधानं सुखदुःखकृत् ॥२६॥परिभावोद्भुतावेश उद्भेदो गूढभेदनम् ।करणं प्रकृतारम्भो भेदः प्रोत्साहना मता ॥२७॥लक्ष्यालक्ष्य इवोद्भेदस्तस्य प्रतिमुखं भवेत् ।बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥२८॥विलासः परिसर्पश्च विधूतं शमनर्मणो ।नर्मद्युतिः प्रगयणं निरोधः पर्युपासनम् ॥२९॥वज्रं पुष्पमुपन्याप्तो वर्ण संहार इत्यपि ।रत्यर्थेहा विलासः स्याद् दृष्टनष्टानुसर्पणम् ।परिसर्पा विधूतं स्यादरतिस्तच्छमः शमः ॥३०॥परिहासवत्तो नर्म धृतिस्तज्जा द्युतिर्मता ।उत्तरा वाक् प्रगयणं हितरोधो निरोधनम् ॥३१॥पर्युपास्तिरनुनयः पुष्पं वाक्यं विशेषवत् ।उपन्यासस्तु सोपायं वज्रं प्रत्यक्षनिष्ठुरम् ।चातुर्वर्णोपगमनं वर्णसंहार इष्यते ॥३२॥गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ।द्वादशाङ्गः पताका स्यान् न वा स्यात् प्राप्तिसम्भवः ॥३३॥अभूताहरणं मार्गा रूपोदाहरणे क्रमः ।सङ्गहश्चानुमानं च तोटकाधिवले तथा ॥३४॥उद्वेगसम्भ्रमाक्षेपा लक्षणं च प्रणीयते ।अभूताहरणं छद्म मार्गस्तत्त्वार्थकीर्तनम् ॥३५॥रूपं वितर्कवद् वाक्यं सोत्कर्षं स्यादुदाहृतिः ।क्रमः सञ्चिन्त्यमानाप्तिर् भावज्ञानमथापरे ॥३६॥सङ्ग्रहः सामदानोक्तिर् अभ्यूहो लिङ्गतोऽनुमा ।अधिवलमभिसन्धिः संरब्धं तोटकं वचः ॥३७॥उद्वेगोऽरिछ(?)ता भीतिः शङ्कात्रासौ च सम्भ्रमः ।गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः ॥३८॥क्रोधेनावमृशेद् यत्र व्यसनाद् या विलोभनात् ।गर्भनिर्भिन्नबीजार्थः सोऽवमर्शोऽङ्गसङ्गहः ॥३९॥तत्रापवादसम्फेटौ विद्रवद्रवशक्तयः ।द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् ।प्रयोचना विचलनमादानं च तर्योदश ॥४०॥दोषप्रख्यापवादः स्यात् सम्फेटो रोषभाषणम् ।विद्रवो वधबन्धादिर् द्रवो गुरुतिरस्कृतिः ॥४१॥विरोधशमनं शक्तिस्तर्जनोद्वेजने द्युतिः ।गुरुकीर्तनं प्रसङ्गश्छलनं चावमाननम् ॥४२॥व्यवसायः खशक्त्युक्तिः संरब्धानां विरोधनम् ।सिद्धामन्त्रणतो भाविदर्शिका स्यात् प्रयोचना ।विकत्थना विचलनम् आदानं कार्यसङ्ग्रहः ॥४३॥बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥४४॥सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् ।प्रसादानन्दसमयाः कृतिभाषोपगूहनाः ।पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥४५॥सन्धिर्बीजोपगमनं विबोधः कार्यमार्गणम् ।ग्रथनं तदुपक्षेपो ऽनुभूताख्या तु निर्णयः ॥४६॥परिभाषा मिथो जल्पः प्रसादः पर्युपासनम् ।आनन्दो वाञ्छितावाप्तिः समयो दुःखनिर्गमः ॥४७॥कृतिर्लब्धार्थशमनं मानाद्याप्तिश्च भाषणम् ।कार्यदृष्ट्यद्भुतप्राप्तो पूर्वभावोपगूहने ।वराप्तिः काव्यसंहारः प्रशस्तिः शुभशंसनम् ॥४८॥इष्टस्यार्थस्य रचना गोप्यगुप्तिः प्रकाशनम् ।रागः प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयः ॥४९॥द्वेधा विभागः कर्तव्यः सर्वस्यापोह वस्तुनः ।सूच्यमेव भवेत् किञ्चिद् दृश्यश्रव्यमथापरम् ॥५०॥नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः ।दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः ॥५१॥अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् ।विष्कम्भचूलिकाङ्गास्याङ्कावतारप्रवेशकैः ॥५२॥वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।सङ्क्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ।एकानेककृतः शुद्धः सङ्कीर्णो नीचमध्यमैः ॥५३॥तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः ।प्रवेशोऽङ्कद्वयस्यान्तः शेषार्थस्योपसूचकः ॥५४॥अन्तर्यवनिकासंस्थैश्चूलिकार्थस्य सूचना ।अङ्कान्तपात्रैरङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् ॥५५॥अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः ।एभिः संसूचयेत् सूच्यं दृश्यमङ्कैः प्रदर्शयेत् ॥५६॥नाट्यधर्ममपेक्ष्यैतत् पुनर्वस्तु त्रिधेष्यते ।सर्वेषां नियतस्यैव श्राव्यमश्राव्यमेव च ॥५७॥सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् ।द्विधान्यन् नाट्यधर्माख्यं जनान्तमपवारितम् ॥५८॥त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ।अन्योन्यामन्त्रणं यत् स्याज् जनान्ते तज् जनान्तिकम् ।रहस्यं कथ्यते ऽन्यस्य परावृत्त्यापवारितम् ॥५९॥किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् ।श्रुत्वेवानक्तमप्येकस्तत् स्यादाकाशमापितम् ॥६०॥इत्याद्यशेषमिह वस्तुविभेदजातंरामायणादि च विभाव्य बृहत्कथां च ।आसूत्रयेत् तदनु नेतृरसानुगुण्याच्चित्रां कथामुचितचारुवचःप्रपञ्चैः ॥६१॥ N/A References : N/A Last Updated : May 23, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP