बलभद्रखण्डः - अध्यायः ६

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


दुर्योधन उवाच -
मुनींद्र रामोऽनंतोऽनंतलीलः श्रीकृष्णोऽपि च भूम्यां
भूत्वा रराज ॥ तस्य संक्षेपेण चरित्रं वद ॥ व्रजे किं
मथुरायां किं द्वारकायां किमत्र किमन्यत्र किं चकार ॥१॥
प्राड्‌विपाक उवाच -
अथ ह वाव श्रीकृष्णो जातमात्रोऽद्‌भुतां लीलां
पूतनामोक्षशकटासुरतृणावर्तवधयुतां विश्वरूपदर्शन-
दधिचौर्य्यब्रह्मांडदर्शनयमलार्जुनद्रुमखंडभंगादिसंयुक्तां
दुर्वाससो मायादर्शनवैभवां श्रीमद्‌गर्गाचार्यवर्णित-
राधाकृष्णनामौदार्य्यमाहात्म्ययुक्तां सुरजेष्ठकारित-
वृषभानुवरनंदिनीविवाहरासमंडलकथामंडितां चकार ॥२॥
ततः श्रीवृन्दावनागमने सति वत्सासुरबकासुराद्यसुराणां
वधं कृत्वा गोपालैः सह गोचारणे वृंदावनादिवनेषु विचचार ॥३॥
अथ तालवने धेनुकासुरं खरस्वनं स्वपद्‌भ्यां ताडयंतं
भुजदंडाभ्यां गृहीत्वा महाबलो बलदेवस्तालवृक्षे तं
पातयित्वा पुनरापतंतं भूपृष्ठे पोथयामास ॥ मूर्च्छितो
भग्नमस्तकः सद्यस्तन्मुष्टिप्रहारेण निधनं जगाम ॥४॥
अथ श्रीकृष्णः कालियदमनदावाग्निपानादीनि चरित्राणि
कृत्वा श्रीराधाप्रेमप्रकाशप्रीतिपरीक्षणवृंदावनविहार-
दानमानलीलाहावभावयुक्तां शंखचूडवधादि-
शिवासुर्य्युपाख्यानकथां कथनीयां लीलां चकार ॥५॥
अथैकदा गिरिराजपूजने कृते भग्नबलिरिंद्रः
सांवर्तमेघमण्डलैर्व्रजमण्डले ववर्ष ॥ तदा भगवान्
भयातुरं व्रजं वीक्ष्य माभैष्टेत्यभयं दत्वा एककरेण
गिरिराजं समुत्पाट्योच्छिलींध्रं बाल इव दधार
ह वाव सप्तवर्षीयः सप्ताहं सुस्थिरं स्थितः ॥६॥
अथेन्द्रः सर्वदेवगणैर्भयभीतः श्रीकृष्णचंद्रश्रीमत्पादारविंदद्वयं
प्रणम्य किरीटेन नतः स्तुत्वा तदभिषेकं कृत्वा महेंद्रराट्
सुरभिसुरमुनिभिः सार्द्धं स्वर्गं जगाम ॥७॥
तदद्‌भुतं गोवर्धनोद्धारणं दृष्ट्वा गोपा
विसिस्म्युस्तेभ्यो मुक्तारोपणादिवैभवं संदर्शयामासुः ॥८॥
अथ श्रुतिरूपर्षिरूपा मैथिला कौशलायोध्यापुरवासिनी
यज्ञसीतापुलिन्दकारमावैकुण्ठश्वेतद्वीपोर्ध्ववैकुण्ठाजितपद-
श्रीलोकाचलवासिनी सखी दिव्यादिव्यात्रिगुणवृत्तिभूमि-
गोपीजनदेवश्रीजालंधरीबर्हिष्मतीपुरंध्र्यप्सरःसुतलवासिनी-
नागेन्द्रकन्यादिभिर्गोपीयूथैः पृथक् पृथक्
श्रीकृष्णो व्रजमण्डले रासमंडलं चकार ॥९॥
एकदा गाश्चारयन्सबलः श्रीकृष्णो गोपालबालैर्भांडीरे बाललीलां
वाह्यवाहकलक्षणां कृतवान् ॥ तत्र प्रलम्बो गोपरूपी
दैत्यो विहारे विहारविजयं रामं स्वपृष्ठे निधायोवाह ॥१०॥
अथ ह वाव मथुरां गंतुमुद्यतं गिरींद्रस्य सदृशदेहं
तमुद्वीक्ष्य पृष्टगतो बलदेवो महाबलो रुषा मुष्टिना
शिरसि महाद्रिं यथाद्रिभित्तताड तेन सद्यो विशीर्णमस्तको
वज्रहतो गिरिरिव स दैत्यो भूम्यां निपपात ॥११॥
एकदा ग्रीष्मे मुंजारण्यगतासु गोषु गोपालेषु च
सत्सु सद्यः संभूतो दावाग्निः प्रलयाग्निरिव ववृधे ॥
ततः कृष्णरामेति वदतः पाहि पाहीति गोपालान्
शरणं गतान् वीक्ष्य लोचनानि निमीलयताशु
माभैष्टेत्युक्त्वा तमग्निमपिबत् ॥१२॥
अथ ह वाव भांडीराद्यमुनातीरे गोपालगोगणं नीत्वा
प्राप्तोऽभूत्तत्राशोकवने यज्ञपत्‍न्यानीतं भोजनं कृतवान् ॥१३॥
अथ चैकदा व्रजे नन्दराजे वरुणग्रस्ते वरुणस्य
मानभंगं कृत्वा नन्दादिभ्यो गोपेभ्योऽपि
सर्वलोकनमस्कृतं वैकुण्ठं दर्शयामास ॥१४॥
अथांबिकावने श्रीकृष्णः सरस्वतीतीरे नन्दं
ग्रसंतं सुदर्शनं सर्पं किलाखिललोकपालवन्दितेन
श्रीमच्चरणारविंदेन स्पृष्ट्वा सर्पदेहात्तं मोचयामास ॥१५॥
अथ सबलः श्रीकृष्णो निलायनक्रीडायां चोररूपं
व्योमासुरं कंससखं भुजदंडाभ्यां गृहीत्वा
दशदिशासु भ्रामयन् भूपृष्ठे पोथयामास ॥१६॥
तथारिष्टासुरं कंसप्रणोदितं वृषरूपं शृङ्गयोः
समुद्‍धृत्य पातयामास ॥ अथ नारदमुखाच्छ्रुत-
श्रीकृष्णकथेन कंसेन प्रणोदितं केशिनं
श्रीकृष्णस्तन्मुखे स्वभुजप्रवेशेन संममर्देत्थमनेका
लीलाः सहसा व्रजमंडले बलेन कारयामास ॥१७॥

इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्‌विपाकदुर्योधनसंवादे
रामकृष्णव्रजलीलावर्णनं नाम षष्ठोऽध्यायः ॥६॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP