बलभद्रखण्डः - अध्यायः २
गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.
प्राड्विपाक उवाच -
इत्युक्तः सहस्रवदनो गंतुमभ्युदितः स्वसभायां स्थितोऽभूत् ॥
तदैव सिद्धचारणगन्धर्वाः सर्वतस्तं नतकंधरा बभूवुः ॥१॥
अथ सुमतिः सारथिर्दिव्यं रथं तालांकं
साश्वं समानीय सम्मुखं स्थितोऽभूत् ॥२॥
परसैन्यविदारणं मुसलं दैत्यदमनं हलं ते तूर्णं
पुरस्तादुपतस्थतुः ब्रह्ममयं नाम वर्म चोपतस्थे ॥३॥
अथ तत्र श्रीबलभद्रसभायां सर्वेषां पश्यतां रमावैकुण्ठा-
त्समागतः पाणीनिपतंजल्यादिभिर्मुनिभिः स्तूयमानः
सहस्रफणमौलिविराजमानः सिद्धचारणचामरसंसेव्यमानः
शेषस्तमनंतं संकर्षणं स्तुत्वा तद्विग्रहे संलीनोऽभूत् ॥४॥
अथाजितवैकुण्ठात्समागतोऽजैकपादहिर्बुध्न्यबहुरूपमहदादिभिः
संवेष्टितो घोरैः प्रेतविनायकैः संवेष्टितः शेषः सहस्रवदनः
समागत्य स सभायामनंतं स्तुत्वा तस्मिन् संलीनोऽभूत् ॥५॥
अथ श्वेतद्वीपात्समागतः कुमुदकुमुदाक्षादिभिः
पार्षदप्रवरैः ससेव्यमानः सहस्रफणमौलिविराजमानः
सिताचलाभो नीलांबरो नीलकुंतलाभो भीमाभः
सर्वेषां पश्यतामनंतविग्रहे सोऽपि संलीनोऽभूत् ॥६॥
अथ तदैवेलावृतखण्डात्समागतस्त्रीगणार्बुदसहस्रैर्भवानीनाथैः
समावृत्तः शेषः सहस्रवदनमौलिमण्डलमण्डितः
प्रस्फुरत्किरीटकटकांगदः सभामेत्यानंतविग्रहे संप्रलीनोऽभूत् ॥७॥
अथ पातालस्याधस्ताद्द्वात्रिंशद्योजनसहस्रांतरात्समागतो
भगवतस्तामसीकलः साक्षात्सहस्रवदनकिरीटमार्तंडमण्डल-
मण्डितो वेदव्यासपराशरसनकसनन्दनसनातनसनत्कुमार-
नारदसांख्यायनपुलस्त्यबृहस्पतिमैत्रेयादिमहर्षिभिः
संशोभितो वासुकिमहाशंखश्वेतधनंजयधृतराष्ट्रकुहक-
कालियतक्षककंबलाश्वतरदेवदत्तादिभिर्नागेंद्रैश्चामरपाणिभिः
संसेव्यमानो मृगमदागरुकुंकुमचंदनपङ्कावलिप्यमानाभि-
र्नागकन्याभिः सिद्धचारणगंधर्वविद्याधरगणैरुपगीयमानो
हाटकेश्वरत्रिपुरबलकालकेयकलिनिवातकवचैरनुयायिभिः
पुरःसरै रुद्रैकादशव्यूहैर्नाभिकामधेनुवरुणैः पश्चात्प्रयायिभि-
र्वीणावेणुमृदङ्गतालदुन्दुभिध्वनिशब्दायमानः फणीन्द्रो नागेंद्र
इव तूर्णगतिर्विराजते यस्यैकफणे चेदं क्षितिमण्डलं सिद्धार्थ
इव लक्षते सोऽप्यागत्य महानन्तविग्रहे संलीनोऽभूत् ॥८॥
तच्चित्रं दृष्ट्वा तत्सभापार्षदाः सर्वे तं
परिपूर्णतमं ज्ञात्वावनता विस्मिता बभूवुः ॥९॥
अथानंतवदनो महानंतः संकर्षणो भगवान् पार्षदान् सिद्धानुवाच ॥१०॥
अहं भूमिभारहरणार्थं भुवि गमिष्यामि तस्माद्यूयं यादवेषु भविष्यथ ॥११॥
भोः प्रबलोद्भटसुमते सारथे भवतात्रैव स्थीयतां शोकं
मा कुरुतात् यदा युद्धार्थी त्वत्स्मरणं करिष्यामि तदा तं
दिव्यं तालांकं रथं नीत्वा मत्समीपमागमिष्यसि ॥१२॥
हे हलमुसले यदा यदा युवयोः स्मरणं करिष्यामि
तदा तदा मत्पुर आविर्भूते भवतम् ॥१३॥
भो वर्म त्वमपि चाविर्भव । हे मुनयः पाणिन्यादयो हे
कोटिशो रुद्रा हे भवानीनाथ हे एकादश रुद्रा हे गन्धर्वा ॥
हे वासुक्यादिनागेन्द्रा हे निवातकवचा हे वरुण
हे कामधेनो भूम्यां भरतखंडे यदुकुलेऽवतरंतं मां
यूयं सर्वे सर्वदा एत्य मम दर्शनं कुरुत ॥१४॥
प्राड्विपाक उवाच -
इत्याज्ञप्ताः सर्वे स्वं स्वं धाम समाजग्मुस्तेषु
गतेषु नागकन्यायूथान् भगवाननन्तः प्राह -
युष्माकमभिप्रायो मया ज्ञातस्तपसा गोपालानां
गृहेषु जन्मानि प्राप्य मद्दर्शनं कुरुत ॥१५॥
कदाचित्कलिंदनंदिनीकूले विहारमाधुर्य्यमूले
युष्माभिः सह रासमण्डलं करिष्यामि युष्माकं
मनोरथः सफलो भविष्यति ॥१६॥
अथ निवातकवचानां राजा कलिः स्वामिपादकृत-
मस्तकांजलिः प्रदत्तपुष्पावलिः श्रीभगवन्तं प्रत्युवाच ॥१७॥
अहं हि करिष्यामि मय्याज्ञां कुरु ॥ भगवन्
यत्र त्वं गमिष्यामि तत्राप्यहं गमिष्यामि ह
वाव त्वद्वियोगेन महान् खेदो भविष्यति सहैव
मां नय त्वं भक्तवत्सलोऽसि ॥१८॥
एवं संप्रार्थितो भगवाननन्तः कलिं राजानं
स्वभक्तं प्रसन्नः प्रत्युवाच - सुखेन त्वं
मत्सहेहागच्छ भरतखण्डे कौरवेन्द्राणां कुले
धृतराष्ट्रस्य पुत्रो भूत्वा दुर्योधनो नाम
चक्रवर्ती भविष्यसि त्वत्सहायमहं
करिष्यामि गदाशिक्षां च दास्यामि ॥१९॥
इत्युक्तः कलिस्तं नमस्कृत्य स्वधाम गतवान् सैष
कलिस्त्वं जातोऽसि विष्णुमायया स्वात्मानं न स्मरसि ॥२०॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे
संकर्षणगमनमंत्रो नाम द्वितीयोऽध्यायः ॥२॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
N/A
References : N/A
Last Updated : May 21, 2021
TOP