संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|तृतीयः भागः| विद्रध्यधिकारः तृतीयः भागः शूलाधिकारः उदावर्त्तानाहाधिकारः गुल्माधिकारः प्लीहयकृदधिकारः हृद्रोगाधिकारः मूत्रकृच्छ्राधिकारः मूत्राघाताधिकारः अश्मरीरोगाधिकारः प्रमेहपिडिकाऽधिकारः स्थौल्याधिकारः कार्श्याधिकारः उदराधिकारः शोथाधिकारः वृद्धिब्रध्नाधिकारः गलगण्डगण्डमालाग्रन्थ्यर्बुदाधिकारः श्लीपदाधिकारः विद्रध्यधिकारः व्रणशोथाधिकारः भग्नाधिकारः तृतीयः भागः - विद्रध्यधिकारः भावप्रकाशसंहिता Tags : aayurvedbhavprakash samhitasamhitaआयुर्वेदभावप्रकाश संहितासंहिता विद्रध्यधिकारः Translation - भाषांतर अथ षट्चत्वारिंशत्तमो विद्र ध्यधिकारः ॥४५॥त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताःदोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ॥१॥महामूलं रुजावन्तं वृत्तं वाऽप्यथ वाऽयतम्स विद्र धिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥२॥विद्र धिषड्विधत्वं विवृणोतिपृथग् दोषैः समस्तैश्च क्षतेनाप्यसृजा तथाषण्णामपि हि तेषां तु लक्षणं सम्प्रचक्ष्यते ॥३॥कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनःचिरोत्थानप्रपाकश्च विद्र धिर्वातसम्भवः ॥४॥पक्वोदुम्बरसंकाशःश्यावो वा ज्वरदाहवान्क्षिप्रोत्थानप्रपाकश्च विद्र धिः पित्तसम्भवः ॥५॥शरावसदृशः पाण्डुः शीतः स्निग्धोऽल्पवेदनःचिरोत्थानप्रपाकश्च विद्र धिः कफसम्भवःतनुपीतसिताश्चैषामास्रावाः क्रमतो मताः ॥६॥नानावर्णरुजास्रावी घाटालो विषमो महान्विषमं पच्यते वाऽपि विद्र धिः सान्निपातिकः ॥७॥तैस्तैर्भावैरभिहते क्षतेवाऽपथ्यकारिणाम्क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ॥८॥ज्वरस्तृषा च दाहश्च जायते तस्य देहिनःआगन्तुर्विद्र धिर्ह्येष पित्तविद्र धिलक्षणः ॥९॥कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरःपित्तविद्र धिलिङ्गस्तु रक्तविद्र धिरुच्यते ॥१०॥आभ्यन्तरानतस्तूर्ध्वं विद्र धीन् परिचक्षतेगुर्वसात्म्यविरुद्धान्नशुष्कशाकाम्लभोजनैः ॥११॥अतिव्यवायव्यायामवेगाघातविदाहिभिःपृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् ॥१२॥वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्र धिम्गुदे वस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा ॥१३॥वृक्कयोः प्लीह्नि यकृति हृदि वा क्लोम्नि चाप्यथएषां लिङ्गानि जानीयाद् बाह्यविद्र धिलक्षणैः ॥१४॥गुदे वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रतानाभ्यां हिक्काजृम्भणं च कुक्षौ मारुतकोपनम् ॥१५॥कटिपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्र धौवृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् ॥१६॥सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायतेश्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः ॥१७॥नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः ॥१८॥अधःस्रुतेषु जीवेत्तु स्रुतेषूर्ध्वं न जीवतिहृन्नाभिवस्तिवर्ज्येषु तेषु भिन्नेषु वाह्यतःजीवेत् कदाचित्पुरुषो नेतरेषु कदाचन ॥१९॥साध्या विद्र धयः पञ्च विवर्ज्यः सान्निपातिकःआमपक्वविदग्धत्वं तेषां ज्ञेयञ्च शोथवत् ॥२०॥जलौकापातनं शस्तं सर्वस्मिन्नेव विद्र धौरेको मृदुर्लङ्घनञ्च स्वेदः पित्तोत्तरं विना ॥२१॥अपक्वे विद्र धौ युञ्ज्याद् व्रणशोथवदौषधम्वातघ्नमूलकल्कैस्तु वसातैलघृतान्वितैः ॥२२॥सुखोष्णैर्बहुलैर्लेपः प्रयोज्यो वातविद्र धौयवगोधूममुद्गैश्च पिष्टैराज्येन लेपयेत् ॥२३॥विलीयते क्षणेनैव ह्यविपक्वस्तु विद्र धिः ॥२४॥पैत्तिकं विद्र धिं वैद्यः प्रदिह्यात्सर्पिषा युतैःपयस्योशीरमधुकचन्दनैर्दुग्धपेषितैः ॥२५॥पञ्चवल्कलकल्केन घृतमिश्रेण लेपयेत्पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् ॥२६॥इष्टिका सिकता लोहकिट्टं गोशकृता सहमूत्रैः सुखोष्णैर्लेपेन स्वेदयेच्छ्लेष्मविद्र धिम् ॥२७॥दशमूलीकषायेण सस्नेहेन रसेन वाशोथव्रणं वा कोष्णेन सशूलं परिषेचयेत् ॥२८॥पित्तविद्र धिवत्सर्वाः क्रिया निरवशेषतःविद्र ध्योः कुशलः कुर्याद्र क्तागन्तुनिमित्तयोः ॥२९॥रक्तचन्दन मञ्जिष्ठानिशा मधुकगैरिकैःक्षीरेण विद्र धौ लेपो रक्तागन्तुनिमित्तके ॥३०॥पीता ह्येते निहन्त्याशु विद्र धिं कोष्ठसम्भवम्कृष्णाऽजाजी विशाला च धामार्गवफलं तथा ॥३१॥श्वेतवर्षाभुवो मूलं मूलं वा वरुणस्य चजलेन क्वथितं पीतमन्तर्विद्र धिहृत्परम् ॥३२॥गायत्रीत्रिफलानिम्बकटुकामधुकं समम्त्रिवृत्पटोलमूलाभ्यां चत्वारॐऽशा पृथक् पृथक् ॥३३॥मसूरान्निस्तुषान्दद्यादेष क्वाथो व्रणाञ्चयेत्गुल्मविद्र धिबीसर्पदाह मोहज्वरापहः ॥३४॥तृण्मूर्च्छाच्छर्दिहृद्रो गपित्तासृक्कुष्ठकामलाःशिग्रुमूलं जले धौतं पिष्टं वस्त्रेण गालयेत्तद्र सं मधुना पीत्वा हन्त्यन्तर्विद्र धिं नरः ॥३५॥शोभाञ्जनकनिर्यूहोहिङ्गुसैन्धवसंयुतःहन्त्यन्तर्विद्र धिं शीघ्रं प्रातः प्रातर्विशेषतः ॥३६॥इति षट्चत्वारिंशत्तमो विद्र ध्यधिकारः समाप्तः ॥४५॥ N/A References : N/A Last Updated : May 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP