तृतीयः भागः - अश्मरीरोगाधिकारः

भावप्रकाशसंहिता


अथ सप्तत्रिंशोऽश्मरीरोगाधिकारः ॥३७॥
वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजा मता
प्रायः श्लेष्माश्रयाः सर्वा अश्मर्यः स्युर्यमोपमाः ॥१॥
विशोषयेद्वस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा
यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः ॥२॥
नैकदोषाश्रयाः सर्वा अथासां पूर्वलक्षणम्
वस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक्
मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः ॥३॥
सामान्यलिङ्गं रुग् नाभिसेवनीवस्तिमूर्द्धसु
विशीर्णधारं मूत्रं स्यात्तया मार्गनिरोधने ॥४॥
तद्व्यपायात्सुखं मेहेदच्छं गोमेदकोपमम्
तत्संक्षोभात्क्षते सास्रमायासाच्चातिरुग्भवेत् ॥५॥
तत्र वाताद् भृशं चार्त्तो दन्तान्खादति वेपते
मृद्नाति मेहनं नाभिं पीडयत्यनिशं क्वणन् ॥६॥
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः
श्यावा रूक्षाश्मरी सा स्यात्सञ्चिता कण्टकैरिव ॥७॥
तस्याः पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते ॥८॥
शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः
काश्मर्यारग्वधफलैः क्वाथं कृत्वा विचक्षणः ॥९॥
रामठक्षारलवणचूर्णं दत्वा पिबेन्नरः
अश्मरीमूत्रकृच्छघ्नं दीपनं पाचनं परम्
हन्यात्कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्रजम् ॥१०॥
एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः
शृतं पिबेदश्मजतु प्रगाढं सशर्करे चाश्मरिमूत्रकृच्छ्रे ॥११॥
वरुणस्य त्वचं श्रेष्ठां शुण्ठीं गोक्षुरसंयुताम्
यवक्षारगुडं दत्वा क्वाथयित्वा पिबेद्धिमम्
अश्मरीं वातजां हन्ति चिरकालानुबन्धिनीम् ॥१२॥
पाषाणभेदो वसुको वशिरोऽश्मन्तकस्तथा
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ॥१३॥
कपोतवङ्कार्त्तगलकाञ्चनोशीरगुन्द्र काः
वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम् ॥१४॥
यवाः कुलत्थाः कोलानि कतकस्य फलानि च ॥१५॥
ऊषकादिप्रतीवापमेषां क्वाथे शृतं घृतम्
भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु ॥१६॥
क्षारान्यवागूः पेयाश्चकषायांश्च पयांसि च
भोजनानि प्रकुर्वीत वर्गेऽस्मिन्वातनाशने ॥१७॥
वीरवृक्षोग्निमन्थश्च काशवृक्षादनीकुशाः
मोरटेन्दीवरीसूर्यभक्तागोक्षुरटुण्टुकाः ॥१८॥
वसुको वशिरो दर्भशैरीयावश्मभेदकः
गुन्द्रो नलः कुरुण्टश्च गणो वीरतरादिकः ॥१९॥
अश्मरीशर्कराकृच्छ्रमारुतार्त्तिहरो मतः
बृहद्वाते वीरतरस्तदभावे मतः शरः ॥२०॥
पित्तेन दह्यते वस्तिः पच्यमान इवोष्मणा
भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरी ॥२१॥
अथ पित्ताश्मरीचिकित्सा
कुशः काशः शरो गुन्द्र इत्कटो मोरटाश्मभित्
दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः ॥२२॥
भल्लुकः पाटला पाठा पत्तूरोऽथ कुरुण्टकः
पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम् ॥२३॥
घृतं शिलाऽह्वमधुकैर्बीजैरिन्दीवरस्य च
त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम्
भिनत्ति पित्तसंभूतामश्मरीं क्षिप्रमेव च ॥२४॥
क्षारान्यवागूः पेयाश्च कषायांश्च पयांसि च
भोजनानि च कुर्वीत वर्गेऽस्मिन्पित्तनाशने ॥२५॥
मधुकः कृतह्रस्वत्वाद्वीजैर्बीजकमुच्यते
शिलाजतु शिलाऽह्व स्यात्पटीरो गुत्थगुन्द्र कौ ॥२६॥
कुर्यात्क्षीरादिकं क्वाथे तस्मिन्क्षेपमावापकैः
वर्गत्वेन यथालाभं परिभाषा प्रवर्त्तते ॥२७॥
वस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः
अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता ॥२८॥
एता भवन्ति बालानां तेषामेव तु भूयसा
आश्रयोपचयाल्पत्वाद् ग्रहणाहरणे सुखाः ॥२९॥
अथ कफाश्मरीचिकित्सा
गणे वरुणकादौ तु गुग्गुल्वेलाहरेणुभिः
कुष्ठभद्रा ह्वमरिचचित्रकैः ससुराह्वयैः
एतैः सिद्धमजासर्पिरुषकादिगणेन च ॥३०॥
भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव च
शट्यादिस्तेन चात्रेष्टो गणः श्यामाऽदिको बुधः ॥३१॥
वरुणार्त्तगलौ शिग्रुस्तर्कारीनक्तमालकौ
मोरटारणिबिल्वाश्च बिम्वीवसुकचित्रकाः ॥३२॥
शैरीयो वशिरोऽक्षीवश्चाजशृङ्गी शतावरी
दर्भो बृहतिका व्याघ्री मुनिभिः परिकीर्त्तितः
वरुणादिगणो ह्येष कफमेदोनिवारणः
विनिहन्ति शिरः शूलं गुल्माभ्यन्तरविद्र धीन् ॥३४॥
क्षारान्यवागूः पेयाश्च कषायाश्च पयांसि च
भोजनानि च कुर्वीत वर्गेऽस्मिन्कफनाशने ॥३५॥
शुक्राश्मरी तु महती जायते शुक्रधारणात् ॥३६॥
स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः
शोषयित्वोपसंहृत्य शुक्रं तच्छुक्रमश्मरी ॥३७॥
वस्तिरुक्कृच्छ्रमूत्रत्वमुष्कश्वयथुकारिणी
तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते
पीडिते त्ववकाशेऽस्मिन्नश्मर्येव च शर्करा ॥३८॥
सा भिन्नमूर्त्तिर्वातेन शर्करेत्यभिधीयते ॥३९॥
अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे
निरेति सह मूत्रेण प्रतिलोमे निरुध्यते
मूत्रस्रोतःप्रवृत्ता सा सक्ता कुर्यादुपद्र वान् ॥४०॥
दौर्बल्यं सदनं कार्श्यं कुक्षिरोगमथारुचिम्
पाण्डुत्वमुष्णवातञ्च तृष्णां हृत्पीडनं वमिम् ॥४१॥
प्रसूननाभिवृषणं बद्धमूत्रं रुजाऽतुरम्
अश्मरी क्षपयत्याशु शर्करा सिकताऽन्विता ॥४२॥
शुक्राश्मर्यान्तु सामान्यो विधिरश्मरिनाशनः
यवक्षारगुडोन्मिश्रं रसं पुष्पफलोद्भवम् ॥४३॥
पिबेन्मूत्रविबन्धघ्नं शर्कराऽश्मरिनाशनम्
तिलापामार्गकदलीपलाशयवबिल्वजः ॥४४॥
क्वाथः पेयोऽविमूत्रेण शर्कराऽश्मरिनाशनः ॥४५॥
केबुकाङ्कोलकतकशाकेन्दीवरजैः फलैः
पीतमुष्णाम्बु सगुडं शर्करां पातयत्यधः ॥४६॥
पाषाणभिद्गोक्षुरकोरुवूकौ द्बे कण्टकार्ये क्षुरकाह्वमूलम्
दध्ना पिबेत्क्षीरसुपिष्टमेतत् स्याद् भेदनार्थं सिकताऽश्मरीणाम् ॥४७॥
यः पिबेद्र जनीं सम्यक् सगुडां तुषवारिणा
तस्याशु चिररूढाऽपि यात्यस्तं मेढ्रशर्करा ॥४८॥
पिबतः कुटजं दध्ना पथ्यमन्नञ्च खादतः
निपतन्त्यचिरात्तस्य नियतं मेढ्रशर्कराः ॥४९॥
त्रापुसबीजं पयसा पीतं वा नारिकेरजं कुसुमम्
विण्मूत्रशर्करायां भवति सुखी कतिपयैर्दिवसैः ॥५०॥
श्वदंष्ट्रा वरुणः शुण्ठीक्वाथं क्षौद्र युतं पिबेत्
शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रहरं परम् ॥५१॥
कूष्माण्डकरसो हिङ्गुयवक्षारसमायुतः
वस्तौ मेढ्रे सशूलघ्नो मूत्रकृच्छ्रहरः परम् ॥५२॥
पुनर्नवाऽयो रजनी श्वदंष्ट्रा वरी प्रवालश्च सदर्भपुष्पः
क्षीराम्रमद्येक्षुरसप्रपिष्टो हितो भवेदश्मरिशर्करासु ॥५३॥
वरुणत्वक्छिलाभेदशुण्ठीगोक्षुरकैः कृतः
कषायः क्षारसंयुक्तः शर्कराश्च भिनत्यपि ॥५४॥
पञ्चमूल्यास्तृणाख्यायास्तथा गोक्षुरकस्य तु
पृथग्दशपलान्भागाञ्जलद्रो णे विपाचयेत् ॥५५॥
तत्सिद्धं मूत्रदोषेषु शर्करास्वश्मरीषु च
चतुर्भागावशिष्टेन घृतप्रस्थं विपाचयेत्
गुडगोक्षुरबीजञ्च कल्कं तत्र प्रदापयेत् ॥५६॥
तत्सिद्धंमूत्रदोषेषु शर्करास्वश्मरीषु च
स्नेहने भोजने चैव प्रयोज्यं सर्पिरुत्तमम् ॥५७॥
त्वक्पत्रफलमूलस्य वरुणस्य त्रिकण्टकात्
कषायेण पचेत्तैलं वस्तिनाऽस्थापनेन च
शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रात्प्रमुच्यते ॥५८॥
कुशाग्निमन्थशैरीयनल दर्भेक्षुगोक्षुराः
कपोतवङ्कावसुकवशि रेन्दीवरीशराः ॥५९॥
धातक्यरलुवन्दाकाः कर्णपूराश्मभेदकाः
एषां कल्ककषायाभ्यां सिद्धं तैलं प्रयोजयेत् ॥६१॥
पानाभ्यञ्जनयोगेन वस्तिनोत्तरवस्तिना
शर्कराश्मरिरोगेषु मूत्रकृच्छ्रं च दारुणे ॥६१॥
प्रदरे योनिशूले च शुक्रदोषे तथैव च
वन्ध्यागर्भप्रदं प्रोक्तं तैलमेतत्कुशादिकम् ॥६२॥
नागरवारुणगोक्षुर पाषाणभित्कपोतवङ्कजः क्वाथः
गुडयवशूकविमिश्रः पीतो हन्त्यश्मरीमुग्राम् ॥६३॥
त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम्
अविक्षीरेण सप्ताहं पेयमश्मरिनाशनम् ॥६४॥
पिबेद्वरुणजं मूलं क्वाथं तत्कल्कसंयुतम्
क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिनाशनः ॥६५॥
शृङ्गवेरयवक्षार पथ्याकालीयकान्वितः
दधिमण्डो भिनत्त्युग्रामश्मरीमाशु पानतः ॥६६॥
पाषाणभेदवरुणगोक्षुरककपोतवङ्कजः क्वाथः
गिरिजतुगुडप्रगाढः कर्कटिकात्रपुसबीजयुतः ॥६७॥
पेयोऽश्मरीमवश्यं दुर्भेदामपि भिनत्ति योगवरः
शिखरिणमिव शतकोटिः शतमन्योर्हस्तनिर्मुक्तः ॥६८॥
श्रीकरिणीफलबीजं पिष्टं मथितेन यः पुमानद्यात्
शाकमशितमथवाऽस्या हन्याद् रोगाश्मरीपीडाम् ॥६९॥
श्वदंष्ट्रैरण्डबीजानि नागरं वरुणत्वचः
एतत्क्वाथवरं प्रातः पिबेदश्मरिनाशनम् ॥७०॥
रक्तोद्भवे रुक्षमृणालतालकाशेक्षुबालेक्षुकुशोदकानि
पिबेत्सिताक्षौद्र युतानि खादेद्विदारिमिक्षुत्रपुसानि चैव ॥७१॥
पलान्यष्टौ तु कुर्वीत क्षाराणां वरुणत्वचाम्
तदर्द्धं यावशूकन्तु ततोऽप्यर्द्धं गुडात्स्मृतम् ॥७२॥
एकीकृत्य विमृद्यैतत्खादेत्कर्षप्रमाणतः
घर्माग्बुपानतोऽवश्यं कृच्छ्राश्मरिविनाशनम् ॥७३॥
वरुणकभस्मपरिस्रुतसलिलं तच्चूर्णं यावशूकयुतम्
क्वथनीयं तत्तावद्यावच्चूर्णत्वमायाति ॥७४॥
तद्गुडयुक्तं हन्यात्तदुदारामश्मरीं घोराम्
प्लीहानं गुल्मवरं श्रोण्यां कुक्षौ रुजां तीव्राम् ॥७५॥
आमचयं बस्तिगदान्कृच्छ्रं वा वातजं घोरम्
वह्निसदनं सुकष्टामश्ममयीमश्मरीञ्चाशु ॥७६॥
नो जग्धं कृमिभिर्घनं सुतरुणं स्निग्धं शुचिस्थानजं
घस्रे पुण्यनिरीक्षिते वरुणकं छित्वा तुलां ग्राहयेत्
संगृह्माशु चतुर्गुणासु विपचेत्पादावशेषं जलं
तत्तुल्येन गुडेन वै दृढतरे भाण्डे पचेत्तत्पुनः ॥७७॥
ज्ञात्वैवं घनतां गुडे परिणते प्रत्येकमेषां पलं
शुण्ठ्येर्वारुकबीजगोक्षुरकणापाषाणभिच्छीतलाः
कूष्माण्डात्रपुसाक्षबीजकुनटीवास्तूकशोभाञ्जनैः
द्रा क्षैलागिरिजाभयाकृमिहृतां चूर्णीकृतानां क्षिपेत् ॥७८॥
पथ्याशी प्रतिवासरं गुडममुं युञ्ज्यात्प्रमाणं नरः
खादेत्तस्य समस्तदोषजनिताश्मर्यः पतन्ति द्रुतम् ॥७९॥
कुलत्थसिन्धूत्थविडङ्गसारं सशर्करं शीतलियावशूकम्
बीजानि कूष्माण्डकगोक्षुराभ्यां घृतं पचेत्तद्वरुणस्य तोये ॥८०॥
दुःसाध्यसर्वाश्मरिमूत्रकृच्छ्रं मूत्राभिघातञ्च समूत्रबन्धम्
आमूलमेतानि निहन्ति शीघ्रं प्ररूढवृक्षानिव वज्रपातः ॥८१॥
शरादिपञ्चमूल्या वा कषायेण पचेद् घृतम्
प्रस्थं गोक्षुरकल्केन सिद्धमद्यात्सशर्करम्
अश्मरीमूत्रकृच्छघ्नं रेतोमार्गरुजाऽपहम् ॥८२॥
वरुणस्य तुलां क्षुण्णां जलद्रो णे विपाचयेत्
पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत् ॥८३॥
वरुणं कदलद्यं बिल्वं तृणजं पञ्चमूलकम्
अमृतां चाश्मभेदञ्च बीजञ्च त्रपुसस्यच ॥८४॥
शतपर्वा तिलक्षारं पालाशक्षारमेव च
यूथिकायाश्च मूलानि कार्षिकाणि समावपेत् ॥८५॥
अस्य मात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया ॥८६॥
जीर्णे चास्मिन्पिबेत्पूर्वं गुडं जीर्णञ्च मस्तु च
अश्मरीं शर्कराञ्चैव मूत्रकृच्छ्रञ्च नाशयेत् ॥८७॥
सैन्धवाद्यन्तु यत्तैलमृषिभिः परिकीर्त्तितम्
तत्तैलं द्विगुणं क्षीरं पचेद्वीरतरादिना ॥८८॥
क्वाथेन पूर्वकल्केन साधितन्तु भिषग्वरैः
एतत्तैलवरं श्रेष्ठमश्मरीणां निवारणम् ॥८९॥
मूत्राघाते मूत्रकृच्छ्रे पिच्चिते मथिते तथा
भग्ने श्रमाभिपन्ने च सर्वथैव प्रशस्यते ॥९०॥
वीरावृक्षाश्म भेदाग्निमन्थश्योनाकपाटलाः
वृक्षादनीसहैरण्ड भल्लूकोशीरपद्मकम् ॥९१
कुशकाशशरेक्षूणामास्फोताकोकिलाक्षयोः
शतावरी श्वदंष्ट्रा च सेत्कटाह्वयवञ्जुलाः ॥९२॥
कपोतवङ्का श्रीपर्णी काश्मरीमूलसंयुता
एतैः कषायैः कल्कैश्च तैलं धीरो विपाचयेत् ॥९३॥
वातपित्तविकारेषु वस्तिं दद्याद्विचक्षणः
शर्कराऽश्मरिशूलघ्नं मृत्रकृच्छ्रविनाशनम् ॥९४॥
पुनर्नवाऽमृता भीरुसक्षारलवणत्रयैः
शटीकुष्ठवचा मुस्तरास्नाकट्फलपौष्करैः ॥९५॥
यवानीहपुषाहिङ्गु शताह्वासाजमोदकैः
विडङ्गातिविषायष्टी पञ्चकोलकसंयुतैः ॥९६॥
एतैरक्षसमैः कल्कैस्तैलप्रस्थं विपाचयेत्
गोमूत्रं द्विगुणं देयं काञ्जिकं तद्वदेव तु ॥९७॥
पुनर्नवाऽद्यमित्येतत्तैलं पानेन वस्तिना
शर्कराऽश्मरिशूलघ्नं मूत्रकृच्छ्रप्रमोचनम् ॥९८॥
कठ्यूरुवस्तिमेढ्रस्य कुक्षिवङ्क्षणसंयुतम्
कफवातामशूलघ्नमन्त्रवृद्धेश्च नाशनम् ॥९९॥
ब्रध्नाधिकारनिर्दिष्टं सैन्धवाद्यमिहेष्यते
सर्वदैवोपयोज्यस्तु गणो वीरतरादिकः ॥१००॥
घृतैः शीतैः कषायैश्च क्षीरैश्चोत्तरवस्तिभिः
बलवत्यो न शाम्यन्ति प्रत्याख्याय समुद्धरेत् ॥१०१॥
यदृच्छया मूत्रमार्गमायान्त्यस्त्वन्तराश्रिताः
स्रोतसाऽपहरेच्छित्त्वा बडिशेनाथ चोद्धरेत् ॥१०२॥
इति सप्तत्रिंशोऽश्मरीरोगाधिकारः समाप्तः ॥३७॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP