१६
अरुन्धत्य: सं वदन्ते गाव: प्रव्राजिनीरिव ।
यमातुरमभिगच्छामावतं कृणु मावतं ॥१॥
इमं मे त्वं जरामृत्युं पुरुषं कृण्वोषधे ।
राज्ञी हि सर्वासामस्योषधीनामरुन्धती ॥२॥
त्रायमाणा ह्यसि जीवला वीर्यावती ।
अरुन्धति त्चामाहार्षमितो मा पारयानिति ॥३॥
दिग्धेन च विद्धस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥४॥
आहेयेन च दष्टस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥५॥
वातीकारेण च क्षिप्तस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥६॥
भवेन च क्षिप्तस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥७॥
शर्वेण च क्षिप्तस्याघस्थाघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥८॥
रुद्रेण च क्षिप्तस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥९॥
पशुपतिना च क्षिप्तस्याघस्याघविषा च या॥
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥१०॥

१७
उग्रेण च देवेन च क्षिप्तस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥१॥
महादेवेन च क्षिप्तस्यघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥२॥
ईशानेन च क्षिप्तस्याघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥३॥
यत् पृथिव्यां विषं वीरुत्स्वधि यद्विषम् ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥४॥
यदोषधीभ्य: संभरन्ति ब्रह्माणो मेनये विषम् ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥५॥
यद् ब्राह्मणाः संभरन्ति तृष्टमाशीविषं विषम् ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥६॥
य: क्षिप्तो मृत्युनायस्मैर्यो दष्टस्तृष्टदंश्मभि: ।
अरुन्धति त्वं तस्यासि विषस्य विषदूषणी ॥७॥
सं जिहीष्वामुक्था यक्ष्मादारुक्षो लोकमुत्तमम् ।
अपा जीवसि पात्रेणाधि जीवपुरा इहि ॥८॥

१८
अप्सरसो वि वो यकृद्वि वो भिनद्मि मेहनं ।
वि चण्डालं व्यर्जुनं वि ववृत्रं भिनद्मि वः ॥१॥
विश्जन्या: पाञ्चजन्या महारुक्मा: शिखण्डिनी: ।
सर्वा इन्द्रस्य वज्रेण हता बुद्बुदयात्तव:॥२॥
अन्धाचीमसिताचीमुलूखलस्य बुध्नेन ।
अवैतं वत्सपं जहि ॥३॥
दूरादेना: प्रत्यपश्यप्रापतन्तीरथो दिव: ।
देवानां हव्यमोहनीरिन्द्रो अप्सरसो हनत् ॥४॥
आ हता अप ता इतः खलादिव यातुधान्य: ।
अमुं गच्छत पूरुषं समुद्रमपगच्छति ॥५॥
दिवं गच्छन्तु दिव्या: सरो गच्छन्तु सारसी: ।
उलुङ्गलस्य यो गृहस्तदु गच्छन्त्वासुरीः ॥६॥
आस्कन्दिके विस्कन्दिके पराचीरप नृत्यतु ।
सारङ्गेण शुना सह ॥७॥
यः सारङ्गो हिरण्यदन् श्वा दिव्यः परिप्लवः ।
तस्याहं नाम जग्रभास्मा अरिष्टतातये ॥८॥
अद्यां ते विरणी पराचीरप नृत्यत ।
शृणामि घोरा व: पृष्टी ब्रह्मणा किकसा उत ॥९॥
एकत्रिंशदश्वतीश्चतस्र उत गुङ्गुव
शिवा दश शृता दश केशिनीः पञ्चविंशतिः ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नम ॥१०॥


१९
या: प्रेङ्खे प्रेङ्खयन्ते सन्ताने मालवा इव ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नम : ॥१॥
या: पुरस्तादाचरन्ति साकं सूर्यस्य रश्मिभिः ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥२॥
या अधरादाचरन्त्यनसा छदिसा सह ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥३॥
या: पश्चादाचरन्त्यन्धेन तमसा सह।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः १४।
या उत्तरादाचरन्ति वर्षेण विद्युता सह ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥५॥
या अधस्तादुद्वीक्षन्ते साच्यक्षि करिक्रती: ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नम ६॥
या उपरिष्टादवेक्षन्ते नीलव्यक्तानि बिभ्रती: ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः॥७।
या अन्तरिक्ष ईरयन्ति वातेन रेष्मणा सह ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥८॥
या नदी: प्रतिगाहन्ते संरभ्य कन्या इव ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥९॥
यास्तीर्थानि विगाहन्ते ऽघ्न्या: श्वसतीरिव ।
इदमुलुङ्कलुकाभ्यो अप्सराभ्यो ऽकरं नम: ॥१०॥
या: समुद्रादुच्चरन्त्युच्चैर्घोषान् करिक्रती: ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः॥११॥
या गच्छन्ति जनंजनमिच्छन्तीः प्रयुतं बहु ।
इदमुलुङ्गुलुकाभ्यो अप्सराभ्यो ऽकरं नमः ॥१२॥
(इति अष्टादशर्चोनाम पञ्चदशकाण्डे चतुर्थो ऽनुवाकः)

२०
त्वज्जाता रुद्र शन्तमा त्वं हि नो बभूर्या भेषजेभिः। बभु
व्यक्ष्मां यावयास्मद् व्यंहो व्यमीवाश्चातयास्मद्विषूचीः ॥१॥
त्वं देवानामसि रुद्र श्रेष्ठस्तवस्तमस्तवसामुग्रबाहो।
हृणीयसा मनसा मोदमान आ बभूविथ रुद्रस्य सूनोः ॥२॥
त्वं हि नो वीराङ् ईरय भेषजेभिरुरुं नो भवन्तमघवो मरुत्वं ।
करा न: पारमंहस: स्वस्ति विश्वा अभीतीरप सेधास्मत् ॥३॥
त्वं हि नो वृषभ चक्षिमेष्ठा अस्मै रुद्रायोग्राय मीढुषे ।
क्षयद्वीराय प्र भरामहे मतिं यथा न: शमसो द्विपदे शं चतुष्पदे ॥४॥
क्व तेषु रुद्र हस्तो मृडयाको जलाषः ।
अपभर्ता रपसो दैव्यस्य ॥५॥
प्र यक्ष्मः प्र निर्ऋतिरेत्वस्मत् सेनेव सृष्टा प्र चताममीवा ।
आराद्धत् सना वृजना जहीति ॥६॥
अर्हन् धनुर्हितं बिभर्ष्यर्हन् निष्कं रजतं विश्वरूपम् ।
अर्हन्निदं दयसे विश्वमेजन्न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वान् परि पश्यसि भूमिम् ॥७॥
नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।
नमस्ते अस्त्वश्मने येन प्रदिशमस्यसि ॥८॥
मा देवानामुग्र राजन्नस्माकं पुरुषा रिषन् ।
रक्षांस्यस्मद् यक्ष्मांश्च नाशयामसि ब्रह्मणा ॥९॥
ब्रह्मणेतो नाशयामो यत् किञ्चाङ्गेष्वामयत् ।
शल्यां यक्ष्मस्याथो रोपीस्ता इतो वि नयामसि ॥१०॥

२१
नयामि वां पशुपती घृतेनाज्येन वर्धयन् ।
यं दिष्मो यश्च नो द्वेष्टि तस्य वेश: करिष्यथ: ॥१॥
अधि ब्रूतं पशुपती द्विपदे मे चतुष्पदे।
प्रसूतौ यत्र जघ्नतुस्ततो मेमातरं रिषत् ॥२॥
या वां रुद्र: शिवा तनू या वां सन्ति रोगणा: ।
या वामायुष्मतीस्तनूस्ताभिर्नो मृडतं युवम् ॥३॥
न प्र मिनन्ति व्रतिनो व्रतानि सत्यं जिन्वन्तो विदथा वदन्त: ।
यस्येमे रोदसी उभे संयुक्ते मनसा हृदा ॥४॥
स प्रजानां प्रजापतिः साधु रक्षति वर्षति ।
स वेद रत्नभेषजं देवेभ्यस्पर्याभृतं तेन नो मृडतं युवम् ।
जीवातवे न मर्तवे ऽथो अरिष्टतातये ॥५॥
सगुणास आसते संयुक्ता बलाय कम ।
तेषां यदिन्द्रियं बृहचतिरोचतिरोचना ॥६॥
ये ते रोचने बृहती अन्तरिक्षे अथो दिव: ।
ताभ्यामुप प्र याहि न: सर्ववीरा ङ अरिष्यतः ॥७॥
सर्ववीरा अरिष्यन्तो रोचने अधि तस्थिम ।
यथा नस्तृष्णमद्वसु दिवि क्षिपद्भ्यो अप्सु या ॥८॥

२२
इन्द्राग्नी हुवे प्रथमौ हृयामि मरुतः शिवाम् ।
ह्वयामि विश्वां देवानिमं होममवन्तु मे ॥१॥
त्वं प्रथमो अमृतत्वमग्ने देवो देवत्वं प्रथमो जिगेथ ।
तव दिवि हृदयं सं बभूव स नः शिवा आपो जातवेदो नि यच्छ ॥२॥ वभूब
अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एष: ।
तस्मै जुहोमि हविषा घृतेन मा देवानां यूयवद्भागधेयम् ॥३॥
ये देवा दिवि ष्ठ ये पृथिव्यां जातवेदो य उरावन्तरिक्षे ।
ये गिरिषु पर्वतेष्वप्स्वन्तस्ते देवा अशनिं यावयाथ ॥४॥
मित्रं दिग्भिः कृणुष्व जातवेद आशाभिर्मित्रमधिपा विपश्चित् ।
मा नो हिंसीर्दिव्येनाग्निना सस्यां येन यन्ति मरुत स्पर्धमानाः ॥५॥
विद्योतमान स्तनयन् वृषेवैषि कनिक्रदत् ।
भीमः पर्जन्य ते रथः स उ न: शर्म यच्छतु ॥६॥
ये विद्युतमशनिमातन्वन्ति मरुतः सलिलादधि ।
कृष्यै नो विश्वाराया अवधन्वा नि तन्वताम् ॥७॥
यो विद्युतमशनिमातन्त्यन्तरिक्षादुत वाताद्दिवश्च ।
तेभ्यो मरुद्भ्यो नमो ऽस्त्वोजसे ॥८॥
ता यन्तु स्वरंकृताः स्योना: शिवतमा: पथा ।
मा न इन्द्र यवं वधीर्मित्रमेनेन कृण्महे ! ॥९॥
दर्भो अग्र ओषधीनां शतकाण्डो अजायत । धिनां
स देवैः प्रहितो ऽयमागन् स्वस्तये वृषा मरुद्धि: सह संविदान: ॥१o॥

२३
वृषाक्षस्यासुरस्य मेनिरसि तां त्वया तथा वेद कर्णस्य कौविदस्येवमाशा।
तां माभ्यव गा द्वादशाहानि वि रक्षे ॥१॥
असिर्मे तिग्मस्यायस इन्द्राग्निभ्यां सुसंशित: ।
तेन सेधामिदादुनिं कृषिं मे माव गादिति सस्यं मे मा वधीदिति ॥२॥
मरुत: परि वृङ्धि नो दिवः क्षुद्रेभिरश्मिभिः ।
उदुम्बरस्य शाखया चक्षुषाशनिं यावयामसि ॥३॥
मरुतो मृडयात नो दिव: शुक्रेभिरश्मिभि: ।
उदुम्बरस्य शाखया विचक्षुषाशनिं यावयामसि ॥४॥
वर्ताद्वर्तमा क्राम पर्वतादधि पर्वतम्।
गिरौ प्रतिशृता सती वृक्षान् भङ्धि मा यवम् ॥५॥
अदाम्ना त्वा सन्द्यामि यावण्या परिभूर्ण्या । i
सानौ प्रतिशृता सती तृणं भङधि मा यवम् ॥६॥
उशती नामासि सलिन्दा नाम । .
अन्यामासां गच्छ यं द्विष्मस्तं गच्छ ॥७॥
पराचीमनु संवतं पराचीमनु संविद पराच्यनु नि द्रव ।
इतस्त्वा नाशयामसि ब्रह्मणा वीर्यावता ॥८॥
वार्भवोदकं भवोदकस्योदकं भव ।
क्षुद्रात् क्षोदीयसि भूत्वाथेह्यधमं तमः ॥९॥
स्योना भव शिवा भव शिवाच्छिवतरा भव ।
फेनान्मृदीयसी भूत्वेदं शस्यमुपा चर ॥१०॥
नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।
नमस्ते अग्ने दूरेहेते कृण्मो मा नो हिंसीर्द्विपदो मा चतुष्पद:॥११॥
प्रति त्वा सहसासह: सहसा प्रति रुध्मसि ।
ऐन्द्रमिदं सहो महद् भूम्यास्तवं दिवि श्रितम् ।
अफालकृष्टमा क्राम मा न इन्द्र यवं वधीः ॥१२॥
या: समुद्रादुच्चरन्त्युत्सेभ्यो या नदीभ्यः ।
अत्यन्तः सर्पो वैद्युतो ऽशनिं यावयादितः ॥१३॥
(इति अष्टादशर्चोनाम पञ्चदशकाण्डे पञ्चमो ऽनुवाकः)
इत्यथर्ववेद पैप्पलादसंहितायां अष्टादशर्चोनाम पञ्चदशकाण्डः समाप्तः

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP