संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|अष्टादशर्चोनाम पञ्चदशकाण्ड:| ६ ते १० अष्टादशर्चोनाम पञ्चदशकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २३ पञ्चदशकाण्ड: - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६परि धत्त धत्त वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥१॥जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिवा उ ।शतं च जीव शरदः सुवर्चा रायस्योषमुप सं व्ययस्व ॥२॥परीदं वासो अपि धा: स्वस्तये ऽभूर्वापीनामभिशश्तिपा उ ।शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥१३॥योगेयोगे तवस्तरं वाजेवाजे हवामहे ।सखाय इन्द्रमूतये ॥४॥हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥५॥यदोत्तमत्तन्तुबद्धाय नावद्वास: पूर्वयावत् पुरुरूपपेश: ।भद्रातीकासमजरं सुवीरं तेन ते देवा: प्र तिरन्त्वायुः ॥६॥यस्य ब्रह्माण: सिचमारभन्ते श्रथ्नन्तो नीवं प्रतिरन्त आयुः।तस्य देवा देवहूतिं जुषन्तां स विश्वहा सचतां स्वस्ति ॥७॥अन्यदा धत्स्व परि धत्स्व वास इममुल्वमपलंपामि यस्ते ।जरसे त्वामृषयः सं व्ययन्तु सूर्यो भगस्ते प्र तिरन्त्वायु ॥८॥यस्य देवासः प्रथमवास्यं हरामि तं त्वा विश्वे अवन्तु देवाः।तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥९॥अहतेनाहतो भव स्थिर स्थिरेण सं भव ।प्र मृणीहि दुरस्यतः सहस्व पृतनायतः ॥१०॥७मित्रः पृथिव्या अध्यक्षः॥स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषि: स्वाहा ॥१॥हुत्यावरुणो ऽपामध्यक्षः ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥२॥हुत्यावायुरन्तरिक्षस्याध्यक्षः ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषि: स्वाहा ॥३॥सूर्यो दिवो ऽध्यक्षः ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥४॥चन्द्रमा नक्षत्राणामध्यक्षः ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥५॥वसुः संवत्सराणामध्यक्ष: ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायमस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥६॥संवत्सर ऋतूनामध्यक्षः।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥७॥अग्निर्वनस्पतीनामध्यक्षः।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यांदेवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥८॥इन्द्रः कर्मणामध्यक्षः।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥९॥सविता प्रसवानामध्यक्षः।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यांपुरोधायामस्यां देवाहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥१o॥८विष्णुः पर्वतानामध्यक्षः ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥१॥त्वष्टा रूपाणामध्यक्षः।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥२॥रुद्रः पशूनामध्यक्षः।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥३॥सोम: पयसामध्यक्ष: ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥४॥पर्जन्य ओषधीनामध्यक्षःस मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥५॥समुद्रो नदीनामध्यक्षः।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥६॥हिंकार: साम्नामध्यक्ष: ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥७॥सरस्वती वाचामध्यक्षा।सा मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥८॥पूषा पथीनामध्यक्ष: ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥९॥गायत्री छन्दसामध्यक्षा।सा मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥१०॥९बृहस्पतिर्देवानामध्यक्ष: ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥१॥प्रजापतिः प्रजानामध्यक्ष: ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥२॥यमः पितॄणामध्यक्ष: ।स मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥३॥पितरः परे वरस्ततस्ततामहः।ते मावत्वस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां देवहूत्यामस्यामाकूत्यामस्यामाशिषिः स्वाहा ॥४॥देवानां देवा देवा देवेष्वधिदेवाः परा क्रमध्वम्।प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु ॥५॥त्रिरेकादशा विश्वे वैश्वानरा महि महान्तो न मा रभध्वम् ।इदं शकेयं यदिदं कृणोमि स्वाहा ॥६॥(इति अष्टादशर्चोनाम पञ्चदशकाण्डे द्वितीयो ऽनुवाकः)१०जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे ।अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥१॥धन्वना गा धन्वनाजिं जयेम धन्वना तीव्रा: समदो जयेम ।धनुः शत्रोरपकामं कृणोतु धन्वना सर्वाः पृतना जयेम ॥२॥वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।योषेव शिङ्कते वितताधि धन्वञ्ज्या इयं समिति पारयन्ती ॥३॥ते आचरन्ती समनेव योषा मातेव पुत्रं पिपृतामुपस्थे ।अप शत्रून् विध्यतां संविदाने आर्त्नी इमे विस्फुरन्ती अमित्रान् ॥४॥बह्वीनां पिता बहुरस्य पुत्रो व्यचः कृणोति समदोऽवगत्य ।इषुधिः सङ्काः पृतनाश्च सर्वा: पृष्ठे निनद्धो जयति प्रसूतः ॥५॥रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥६॥तीव्रान् घोषान् कृण्वतां वृषपाणयो ऽश्वा रथेभिः सह वाजयन्त:।अपक्रामन्त प्रपदैरमित्रान् क्षिणन्ति शत्रून्रनपव्ययन्त ॥७॥रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म ।तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥८॥स्वादुषंसदः पितरो वयधाः कृच्छ्रेश्रित: शक्तीवन्तो गभीराः ।चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥९॥ब्राह्मणासः पितर: सोम्यासः शिवे नो द्यावापृथिवी अनेहसा ।पूषा न पातु दुरितादृतावृधो रक्षा माकिर्णो अघशंस ईशत ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP