संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चदशर्चोनाम द्वादशकाण्डः| ११ ते १५ पञ्चदशर्चोनाम द्वादशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २२ द्वादशकाण्डः - ११ ते १५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १५ Translation - भाषांतर ११पदेपदे कल्पयन्त आदित्याङ्गिरसो यजुः ।ईडाना अन्वायन्वशां तदैडं सामोच्यते ॥१॥वशेडा वशानुमतिर्वशामाहु: सरस्वतीम् ।विराजं मन्यन्ते वशां वाग्वशा पृथिवी वशा ॥२॥वशा द्वेष्टी सिनीवाली वशोषा निर्ऋतिर्वशा ।वशायां मृत्युमविशदा मृत्युमविशद्वशा ॥३॥(वशायां मन्युर् अविशत् तं मन्युम् अविशद् वशा - पाठभेदः(१३.५.२२)अग्निर्वागुदकं चक्षुर्मनो वातो वशी वशा।तन्वं को अस्यास्तां वेद ययोदक्रामदेकया ॥४॥यां चक्षुषा मनसा संविदाना हृदा पश्यन्ति कवयो मनीषिण: । पस्य तस्याः प्रजाधिपतिः पशूनां वशा राज्ञा नांतवेषा सृष्टिः ॥५॥को वशाया ऊधो वेद क उल्बं च जरायु च ।स्तनानस्या: को वेद क इ तद्वेद यद्दुहे ॥६॥अहमस्या ऊधो वेदाहमुल्बं च जरायु च ।स्ततानस्या अहं वेदाथो तद्वेद यद्दुहे ॥७॥नैनामहं रक्षेयं दद्यामेव स्याच्च मे ।स्तना ह्यस्या अहं वेद क्षीरमुल्बं च जरायु च ॥८॥कृत्तिर्योनिरधिवासो जरायु पाण्डमुल्बं नाभिरुष्णीषमस्याः ।आा जरसं धयतु मातरं वशी ब्रह्मभिः क्लृप्तः स ह्यस्य बन्धुः ॥९॥(इति पञ्चदशर्चोनाम द्वादशाकाण्डे प्रथमो ऽनुवाकः)१२इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री ।अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत् पर्वतानाम् ॥१॥अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।वाश्रा इव धेनव: स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥२॥वृषायमाणो ऽवृणीत सोमं त्रिकद्रुकेष्वपिबत् सुतस्य ।आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥३॥यदिन्द्राहन् प्रथमजामहीनामान् मायिनाममिनाः प्रोत मायाः ।आत् सूर्यं जनयन् द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥४॥अहन् वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।स्कन्धांसीव कुलिशेना विवृक्णाहि: शयदुपपृक् पृथिव्याः ॥५॥अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् ।नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥६॥अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान ।वृषणो वध्रिः प्रतिमानं बुभूषन् पुरुत्रा वृत्रो अशयद् व्यस्तः ॥७॥नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः ।याश्चिद्वृत्रो महिना पर्यतिष्ठत् तासामहि: पत्सुत:शीर्बभूव ॥८॥नीचावया अभवदवृत्रपुत्रेन्द्रो अस्या अव वधर्जभार ।उत्तरा सूरधरः पुत्र आसीद् दनुः शये सहवत्सा न धेनुः ॥९॥अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् ।वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥१०॥१३दासपत्नीरहिगोपा अतिष्ठन् निरुद्धा आपः पणिनेव गावः।अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाङ् अप तद्ववार ॥१॥अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन् देव एक: ।अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥२॥नास्मै विद्युन् न तन्यतुः सिषेध न याम्यहमकिरद्ध्रादुनिं च ।इन्द्रश्च यद् युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥३॥अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् ।नव च यन्नवतिं च स्रवन्तीः शयेनो न भीतो अतरो रजांसि ॥४॥इंद्रो यातो ऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।सेदु राजा क्षयति चर्षणीनामरान् न नेमिः परि ता बभूव ॥५॥१४यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत्।यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥यः पृथिवीं व्यथमानामदृंहद् यः पर्वतान् प्रकुपिताङ अरम्णात्।यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात् स जनास इन्द्रः ॥२॥वरोयो हत्चाहिमरिणात् सप्त सिन्धून् यो गा उदाजदपधा वलस्य ।यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः ॥३॥येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।श्वघ्नीव यो जिगीवाल्लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥४॥यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम्।सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥५॥यो रन्ध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः ।समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥यस्मान् नर्ते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः ॥९॥यः शश्वतो मह्येनो दधानानबुध्यमानान् सर्वा जघान ।यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥१०॥१५यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् ।ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्र ॥१॥यः शम्बरं पर्यचरच्छचीभिर्यो वा वृकस्य नापिबत् सुतम्।अन्तर्गिरौ यजमानं बहुं जनं यस्तंनासूरुक्षु स जनास इन्द्रः ॥२॥वहुंयः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्त सिन्धून् ।यो रौहिणमस्फुरद् वज्रबाहुर्द्यमारोहन्तं स जनास इन्द्र: ॥३॥द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते।यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥४॥यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं य: शशमानमूती ।यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥५॥यः सुन्वते पचते दुध्र आ चिद्वाजं ददर्षि स किलासि सत्यः।वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥६॥जातो व्यख्यत् पित्रोरुपस्थे भुवो न वेद जनितुः परस्य ।तविष्यमाणो न्वोजो अख्यद् व्रता देवानां स जनास इन्द्रः ॥७॥यः सोमकामो हर्यश्व आसु यस्माद्रेजन्ते भुवनानि विश्वा ।यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥८॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP