संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चदशर्चोनाम द्वादशकाण्डः| १ ते ५ पञ्चदशर्चोनाम द्वादशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २२ द्वादशकाण्डः - १ ते ५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १ ते ५ Translation - भाषांतर १अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा मरुतः पूतदक्षाः।वेदिर्बर्हिः समिधः शोशुचाना अप रक्षांस्यमुया धमन्तु ॥१॥ र्वर्हिःअयं यो रूरो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोति ।तस्मै ते ऽरणाय बभ्रवे तपुर्मघाय नमो ऽस्तु तक्मने ॥२॥तक्मन् सार्थिनमिच्छस्व वशी सन् मृडयासि नः ।अथेहि यत्र ते गृहा अनिनूर्त्तेषु दस्युषु ॥३॥यः पुरुषः पारुषेयो ऽवध्वंस इवारुण: ।तक्मानं विश्वधावीर्या अधराञ्चं परा सुव ॥४॥अधराञ्चं प्र हिणोमि नमस्कृत्वा तक्मने ।शकम्भरस्य मुष्टिहा पुनर्गच्छ महावृषान् ॥५॥महावृषान्मूजवत ओक एधि परेत्य ।व्रतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥६॥ओोको अस्य मूजवन्त ओोको अस्य महावृषाः ।याज्जातस्तक्मं तादसि बलिहिकेषु न्योचर: ॥७॥तक्ष्मन् व्याल वि गद व्यङ्ग भूरि यावय ।दासीं निष्टक्वरीमिछ तां वज्रेण समर्पय ॥८॥गिरिं गच्छ गिरिजासि गिरौ ते माहिषो गृहः ।दासीमिच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥९॥यस्त्वं शीतो अथो रूर: सह कासावीविय: ।भीमास्ते तक्मन् हेतयस्ताभि स्म परि वृङ्धि नः ॥१०॥२तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।पाम्ना भ्रातृव्येण नश्येतो मरटाङ् अभि ॥१॥गन्धारिभ्यो मूजवद्भ्य: काशिभ्यो मगधेभ्यः ।जने प्रियमिव शेवधिं तक्मानं परि दध्मसि ॥२॥नार्कविन्दान्नार्विदालान्नान्नदी वर्तकावतीम् ।व्रतानि तक्मने बूमो अन्यक्षेत्राणि वा इमाः ॥३॥अन्यक्षेत्रे न रमते सहस्राक्षो अमर्त्यः ।अभूदु प्रार्थस्तक्मा स गमिष्यति बलिहिकाम् ॥४॥अदो गच्छ मुजवतस्ततो वा घ परस्तरम् ।मा स्मातो अभ्यैर्न: पुनस्तत्त्वा तक्मन्नुप ब्रुवे ॥५॥परस्मै व त्वं चर परमस्यां परावति ।यथा नो नान्तमायसि यथा नो नाभिशोचया ॥६॥३ यथेयमुर्वी पृथिवी वृद्धैव गर्भमादधे ।एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥१॥पर्वताद्दिवो योनेर्गात्राद्गात्रात् समाशृतम् ।रेतो देवस्यदेवस्य त्सरौ पर्णमिवाधाम् ॥२॥विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतुआ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥३॥गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।गर्भं युवमश्विनास्यामा धत्तं पुष्करस्रजा ॥४॥गर्भं ते राजा वरुणो गर्भं देवो बृहस्पतिः ।गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥५॥गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धा: ॥६॥येनौषधयो गर्भिणी: पशवो येन गर्भिणः ।तेषां गर्भस्य यो गर्भस्तेन त्वं गर्भिणी भव ॥७॥वि ते ग्रन्थिं चृतामसि धाता गर्भं दधातु ते ।आ योनिं पुत्रो रोहतु जननं प्रति जायताम् ॥८॥जनिष्ट हि महिया आ योनिं समिहासरत् ।अथा सोम इव भक्षणमा गर्भः सीदत्वृत्वियम् ॥९॥धात: श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥४सवित: श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१॥विष्णो: श्रेष्ठेन रूपेणास्या नार्या गवीन्यो:।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥२॥त्वष्ट: श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥३॥भगः श्रेष्ठेन रूपेणास्या नाव गवीन्यो: ।पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥४॥अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् ।वृषाणं वृष्ण्यावन्तं प्रजायै त्वा नयामसि ॥५॥यद्वेद राजा वरुणो वेद देवो बृहस्पतिः ।इन्द्रो यद्वृत्रहा वेद तद्भर्भकरणं पिब ॥६॥वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् ।ददन्ते पुत्रं देवाः सोमपामुभयाविनम् ॥७॥सोमस्य त्वर्त्वियेनोपैमि गर्भकृत्वने ।ततस्ते पुत्रो जायतां कर्तवै वीर्येभ्यः ॥८॥५जायस्वाग्नेऽश्वत्थादस्मै क्षत्रायौजसे । րउग्र आपतिकादधि यो वृक्षां अधिरोहति ॥१॥विबाधं चित् सहमानं त्वामग्ने जनयामसि ।जातां जनिष्यमाणां सपत्नान् प्र णुदस्व मे ॥२॥अश्वत्थस्यारोहस्य वृक्षस्यारणयः कृताः ।ततो जाताय ते ऽजनि वीडुजम्भाग्निरग्नये ॥३॥तं जातं जातवेदसमा दधाम्यमर्त्यम्॥पावकमग्निमूतये शुचिमन्तं विषासहिम् ॥४॥उत्तनुष्व धनुः प्रति मुञ्चस्व वर्म जहि शत्रून् वीर्या ते कृणोमि ।अत्र रध्यन्तु य उ ते सपत्नास्त्वमेकवृषो भव ॥५॥वृषभ त्वा सजातानां सपत्नानां विषासहिम् ।हन्तारं शत्रूणां कृण्मो विराजं गोपतिं गवाम् ॥६॥समुद्रोऽस्यपां ज्येष्ठ इन्द्रो देवेषु वृत्रहा ।व्याघ्रं सिंहं त्वा कृण्मो दमितारं पृतन्यताम् ॥७॥इन्द्र इव दस्यूनधरान् कृणुष्वोग्र इव वातो विशृणन् सपत्नान् ।ते शुष्यन्त्वप दावादिवाग्ने: पर्यवीवरथा एनान् ॥८॥सं वृश्चैनांस्ते शुष्यन्तु वृश्चैनान् मोपजां शिषः ।सपत्नान् सर्वांस्तृढवा त्वमेकवृषो भव ॥९॥त्वमुग्रस्त्वं बली त्वमेधि विवाचनम् ।त्वं पृतन्यत: पूर्व: सपत्नां अव धूनुष्व ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP