१६
नव च या नवतिश्चारूढा वक्षणा अनु ।
इतस्ता: सर्वा नश्यन्तु नुत्ताः पुत्थज्ञो मया ॥१॥
सप्त च याः सप्ततिश्चारूढा वक्षणा अनु ।
इतस्ता: सर्वा नश्यन्तु नुत्ताः पुत्थज्ञो मया ॥२॥
पञ्च च या: पञ्चाशच्चारूढा वक्षणा अनु ।
इतस्ताः सर्वा नश्यन्तु नुत्ताः पुत्थज्ञो मया ॥३॥
ऊरूभ्यां तेऽष्ठीवद्भ्यां पार्ष्णिभ्यां भंसस: ।
स्त्रिया जार इव पुत्थज्ञीं प्र मृणीमसि ॥४॥
अनुसृप्तां गहनेषु धूक्ष्णां पापीं शिमिद्वतीम्।
तामेतां दस्यूनां दासीं प्र दहातश्चुकाकणि ॥५॥
या स्त्रीणां पुत्रसदनं केवटानुपसर्पति।
तामेतां दस्यूनां दासीं प्र दहातश्चुकाकणि ॥६॥
प्र पतातः सुकटनाळि सुषेः कुषीतको यथा।
स्रक्वे ते तिप्रं धक्ष्यामि सा नशिष्यसि पुत्थगि ॥७॥
यदास्याः स्रक्वे दहेद्यदा मूर्धानमग्निना ।
अथैषा दस्यूनां दासी पुत्थगि नि लयिष्यते ॥८॥
संवत्सरमचरो असुरेभ्यः प्रतङ्किनी ।
यत्र क्षेत्रस्य दुर्गन्धि तत् त एतन् न्यञ्जनम् ॥९॥
नैतत्तव मातरंस्था न त एतन् न्यञ्जनम् ।
अस्माकमेतद्वीरेभ्यो देवैः प्रजननं कृतम् ॥१०॥
गिरौ तेऽश्मपुत्रमुदकं हिमवत्सु ।
तत्रोपप्रस्कद्य नृत्य जामियूथेषु पुत्थगि ॥११॥
स त्वं गोभिरश्वै: प्रजया प्रतरं भव ।
यो मा तत्र प्राहैषीर्यत्र जीवन्ति भद्रया ॥१२॥

१७
मित्रः पृथिव्योदक्रामत्तां पुरं प्र णयामि व: । तु. शौ.सं. ११९
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥१॥
वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥२॥
सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा व: शर्म च वर्म च यच्छतु ॥३॥
चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा व: शर्म च वर्म च यच्छतु ॥४॥
सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥५॥
यज्ञो दक्षिणाभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥६॥
समुद्रो नदीभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥७॥
ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा व: शर्म च वर्म च यच्छतु ॥८॥
इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥९॥
देवा अमृतेनोदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥१o॥
प्रजापति: प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः ।
तामा विशत तां प्र विशत सा व: शर्म च वर्म च यच्छतु ॥११॥

१८
संयुज्यन्तः प्रकृषन्तो यद् वो देवा उपोचिरे ।
तामेभ्यः सत्यामाशिषमिन्द्र खल्वां समर्धय ॥१॥
अनड्वाह: सत्यावानः सीरं कृणोतु मे वचः ।
यत्राहैतद्धिताय ते तत् पर्जन्योऽभि वो वृषत् ॥२॥
दिव्या आयो वः शक्वरीरनु वि यन्तु गह्वरे ।
ऊर्जस्वतीघृतवतीः पयस्वतीदृशे भवत मा गुहा ॥३॥
उदेहि वाजिनीवती पूर्णपात्रा त्विषीमती ।
दुहाना पूषरक्षिता काममेषां समा पृण ॥४॥
इयं सीता फलवती शतवल्शा वि रोहतु ।
इयं सहस्रभोगा अस्या इन्द्र उपावतु ॥५॥
अश्विना फालं कल्पयतामुपावतु बृहस्पति: ।
यथासद्बहुधान्यमयक्ष्मं बहुपूरुषम् ॥६॥
यद् वो देवा उपोचिर इह भूयः स्यादिति ।
इह तामुत्पृणां वयं देवीमुप हृयामहे ॥७॥
इदं म उत्पृणादिति स्फातिं म उत्पृणादिति ।
राशिं मे वर्धयादिति ॥८॥
स्फातिकारो बहुकार: स्फिरस्फोष्टायमक्षितः ।
खलो ज्येष्ठो विभुः प्रभुः ॥९॥
तस्मिन्धान्यं न्युप्यते यवो व्रीहिरथो तिल: ।
तस्य गृह्णीत यत्कृतं परिक्षाय चतु:शतम् ॥१०॥
शर्कारिवन्मयारव चक्रीवत्किं च यदवृषे।
तद्वै स्फातिरुपायती सर्वमेवाति रुच्यते ॥११॥
महाञ्जने परा जहि सहस्रापोषमर्दय ।
बह्वी न ओषधे भव समुद्रस्येव संस्रव: ॥१२॥

१९
आज्यादज: समभवद् देशेभ्य ओदना इमे ।
तानपश्यद्बृहस्पति: स वै पञ्चौदनोऽभवत् ॥१॥
चतुर्धैतां समभर ओदनांस्त्वं बृहस्पते ।
अज आज्याज्जात: स एषां पञ्चमो ऽभवत् ॥२॥
धूमेन दिवमाप्नोत्यन्तरिक्षमुतष्मणा ।
दिश आप्नोति चक्षुषा अजः पञ्चौदनः सवः ॥३॥
या ते माता यस्ते पिता भ्रातरो ये च ते स्वा: ।
अजं पञ्चौदनं पक्त्वा सर्वे तमुप जीवत ॥४॥
ये ते पूर्वे परागता अपरे पितरश्च ये।
तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥५॥
ये सर्वदा ददति ये वा पचन्त्योदनम्।
ते वै यमस्य राज्यादुत्तरे लोक आसते ॥६॥
नातिरात्र आप्नोति नैनमाप्नोत्युक्थ्य: ।
नाग्निष्टोम आप्नोत्यजं पञ्चौदनं सवम् ॥७॥
दशरात्रेण सम्मितो द्वादशाहेन कल्पते ।
दीर्घसत्रेण सम्मितो ऽज: पञ्चौदनः सवः ॥८॥
तेषां बर्हिष्यं सर्वं यन्नष्टं यच्च म्रियते ।
यच्च स्तेनो ऽपाजति येषां पञ्चौदनः सवः ॥९॥
या पूर्वपतिं वित्वाथान्यं विन्दतेऽपरम् ।
पञ्चौदनं च तावजं पचतो न वि योषत: ॥१०॥
समानलोको भवति पुनर्भुवापर: पति: ।
अजं पञ्चौदनं दक्षिणाज्योतिषं ददत् ॥११॥

२०
सूर्यो मा वर्चसोक्षतूक्षतामश्विनोभा ।
आदित्य ऊर्ध्व उच्चरन् स उ मा वर्चसोक्षतु ॥१॥
वर्चसा मां पितुरग्निर्वर्चसा मा बृहस्पतिः ।
सुरायाः सिच्यमानायाः कीलालवर्चसेन मा ।
तेन मामश्विनोभा उक्षतां पुष्करस्रजा ॥२॥
वर्चस्वन् मे मुखमस्तु रोचमानं विषासहि ।
तन्मा हिरण्यवर्चसं कृणोमि पश्यतां प्रियम् ॥३॥
मधोरहं मधुतरो मधुघान् मधुमत्तर: ।
मामनु प्र विशतु वर्च ऋषभो वाशितामिव ॥४॥
इदमाञ्जनमानजे वर्चस्यमा कनिक्रदम् ।
यथा क्रनिक्रदच्चराणि वर्चसा च भगेन च ॥५॥
वर्चसाग्निमा दधति वर्चसोदेति सूर्य: ।
यावद् वर्चो गोहिरण्यस्य तावन्मे वर्चो भूयात् ॥६॥
यावत् त्वं देव सूर्य उद्यन्नभि विपश्यसि ।
तावन् मा वर्चसाभि वि पश्य ॥७॥
पूर्णो भगस्याहं भूत्वारुक्षं वर्चसो रथम् ।
स मा वहतु सर्वदायुष्मन्तं सुवर्चसम् ॥८॥
भगेनाहं परिहितो वर्चसा द्रविणेन च ।
यथा चराणि सर्वदा रोचमानं विभावसु ।९।
एवा मा भग आगमदेवा मा वर्च आगमत् ।
एवा मा तेज आगमदेवा मा यश आगमत् ॥१०॥
हिरणययेन चक्रेण भगस्यापिहितो गृहः ।
तं व्युब्जामि ब्रह्मणा तस्य मे दत्तमश्विना ।
दतं मे पुष्करस्रजा ॥११॥
(इति एकादशर्चोनाम अष्टमकाण्डे चतुर्थो ऽनुवाकः)
इत्यथर्ववेद पैप्पलाद संहितायां एकादशर्चोनाम अष्टमकाण्ड: समाप्तः

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP