आ पश्यसि प्रति पश्यसि परा पश्यसि पश्यसि । तु. शौनक संहिता ४.२०
द्यामन्तरिक्षमाद्भूमिं तत् सर्वं देवि पश्यसि ॥१॥
तिस्रो दिवस्तिस्र: पृथिवी: षट् चेमाः प्रदिशो मही: ।
तयाहं सर्वान् यातून् पश्यानि देव्योषधे ॥२॥
सुपर्णस्य दिव्यस्य तस्य हासि कनीनिका ।
सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥३॥
तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत् ।
तयाहं सर्वं पश्यानि यद्भूतं यच्च भाव्यम् ॥४॥
यथा श्वा चतुरक्षो यथाश्वः स्यावोर्वताम् ।
यथाग्निर्विश्वत: प्रत्यङ् एवा त्वमस्योषधे ॥५॥
कश्यपस्य चक्षुरसि शुन्याश्चतुरक्ष्याः।
वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥६॥
दर्शय मा यातुधानान् दर्शय यातुधान्यः ।
आपस्पृत इव तिष्ठन्तं दर्शय मा किमीदिनम् ॥७॥
उदग्रभं परिपाणं यातुधानात् किमीदिनः।
तेनाहं सर्व पश्यान्युत शूद्रमुतार्यम् ॥८॥
यथा सूर्यश्चन्द्रमाश्च विश्वा भूता विपश्यतः ।
एवा वि पश्य तान् त्वमघायुर्मोंप गादिह ॥९॥
यो अन्तरिक्षेण पतति भूमिं यश्चोपसर्पति ।
दिवं यो मन्यते नाथं तं पिशाच दृशे कुरु १०॥
आाविष्कृणुष्व रूपाणि मात्मानमपि गूहथाः ।
अधा सहस्रचक्षो त्वं प्रति पश्यास्यायतः ॥११॥


मोक्षेजांस्तोदुंस्तुमलान् पथिष्ठाङ् उत पार्षतान् ।
अहीनां सर्वेषां विषमरसं कृण्वोषधे ॥१॥
अश्वक्रन्दस्य वण्डस्य पृदाकोर्गोनसेरुत ।
श्वित्राणां सर्वेषां विषमरसं कृण्वोषधे॥२ ॥कृण्वषोधे
द्यांपातस्य गवकस्य गोधापृष्ठेरहेरुत ।
असितानामेतज्जातमरिष्टे ऽरसं कृधि ॥३॥
एतज्जातं स्वजानां तद् बभ्रो अरसं कृधि ।
सर्वस्य बभ्रोर्भेषज्यसीहि विषदूषणी ॥४॥
त्रायमाणा प्र ब्रवीतु सर्वाङ् राजो अहीनाम् ।
तिरश्चिराजीनसितानथो उपशयाश्च ये ॥५॥
सहसाहं यातुधानान् सहसा यातुधान्यः ।
सहो वः सर्वान् सासाह तस्याहं नाम जग्रभ ॥६॥
सह: साकं पैद्वेनोग्रेण वचसा मम ।
अन्धाहींश्च सृञ्जयांश्च शफकांश्च रथव्रयः ।सृजयाश्च
सहसा सह उत्पत्य तान् सर्वाङ् अरसाङ् अक: ॥७॥
असितस्य विद्रधस्य हरितो यश्च विद्रध: ।
निमङ्क्षी विद्रधानां यो मृजन्ती ताङ् अजीजनत् ॥८॥
या: स्वजानां नीलग्रीवो या: स्वजानां हरिरुत ।
कल्माषपुच्छमोषधे जम्भयास्यरुन्धति ॥९॥
मायं मरदहिदष्टः पितुरस्मा असद् विषम् ।
इमा ह्यस्मा ओषधिमा हराम्यरुन्धतीम् ॥१०॥
एतज्जातं पृदाकूनामरसं जीवले कृधि ।
इन्द्रस्य भद्रिका वीरुदसीहि विषदूषणी ॥११॥


शतमर्वाक् प्र स्यन्दन्ते प्र स्यन्दन्ते शतं परः ।
शतं वृत्रस्य काण्डानि तेभ्य आपो वि धावथ ॥१॥
अन्तरिक्षे पतयिष्णवो नभसस्परि जज्ञिरे ।
आपो हिरणयवर्णास्तास्ते भवन्तु शं हदे ॥२॥
शं ते सन्तु हृदयाय शं ते हृदयाभ्य: ।
शं ते यकक्लोमभ्यः शमु ते यन्तष्ठेभ्य: ॥३॥
यदङ्गैरप्पसिस्मिषे यच्छीर्ष्णा यच्च पृष्टिभिः ।
आपस्तत् सर्वं निष्करन् तष्टा रिष्टमिवानसः ॥४॥
सं हृदयेन हृदयमोपशेन समोपशः ।
अद्भिर्मुञ्चापस्मितं पार्ष्णिद्योतः समेतु मे ॥५॥
आचरन्तीः पर्वतेभ्यो देवीर्देवेभ्यस्परि ।
आपो यमद्य प्रापन् न स रिष्याति पूरुषः ॥६॥
शं त आपो हैमवती: शमु ते सन्तूत्स्या: ।
शं ते सनिष्यदा आप: शमु ते सन्तु वर्ष्या: ॥७॥
शं त आपो धन्वन्याः शमु ते सन्त्वनूप्याः ।
शं ते खनित्रिमा आपः शं या: कुम्भेभिराभृताः ॥८॥
अनभ्रय: खनमाना विप्रा गम्भीरे ऽपस: ।
भिषग्भ्यो भिषक्तरा आपो अच्छा वदामसि ॥९॥
अपामह दिव्यानामपां स्रोतस्यानाम् ।
अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥१०॥
ता आपः शिवा आपो ऽयक्ष्मंकरणीरप: ।
यथैव तृष्यते मयस्तास्त आद्युक्तभेषजी ॥११॥


ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान ।
भूतानां ब्रह्म प्रथमोत यज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥१॥
ब्रह्मेमे द्यावापृथिवी ब्रह्मेमे सप्त सिन्धवः ।
ब्रह्मेमे सर्व आदित्या ब्रह्म देवा उपासते ॥२॥
ब्रह्म ब्राह्मणो वदति ब्रह्म रात्री नि विशते ।
सावित्रं ब्रह्मणो जातं ब्रह्मणाग्निर्वि रोचते ॥३॥
ब्रह्मौषधयो नि तिष्ठन्ति ब्रह्म वर्षन्ति वृष्टयः ।
ब्रह्मेदं सर्वमात्मन्वद यावत् सूर्यो विपश्यति ॥४॥
ब्रह्म होता ब्रह्म यज्ञो ब्रह्मणा स्वरवो मिता: ।
अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोत्तिरते हविः ॥५॥अध्वर्युब्रह्मणो
ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्यता॥
ब्रह्म यज्ञस्य तन्तव ऋत्वियो ये हविष्कृतः ॥६॥
ब्रह्म ऋषभो भद्ररेता ब्रह्म गावो हविष्कृतः ।
ब्रह्म रथस्य देवस्य यज्जयाति स्वरङ्कृत: ॥७॥
ब्रह्मणा शीरं वहति ब्रह्मणा युज्यते रथः ।
ब्रह्मणा पुरुषो द्विपान्न व्यथते चरन् ॥८॥
ब्रह्मणो जाता ऋषयो ब्रह्मणो राजन्या उत ।
ब्रह्मेदं ब्रह्मणो जातं ब्रह्मणो ऽविष्या अन्नम् ॥९॥
ब्रह्म शूद्रा राजन्यानां ब्रह्मैषामुत विक्षद: ।
ब्रह्मैषां भद्रं सादनं ब्रह्मणैषां सभासदः ॥१०॥
ब्रह्य दाशा ब्रह्म दासा ब्रहोमे कितवा उत ।
स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्म उत वावन ॥११॥
ब्रह्मोद्वतो निवतो ब्रह्म संवतो वानस्पत्याः पर्वता ब्रह्म वीरुधः ।
ब्रह्मेदं सर्वमन्वा ततानान्तरा द्यावापृथिवी उभे ॥१२॥
ब्रह्मैवाभूदुत्तरं जातवेदोरद्वज्रो यातुधानं महालम् ।
भवाशर्वौ तपुषीं हेतिमस्मै मयेषितौ वि सृजतां वधाय ॥१३॥

१०
यदश्विना ओषधीष्वासिक्तं पुष्करस्रजा वीरुधो मधु बिभ्रति।
तेनाहमस्या मूर्धानमभि षिञ्छामि नार्याः ॥१॥
यदश्विना पुष्पादधि माक्षिकं मधु संभृतम् ।
अन्ने लवणे यन्मधु तेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः ॥२॥
यदश्विना गुल्गुन्याञ्जने मधु संभृतं यदस्मिन् मधुघे मधु ।
तेनाहमस्या मूर्धानमभि षिञ्चामि नार्या: ॥३॥
यदश्विनाक्ष मधु गोष्वश्वेषु यन् मधु !
सुरायां सिच्यमानायां कीलाले ऽधि यन् मधु
तेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः ॥४॥
यदश्विना गोवर्चसं हिरण्यवर्चसं हस्तिवर्चसमश्विना ।
तेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः ॥५॥
अभि नन्दमभि मोदमभि दर्पं कृणोमि ते ।
आ ते भगं वर्तयतामश्विना पुष्करस्रजा ॥६॥
दत्सु ते वर्च: सुभगे जिहृायां ते मधूलकम् ।
अक्ष्यौ निकरणी तव प्रतीकं मधुमत्तरम् ॥७॥
आ सचस्व तलाशेव वृक्ष इवापतिक: पतिम् ।
त्वं समग्रभीः पुंसः श्येन इवान्यान् पतत्रिण: ॥८॥
आ हि ते हार्षमुदकमपो भगाभिषेचनीः॥
यत्ते वर्चो ऽपक्रान्तं मुखस्य प्रतिचक्षणात् ।
पुनस्तदश्विना त्वय्या धत्तां पुष्करस्रजा ॥९॥
अभि त्वा वर्चसासिचं दिव्येन पयसा सह ।
यथा पतिवत्न्यसो देवृग्भ्यो मधुमत्तरा ॥१०॥
भगं ते मित्रावरुणा भगं देवी सरस्वती ।
भगं ते अश्विनोभा धत्तां पुष्करस्रजा ॥११॥
पतिं ते राजा वरुणः पतिं देवो बृहस्पतिः ।
पतिं त इन्द्रश्चाग्निश्च पतिं धाता दधातु ते ॥१२॥
(इति एकादशर्चोनाम अष्टमकाण्डे द्वितीयोऽनुवाक:)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP