षष्ठकाण्ड: - २१ ते २३
पैप्पलादसंहिता
२१
अथो यानि च वस्महे यानि चान्त: परीणहि ।
तानि ते परि दद्मसि ॥१॥
रात्रि मातरुषसे न: परि देहि ।
उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ॥२॥
यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् ।
यात्किं च पद्वदासन्वत्तस्मात्त्वं रात्रि पाहि नः ॥३॥
सा पश्चात्पाहि सा पुर: सोत्तरादधरादुत ।
गोपाय नो विभावरि स्तोतारस्त इह स्मसि ॥४॥
ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति ।
पशून् ये सर्वान्रक्षन्ति ते न आत्मसु जाग्रतु ते न: पशुषु जाग्रतु ॥५॥
वेद वै रात्रि ते नाम घृताची नाम वा असि ।
तां त्वा भरद्वाजो वेद सा नो वित्ते ऽधि जागृहि ॥६॥
२२
ब्रह्मास्य शिरो बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य ।
छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी यज्ञस्तपसो ऽधि जातः ॥१॥
अनस्थाः शुद्धाः पवनेन पूताः शुचय: शुचीनपि यन्ति लोकान् ।
विष्टारिणमोदनं ये पचन्ति नैषां शिश्नं प्र दहति जातवेदा: ॥२॥
नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ।
नैनान् यम: परि मुष्णाति रेत: ॥३॥
आस्ते यम उप याति देवान् सं गन्धर्वैर्मदति सोम्यैः ।
विष्टारिणामोदनं ये पचन्ति नैनानवर्तिः सचते कुतश्चन ॥४॥
रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वापि दिवं समेति ।
एष यज्ञो विततो वहिष्ठो विष्टारी पक्वो दिवमा ससाद ॥५॥
चतुर: कुम्भांश्चतुर्धा ददाति क्षीरेण पूर्णानुदकेन दध्ना ।
एतास्त्वा कुल्या उप यन्तु विश्वत: स्वर्गे लोके स्वधया पिन्वमाना: ॥६॥
घृतहृदा मधुकूला: सुरोदका क्षीरेण पूर्णा उदकेन दध्ना ।
एतास्त्वा कुल्या उप यन्तु विश्वहा स्वर्गे लोके स्वधया मादयन्ती: ॥७॥
पुण्डरीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली । विसं
स्वर्गे लोके स्वधया पिन्वमाना उप मा तिष्ठन्तु पुष्करिणीः समक्ताः ॥८॥
यमोदनं पचामि श्रद्दधानो विष्टारिणं लोकजितं स्वर्गम् ।
स मे मा क्षेष्ट सदमश्यमानो विश्वरूपा कामदुघाधेनुरस्तु मे ॥९॥
वृषभं सन्तं सह सूनृतया स्वर्गे लोके अमृतं दुहानम् ।
ये मे पुत्रा: पितरश्च सन्ति ते त्वा विष्टारिन्नुप सर्वे सदेयु:॥१०॥
य इमान् यज्ञानभि वितष्टार यस्येमे लोकाः स्वधया समक्ताः ।
ये मे पौत्रा उत ये पितामहास्तेभ्यो विष्टारिन्नमृतानि धुक्ष्व ॥११॥
यदि पृथिवीं यद्यन्तरिक्षं यदि दिवं देवता वा जगन्थ॥
ये मे प्रपौत्राः प्रपितामहाश्च ते त्वा विष्टारिन्ननु प्र ज्ञेषुरत्र ॥१२॥
स्वर्गे लोके अप्सरस एनाञ्जाया भूत्वोप शेरते ।
विष्टारिणमोदनं ये पचन्त्यस्मिंल्लोके दक्षिणया परिष्कृतम् ॥१३॥
२३
निर्ण्णुदैनां प्रणुदैनां स्वान्निपदनादधि ।
विभ्रंशमस्यै कृण्मो वि गृहैर्भ्रंशतामसौ ॥१॥
अपाञ्चं पतिमा कुर्वधराचीं स्त्रियं नय।
अतीमान्दश पर्वतानतीमा नाव्या दश ॥२॥
अधराचीमवाचीमथो अकुशलां दिशम् ।
विभ्रंशमस्यै कृण्मस्तेनैनां प्र दहामसि ॥३॥
आाज निरज बिलं बिलादरण्यमा कुर्वरण्यादरणं जनम् ।
मृगाङ् अनु प्र पातय वातस्यैनां शिखां कुरु ॥४॥
वाताग्रे अस्या हृदयं मनो रेष्मणि दध्मसि ।
विभ्रंशमस्यै कृण्मो विध्वंशमासक्तं दमे ॥५॥
सर्वमनु परि प्लवतामन्तरा द्यावापृथिवी उभे ।
यथानवधृता चराद् वृषतूलमिवोपरि ॥६॥
अशमस्यै वातो वात्वशं तपतु सूर्यः ।
अथो यदन्नमश्नाति तदस्यै विषवत्तरम् ॥७॥
सिंहस्ते अस्तु चक्षुष व्याघ्रः परिष्वञ्जने । .."
अग्निर्वामस्त्वन्तरा यथा वां न सहासति ॥८॥
एष वामग्निरन्तरा स विष्वञ्चौ व्यस्यतु ।
यथा वां न सहासत्युत्तरस्मिंश्चनायुषि ॥९॥
उत्पातय शिमिदावति प्र पातय शिमिदावति ।
इमौ व्यस्य दम्पती पक्वं मांसमिवासिना ॥१०॥
मेयमस्मिन् पतौ रंस्त मोस्मिं शयने स्वे ।
जहातु वसनं स्वमहिर्जीणमिव त्वचम् ॥११॥
यथा मृताश्च जीवाश्चास्मिंल्लोके व्योकस: ।
एवेमौ दम्पती स्तामस्मिंल्लोके व्योकसौ ॥१२॥
(इति नवर्चोनाम षष्ठकाण्डे चतुर्थो ऽनुवाकः)
N/A
References : N/A
Last Updated : May 12, 2021
TOP