संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|नवर्चंनाम षष्ठकाण्ड:| ६ ते १० नवर्चंनाम षष्ठकाण्ड: १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २३ षष्ठकाण्ड: - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६मधुमन्मे निक्रमणं मधुमन्मे परायणम्।वाचा मधुमदुद्यासमक्ष्यौ मे मधुसन्दृशी ॥१॥मामनु प्रसारयन्मम पत्तो निपेदिवान् ।अथो मे पुनरायतो अक्ष्यौ कामेन शुष्यताम् ॥२॥वशा मधुघ ते मातोक्षा भ्रातर्षभः पिता ।धेन्वा अधि प्रजातो ऽसि राजा सन्मधुमत्तमः ॥३॥वृषाणं वृष्ण्यावन्तं सोमपृष्ठं दिवि श्रितम् ।इन्द्राण्यग्र आभरन् मधुघ भगाय कम् ॥४॥पितुभोजनो मधुघः शौष्कास्यो हृदयाय कम् ।स मा मधुनानक्तु यथाहं कामये तथा ॥५॥सिन्धुप्रजानो मधुघो अश्व इव नीयते जनाङ् अनु ।स मा मधुनानक्तु यथाहं कामये तथा ॥६॥मधुमती सिनीवाली मधुना मा समुक्षतु ।सा मा मधुनानक्तु यथाहं कामये तथा ॥७॥यथा मधु मधुकृतो न्यञ्जन्ति मधावधि ।एवा न्यनज्मि ते मनो अध्यस्यां मामकी तनू ॥८॥यते मन: परागतं यद् बद्धमिह वेह वा । वद्धतत्त आ वर्तयामसि मयि बध्नामि ते मनः ॥९॥७कश्यपश्च सुपर्णश्च यन् मरीच्यामतिष्ठताम् ।सुपर्ण: पर्यवापश्यत्समुद्रे भूमिमावृताम् ॥१॥यां सुपर्णः पर्यपश्यदन्तर्महत्यर्णवे ।तां सूकर त्वं मायया त्रि: समुद्रादुदाभर: ॥२॥यं समुद्रादुदभरो भूमिं सूकर मायया ।सैषा विषस्य दूषण्यस्मै भवतु भेषजी ॥३॥अच्युता हिरण्येन या सत्ये अधितिष्ठति ।तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ॥४॥यस्या: कुलायं सलिले अन्तर्महत्यर्णवे ।तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ॥५॥यस्या भूम्या उपजीका गृहं कृण्वत आत्मने ।तस्यास्ते विश्वधायसो विषदूषणमुद्धरे ॥६॥यस्त्वा भूमे ऽन्वविन्दद्यस्त्वा भूम उदाभरत् ।तयोः सहस्रधामन्नहं नामानि जग्रभ ॥७॥यानि त इन्द्रो अकृणोद्भूमे नामानि वृत्रहा ।तानि ते बभ्रो: सं विद्म सेहैधि विषदूषणी ॥८॥वभ्रोःयानि ते मरुतश्चक्रुर्यानि सप्तर्षयो विदुः ।विश्व आदित्या यां विदुः सा भूमिर्विषदूषणी ॥९॥८सहस्व यातुधानान् सहस्व यातुधान्य: ।सहस्व सर्वा रक्षांसि सहमानास्योषधे ॥१॥सहमाने सहस्वति सहन्त्यहमुत्तरे ।उताहमस्मि सासहि: सासहे व: सदान्वा: ॥२॥या सहमाना चरसि सासहान इवर्षभः ।सदान्वाघ्नी रक्षोघ्नी सा त्वमुग्रास्योषधे ॥३॥खेले है लम्बनस्तनि नश्येत: प्रामुत: पत । म्वनन त्वामविव्यचदिहोक्षेव शृङ्गवच्छिरः ॥४॥असुवाने बहुपुत्रे अनन्तर्वे महोदरि । वहुपथास्मत्सत्वरे त्वं शर्करा वस्पती चर ॥५॥ये ऽरायाश्चरथ पाकस्येछन्त आसुतिम् ।तानग्ने कृष्णवर्तने तीक्ष्णशृङ्गोदृशन्निहि ॥६॥अदो यद् दारु प्लवते सिन्धोर्मध्ये अपूरुषम् ।तदा रभस्व दुर्हणो तेन याहि परस्तरम् ॥७॥यस्या जनित्रमिष्टर्गा अदृष्टाः क्रिमयः प्लुषयः ।तस्यै बलासपत्न्यै नमस्कृणोमि कुष्ठ्यै ॥८॥शर्वपुत्रे भवपत्नि यातुभ्रात्रि सदान्वे।तस्याद्धि पुत्रान् भ्रातॄंश्च यत्र त्वापनयामसि ॥९॥९वृषायमंशुर्वृषभाय गृह्यते वृषायमुग्रो नृचक्षसे ।दिव्यो नर्यो ऽचिक्रदन्महन्नामर्षभस्य यत्ककुत् ॥१॥विषुवान्विष्णो भव त्वं यो नृपतिर्मम ।अथो इन्द्र इव देवेभ्यो वि ब्रवीतु जनेभ्य: ॥२॥मनुष्येभ्यो वि ब्रवीतु सजूरिन्द्रेण मेदिना ।अग्निश्च तुभ्यं साहन्त्यो राष्ट्रं वैश्वानरो दधत् ॥३॥यस्यायं भागर्षभ इन्द्राय परिणीयते ।स हन्तु शत्रूनायतो अथो हन्तु परायतः ॥४॥स हन्ता शत्रोर्भवतु हन्ता भवतु दोधताम् ।विशामह प्रणीरयदग्रमुद्भिन्दतामसत् ॥५॥आयुष्मन्तं वर्चस्वन्तमथो अधिपतिं विशाम् ।अस्याः पृथिव्याश्चेत्तारमिममिन्द्रर्षभं कृणु ॥६॥यः सुशृङ्गः सुककुदुः कल्याणो बर्हिरासदत्। वर्हिकार्षीवणप्रजानेनर्षभेण यजामहे ॥७॥ऋषभेण यजमाना अक्रूरेणेव सर्पिषा।मृधश्च सर्वा इन्द्रेण पृतनाश्च सहामहे ॥८॥यं तुभ्यं भागमृषभं देवा: केवल्यं ददुः ।तेन वृत्राणि जङ्घनः शत्रूंश्च जह्याहवे ॥९॥जहि शत्रून्वि मृधो नुदस्व कृष्याः संभूतो असि वीर्यावान् ।इन्द्राय भागं परि त्वा नयाम उरुर्नो लोको अपृतन्यो अस्तु ॥१०॥घृतवृद्ध घृताहुत सहस्रशृङ्ग सुष्टुत ।घृताहवन दीदिहि ॥११॥यो घृतेनाभिघारित उग्रो जैत्राय तिष्ठसि ।स नः सङ्कासु पारय पृतनासाह्येषु च ॥१२॥१०कर्की सुभागर्षभस्य पत्नी प्रजाकामा वशिनी वाशिता गौः ।तां सहस्रमेकमुखा ददाति गर्भं दधानामृतुना चरन्तीम् ॥१॥गर्भं दधाना पय इद्दुहाना अग्निहोत्रं वैश्वदेवी दुहाना ।गौर्णो मा हिंसीद्वरुणस्य पत्नी ॥२॥कर्क्या योनिं संमनसो ऽभि गाव: प्रजां धित्सन्तो वृषणश्चरन्ति।सा न ऐत्वदितिर्विश्वरूपाभि क्रन्दन्ति भुवनान्येनाम् ॥३॥प्रजापतिनेषितामृत्वियावतीमैनां प्रजाया ऋषभाः श्रयन्ते ।वृषण्यन्तीं वृषण: सप्तनाम्नीं हिंकृण्वन्तो अभि नुदन्तु वाशिताम् ॥४॥सा प्रत्यदशर्युषसा सुवर्णा शुक्रां वसाना वरुणस्य निर्णिजम्।वैश्वदेवी स्वधामाभरन्ती प्रजां दाता पुष्यतु गोपतिष्टे ॥५॥स्वयंस्थावर्यृषभाय तिष्ठसि प्रतीची सोमं प्रति सूर्यमग्निम् ।अहिंसन्ती वाशिते मामुपेहि पशून्दाता पुष्यतु गोपतिष्टे ॥६॥वशी दाता भवतु वाशिताया अग्नेर्भागमुस्त्रियां यो ददाति ।प्रियं धाम हृदयं सोम्यं मधु वाजिनीं त्वा वाजिनो वाजयन्तु ॥७॥यो वाशितायां गव्यन्तरग्निर्यदस्यां नृम्णं महिमा बभूव ।नमस्तस्मै प्रतिगृह्णन् कृणोमि स्योना मे अस्तु तन्वे सुशेवा ॥८॥एयमगन्वाशिता तां प्रतीम: पुंसां व्रातेन सह पुष्ट्या गौ: ।ऊर्जं दधाना घृतमिद्दुहाना सहस्रपोषाय मे अस्तु दात्रे ॥९॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP