३६
मन्वे वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममिता योजनानि ।  
प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥१॥
प्रतिष्ठे हि बभूवथुर्वसूनां प्रवृद्धे देवी सुभगे उरूची ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥२॥
ये स्रोत्या बिभृथो ये मनुष्यां ये अमृतं बिभृथो ये हवींषि ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥३॥
ये उस्त्रिया बिभृथो ये वनस्पतीनं ययोर्वाँ विश्वा भुवनान्यन्त: ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥४॥
ये कीलालैस्तर्पयथो ये घृतेन याभ्यां नर्ते किञ्चन शक्नुवन्ति ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥५॥
असन्तापे सुतपसा हुवे वामुर्वी गभीरे कविभिर्नमस्ये ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥६॥
यन्मेदमभिशोचति येन वा येन वा कृतं पौरुषेयं न दैव्यम् ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥७॥

३७
भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वाँ विश्वं यदिदं वितिष्ठते ।  
यावीशाते अस्य द्विपदो यश्चतुष्पदस्तौ नो मुञ्चतमंहस: ॥१॥
ययोरभ्यध्व उत यद् दूरे चिद् यौ विदिताविषुभृतामसिष्ठौ ।
भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहस: ॥२॥
ययोर्वधान्नापपद्यते किञ्चनान्तर्देवेषूत मानुषेषु ।
भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ॥३॥
यावारेभाते बहु साकमुग्रौ प्र चेदस्राष्ट्रमभिभां जनेषु ।
वहुभवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ॥४॥
सहस्राक्षौ वृत्रहणा हुवे वां दूरेहेती स्वनेमी उग्रौ ।
भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ॥५॥
यः कृत्याकृद्यातुधानो महालो नि तस्मिन् हतमधि वज्रमुग्रौ ।
भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ॥६॥
अधि मे ब्रूतं पृतनासूग्रौ सं वज़ेण सृजतं यत् किमीदि ।
स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥

३८
मन्वे वां मित्रावरुणावृतावृधौ सत्यौजसौ द्रुह्वाणं यौ नुदेथे ।  
यौ सत्यावानमवथो हवेषु तौ नो मुञ्चतमंहसः ॥१॥
सत्यौजसौ द्रुह्वाणं यौ नुदेथे प्र सत्यावानमवथो हवेषु ।
यौ गच्छथो नृचक्षसा बभ्रुणा सुतं तौ नो मुञ्चतमंहसः ॥२॥
यावङ्गिरसो ऽवथो यावगस्तिं मित्रावरुणा जमदग्निमत्रिम् ।
यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥३॥
यौ भरद्वाजमवथो वध्र्यश्वं विश्वामित्रं वरुण मित्र कुत्सम् ।
यौ कक्षीवन्तमवथ: प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥४॥
यौ श्यावाक्षमवथो यौ गविष्ठिरं मित्रावरुणा पुरुमीढ़मत्रिम्।
यौ विमदमवथः सप्तवध्रिं तौ नो मुञ्चतमंहसः ॥५॥
यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणा उशनं काव्यं यौ।
यौ मुद्गलमवथो गोतमं च तौ नो मुञ्चतमंहसः ॥६॥
ययो रथः सत्यवर्त्मर्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् ।
स्तौमि मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥

३९
इन्द्रस्य मन्वे शश्वद्यस्य मन्विरे वृत्रघ्न स्तोमा उप मेममागुः ।  
यो दाशुष: सुकृतो हवमेता स नो मुञ्चत्वंहसः ॥१॥
यश्चर्षणिप्रो वृषभः स्वर्विद् यस्य ग्रावाणः प्रवदन्ति नृम्णे ।
यस्याध्वर: सप्तहोता मदच्युत् स नो मुञ्चत्वंहसः ॥२॥
य उग्राणामुग्रबाहुर्यजुर्यो दानवानां बलमाससाद ।
येन जिताः सिन्धवो येन गाव: स नो मुञ्चत्वंहसः ॥३॥
यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे।
यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥४॥
यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुवन्तं गविष्टौ ।
यस्मिन्नर्क: शिश्रिये यस्मिन्नोजः स नो मुञ्चत्वंहसः ॥५॥
य उत्तमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबद्धम् ।
येनोद्यतो वज्रोभ्यायताहिं स नो मुञ्चत्वंहसः ॥६॥
यः संग्रामान्नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि ।
स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥

४०
शुनं वत्सानपा करोमि शुनं बध्नामि तन्त्याम् ।
आग्रयणं ब्रह्मणां हविस्तस्मिन् जागार कश्यपः ॥१॥
बाहुं वत्समुपनयन् पात्रे गां दुहन्नब्रवीत् ।
अरिष्टं ब्रह्मभ्यो हविः शिवं कृणोतु कश्यपः ॥२॥
त्रयस्तिष्ठन्ति सुकृतस्य लोके त्रयो ऽतीकाशास्त्रीणि शीर्षाण्येषाम् ।
त्रयस्तिष्ठन्ति परिगृह्य कुम्भीं यथा हविः कश्यप न व्यथातै ॥३॥
सत्यात् सम्भूतो वदति तण्डुलान् क्षीर आवपन् ।
ऋषिर्ब्रह्मभ्य आग्रयणं नि वेदयतु कश्यपः ॥४॥
ऋतुमुखे चन्द्रभाग: पात्र ओदनमुद्धरात् ।
प्राश्नन्तु ब्रह्माणो हविर्यथा वेदेन कश्यपः ॥५॥
ये भूतान्यसृजन्त ये भूतान्यकल्पयन् ।
सर्वस्य विद्वानध्वर्युः षण्णां भवतु कश्यप: ॥६॥
शिवा आपो वत्सेभ्यः शिवा भवन्त्वोषधीः ।
वातो वत्सेभ्य: कश्यप: शिव: शिवं तपतु सूर्यः ॥७॥
(इति सप्तर्चोनामचतुर्थकाण्डेऽष्टमो ऽनुवाकः)
ड़्त्यथर्ववेदे पैप्पलादसंहितायां सप्तर्चोनाम चतुर्थ: काण्डः समाप्तः |

N/A

References : N/A
Last Updated : May 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP