संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|पैप्पलादसंहिता|सप्तर्चोनाम चतुर्थ काण्डः| ६ ते १० सप्तर्चोनाम चतुर्थ काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० चतुर्थ काण्डः - ६ ते १० पैप् पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६हिरण्यश्रृङ्गो वृषभो यः समुद्रादुदाचरत् । तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥१॥न भूमिं वातो ऽति वाति नाति तपति सूर्यः ।जनांश्च सर्वान् स्वापय शुनश्चेन्द्रसखा चरन् ॥२॥वह्येशया: प्रोष्ठेशया नारीर्यास्तल्पशीवरी: ।स्त्रियो याः पुण्यगन्धास्ता: सर्वाः स्वापयामसि ॥३॥एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् ।अङ्गान्यग्रभं सर्वा रात्रीणामतिशर्वरे ॥४॥य आस्ते यश्च चरति यश्च तिष्ठन् विपश्यति ।तेषां सं दध्मो अक्षाणि यथेदं हर्म्यं तथा ॥५॥स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।स्वपन्तु सर्वे ज्ञातय: सर्वं नि ष्वापया जनम् ॥६॥स्वप्न स्वप्नाभिकरणेन सर्वं नि ष्वापया जनम् ।ओत्सूर्यमन्यान् स्वापयाव्युषं चरतादहमिन्द्र इवारिष्टो अक्षितः ॥७॥७अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यामास्यादुत । यक्ष्मं शीर्षण्यं मस्तिष्काल्ललाटाद् वि वृहामसि ॥१॥ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।यक्ष्मं दोषण्यमंसाभ्यामुरस्तो वि वृहामसि ॥२॥क्लोम्नस्ते हृदयाभ्यो हलीक्ष्णात् पार्श्वाभ्याम् ।यक्ष्मं मतस्नाभ्यां प्लीह्वो यक्नस्ते वि वृहामसि ॥३॥आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादुत ।यक्ष्मं पाण्योरङ्गुलिभ्यो नखेभ्यो वि वृहामसि ॥४॥अस्थिभ्यस्ते मांसेभ्य: स्नावभ्यो धमनिभ्य: ।यक्ष्मं पृष्टिभ्यो मज्जभ्यो नाभ्या वि वृहामसि ॥५॥ऊरुभ्यां ते अष्ठीवद्भ्यां पार्णिभ्यां प्रपदाभ्याम् ।यक्ष्मं भसद्यं श्रोणिभ्यां भंससी वि वृहामसि ॥६॥अङ्गादङ्गाल्लोम्नोलोम्नो बद्धं पर्वणिपर्वणि ।यक्ष्मं त्वचस्यन्ते वयं विष्वञ्चं वि वृहामसि ॥७॥अङ्गादङ्गादहं तव परुष: परुषस्परि ।कश्यपस्य विवृहेण यक्षमन्ते वि वृहामसि ॥८॥८अग्नी रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः।अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रति हरामः ॥१॥इन्द्रो रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः।अपाघशंसं नुदता सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रतिहरामः ॥२॥अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रति हराम: ॥३॥वरुणो रक्षोहा तिग्मस्तिग्मशूङ्ग ऋषिरार्षेय: कवि: कवितम: ।अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रति हरामः ॥४॥वायू रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेय: कविः कवितमः ।अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रति हराम: ॥५॥त्वष्टा रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः ।अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रति हराम: ॥६॥धाता रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः ।अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रति हराम: ॥७॥सविता रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः।अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रति हराम: ॥८॥सूर्यो रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कवि: कवितमः ।प्रतिहरणेनाघायते ऽघं प्रति हरामः ॥९॥चन्द्रमा रक्षोहा तिग्मस्तिग्मशूङ्ग ऋषिरार्षय: कवि: कवितम: ।अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनघायते ऽघं प्रति हराम: ॥१०॥बृहस्पती रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः ।अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रति हराम: ॥११॥प्रजापती रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः ।अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रति हरामः ॥१२॥परमेष्ठी रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कवि: कवितमः।अपाघशंसं नुदतां सहतामरातिं प्रत्यक्प्रतिहरणेनाघायते ऽघं प्रति हराम: ॥१३॥९संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः । तस्मै त इन्द्रो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥१॥इदमुग्राय बभ्रवे यो ऽक्षेषु तनूवशी ।कृतेन कलिं शिक्षाणि स नो मृड़ातीदृशे ॥२॥घृतमग्ने अप्सराभ्यो वह त्वं पांशूनक्षेभ्यः सिकता अपश्च ।यथाभगं हव्यदातिं जुषाणा मदन्तु देवा उभयानि हव्या ॥३॥यो नो देवो धनमिदं दिदेश यो अक्षाणां ग्रहणं शेषण्णञ्च ।स नोवतु हविरिदं जुषाणो गन्धर्वैः सधमादं मदेम ॥४॥या अप्सरसः सधमादं मदन्त्यन्तरा हविर्धानं सूर्यं च ।ता नो हस्तौ कृतेन सं सृजन्तु सपत्नं न: कितवं रन्धयन्तु ॥५॥यद् देवान्नाथितो हुवे ब्रह्मचर्यं यदूषिम ।अक्षां यद् बभ्रूनालभे ते नो मृड़न्त्वीदृशे ॥६॥आदिनवं प्रतिदीव्ने कृतेनास्माङ् अभि क्षर ।वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥७॥१०भगस्त्वेतो नयतु हस्तगृह्य बृहस्पतिः पुर एता ते अस्तु । देवस्त्वा सविता सत्यधर्मोपसद्यां नमस्यां कृणोतु ॥१॥यामश्विना मधुकशां देवा अग्रे अजनयन् ।तया त्वा पत्यामोतां कृण्मो मधुमतीं वयम् ॥२॥उत्तरा श्वश्रुवा भव ननान्दुरुपशिक्षया ।यशस्त्वा पत्यां कृण्मो भवा देवृषु प्रिया ॥३॥अद्भिरात्मानं तन्वं शुम्भमाना गृहान् प्रेहि महिषी भवासि ।तत्र त्वादुर्गार्हपत्याय देवाः प्रजावती जरदष्टिर्यथास: ॥४॥उदुत्तरमारोहन्ती व्यस्यन्ती पृतन्यतः ।अभ्यष्टाः शत्रोर्मूर्धानं सहपुत्रा विराड् भव ॥५॥श्वश्रूणां श्वशुराणां गृहाणाञ्च भगस्य च ।वि राज पत्यां देवृषु सजातानां विराड् भव ॥६॥यद् गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु ।येनाक्षा अभ्यषिच्यन्त तेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः ॥७॥यद वचों गवि कल्याणे यद् वा सूयवसे तृणे ।अभ्यञ्जनस्य यद् वर्चस्तेन मानज्मि वर्चसा ॥८॥(इति सप्तर्चोनामचतुर्थकाण्डे द्वितीयो ऽनुवाकः) N/A References : N/A Last Updated : May 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP