संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|पैप्पलादसंहिता|षडृचोनाम तृतीयकाण्डः| २१ ते २५ षडृचोनाम तृतीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० तृतीयकाण्डः - २१ ते २५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २१ ते २५ Translation - भाषांतर २१इममिन्द्र वर्धय क्षत्रियं म इमं विशामेकवृषं कृणु त्वम् । निरमित्रानक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ॥१॥अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा।अस्मिन्निन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥२॥एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो ऽमित्रो अस्य ।वर्ष्मत् क्षत्राणामयमस्तु राजेन्द्र शत्रूं रन्धय सर्वमस्मै ॥३॥अस्मै द्यवापृथिवी भूरि वामं सं दुहातां घर्मदुघे इव धेनुं ।अयं राजा प्रिय इन्द्रस्य भूयात् प्रियो गवामोषधीनामुतापाम् ॥४॥युनज्मि त उत्तरावन्तमिन्द्र येन जयन्ति न पराजयन्ते ।यस्त्वा करदेकवृषं जनानामुत राजन्नुत्तमं मानवानाम् ॥५॥उत्तरस्त्वमधरे सन्त्वन्ये ये के च राजन् प्रतिशत्रवस्ते ।एकवृष इन्द्रसखा जिगीवां छत्रूयतामभि तिष्ठा महांसि ॥६॥२२विषाणास्याङ्गिरसी देवजाः प्रतिचक्षणी । दिवस्पृथिव्याः संभूता सहस्राक्षीहैधि नः ॥१॥सहस्राक्षी या तु गृभाति पश्यास्योषधे ।सदान्वाघ्नी रक्षोघ्नी भवेह प्रतिचक्षणी ॥२॥ये हरन्त्यासुतेयं पयस्फातिं चौषधे ।तांस्त्वं सहस्रचक्षो गृभाय कृतवीर्ये ॥३॥य आतुरं रन्धयन्ते ऽर्ष्मन्तं च विहृतम्।तांस्त्वं सहस्रचक्षो गृभाय कृतवीर्ये ॥४॥यथाश्वा चतुरक्षो रात्रिंनक्तातिपश्यति ।एवा सहस्रचक्षो त्वं प्रति पश्यास्यायतः ॥५॥गोभिरश्वैर्वसुभिरपक्रीतास्योषधे ।श्यावस्याश्वस्य चक्षुषा प्रति पश्य किमीदिनः ॥६॥२३सं सचध्वं सं पिबध्वमन्नं वो मधुमत् सह । व्रतं वः सर्वं सध्र्यक् समानं चेतो अस्तु वः ॥१॥सं जानीध्वमिन्द्रश्चेत्ता वो ऽस्त्वयं वो ऽग्निर्नि हर: शमयाति ।यद्वैरहत्यमुत भीममासीद्विश्वे देवा अप तत् प्लावयन्तु ॥२॥शं वः स्यास्तु बृहस्पतिः शं द्यावापृथिवी उभे ।शमन्तरिक्षमुत वो मरुत्वान् शं वः स्यास्त्वदितिर्देवपुत्रा ॥३॥कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधी: ।कल्पन्तामग्नय: सर्वे ऽस्मै श्रैष्ठ्याय सव्रताः ॥४॥सं वः सृजामि हृदयं संसृष्टं मनो अस्तु वः ।संसृष्टा वस्तन्वः सन्तु संसृष्टः प्राणो अस्तु वः ॥५॥सं वः पशूनां हृदयं सृजामि सं पुत्राणामुत या दुहितरो वः ।सं वो जायानां मनसा मनांसि सं पतीनामुत चक्षुः सृजामि ॥६॥२४प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः । तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु ॥१॥दक्षिणा दिगिन्द्रो ऽधिपतिस्तिरश्चिराजी रक्षिता वसव इषवः ।तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु ॥२॥प्रतीची दिग् वरुणो ऽधिपतिः पृदाकू रक्षिता मित्र इषवः ।तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु ॥३॥उदीची दिक् सोमो ऽधिपतिः स्वजो रक्षिता वात इषवः ।तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु ॥४॥ध्रुवा दिग् विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषव: ।तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु ॥५॥ऊर्ध्वा दिग् बृहस्पतिरधिपतिश्चित्रो रक्षिताशनिरिषवः ।तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु ॥६॥२५अनड्वान् दाधार पृथिवीं द्यामुतामूमनड्वान् दाधारोर्वन्तरिक्षम् ।अनड्वान् दाधार प्रदिश: षडुर्वीरनड्वानिदं विश्वं भुवनमा विवेश ॥१॥अनड्वान् दुहे सुकृतस्य लोक ऐनं प्यायेत पवमान: पुरस्तात् ।पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥२॥अनड्वानिन्द्रः स पशुभ्यो वि चष्टे त्रयांछक्रोप मिमीते अध्वन: ।स भूतं भविष्यद्भुवनं दुहानः सर्वा देवानां बिभ्रच्चरति व्रतानि ॥३॥यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता ।यो विश्वभृद् विश्वकर्मा धर्मं नो ब्रूत यतमश्चतुष्पात् ॥४॥इन्द्र एष मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः । र्धर्मसुप्रजा असत् स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥५॥येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य धाम ।तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन यशसा तपस्यया ॥६॥द्वादशैता रात्रीर्व्रत्या आहु: प्रजापते:॥तत्रापि ब्रह्मणो व्रतं तत्राप्यनडुहो बलम् ॥७॥यास्त आहुः प्रजापतेर्व्रत्या रात्रीर्द्वादश।तत्रापि ब्रह्म यो वेद तद् वा अनडुहो बलम् ॥८॥दुहे वा अनड्वान् सायं दुहे प्रातर्दुहे दिवा।दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥९॥यो वेदानडुहो दोहान् सप्तानुपदस्वतः ।प्रजां च लोकं चाप्नोति तथा सप्तर्षयो विदुः ॥१०॥मध्यमेतदनडुहो यत्रैष वह आहितः ।एतावदस्य प्राचीनं यावान् प्रत्यङ् समाहितः ॥११॥पद्भिः सेदिमवक्रामन्निरां जङ्घाभिरुत्खिदन् ।श्रमेणानड्वान् कीलालं कीनाशश्चाभि गच्छतः ॥१२॥इन्द्र एष मनुष्येष्वनड्वानित्युच्यते ।शफासो अस्य मा रिषन् सर्वा याश्चास्य कुष्ठिकाः ॥१३॥इन्द्रो बलेनासि परमेष्ठी व्रतेन येन गौस्तेन वैश्वदेव: ।यो अस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य प्राणान् सं बृहत्तस्य प्राणान् वि वृह ॥१४॥(इति षडृचोनामतृतीयकाण्डे पञ्चमो ऽनुवाकः) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP