आ त्वा गन् राष्ट्र सह वर्चसोदिहि प्राङ् विशां पतिरेकराट् त्वं वि राज।
सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥१॥
त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।
वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्वातो वसूनि वि भजास्युग्रः ॥२॥
अच्छ त्वा यन्तु हविन: सजाता अग्निर्दूतो अजिरः सन्तुराति: ।
जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥
अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।
सजातानां मध्यमेष्ठेयमस्या: स्वे क्षेत्रे सवितेव वि राज ॥४॥
आा प्र द्रव परमस्या: परावत: विश्वे ते द्यावापृथिवी अभूताम् ।
तदयं राजा वरुणस्तथाह स त्वायमह्वत् स इहेदमेहि ॥५॥
इन्द्रेन्द्रं मनुष्यः परेहि सं यज्ञियास्त्वा वरुणेन संविदानः ।
स त्वायमह्नत् स्वे सधस्थे स देवान् यक्षत् स उ कल्पयाद्विशः ॥६॥
पथ्या रेवतीर्बहुधा विरूपाः सर्वाः सङ्गत्य वरिवस्ते अक्रन् ।
तास्त्वा सर्वा: संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥७॥
यदजिरेण हविषाव त्वा गमयामसि ।
अत्रात इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥८॥


हरिणस्य रघुष्यदो ऽधि शीर्षणि भेषजम् ।
सुक्षेत्रियं विषाणयाद् विषूचीनमनीनशत् ॥१॥
अनु त्वा हरिणो वृषा पद्धिश्चतुर्भिरक्रमीत् ।
विषाणे वि ष्य गुष्पितं यत् किञ्च क्षेत्रियं हृदि ॥२॥
अदो यदवरोचते चतुष्पक्षमिव च्छदिः ।
तेन ते सर्वे क्षेत्रियमङ्गेभ्यो नाशयामसि ॥३॥
उदगातां भगवती विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥४॥
यदासुतेः क्रियमाणायाः क्षेत्रियं त्वा व्यानशे ।
वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि ते ॥५॥
अपवासे नक्षत्राणामपवास उतोषसाम् ।
अपास्मत् सर्वमामयदप क्षेत्रियमक्रमीत् ॥६॥
आप इद् वा उ भेषजीरापो अमीवचातनी: ।
आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात् ॥७॥


पुमान् पुंस: परिजातो ऽश्वत्थ: खदिरादधि ।
स हन्तु शत्रून् मामकान् यांश्चाहं द्वेष्मि ये च माम् ॥१॥
तानश्वत्थ निः शृणीहि शत्रून् वैबाध दोधतः ।
इन्द्रेण वृत्रघ्ना मेह्यग्निना वरुणेन च ॥२॥
यथाश्वत्थ निः शृणासि पूर्वान् जातानुतापरान् ।
एवा पृतन्यतस्त्वमभि तिष्ठ सहस्व च ॥३॥
यथाश्वत्थ विभिनत्स्यन्तर्महत्यर्णवे ।
एवा मे शत्रोश्चित्तानि विष्वग् भिन्धि सहस्व च ॥४॥
य: सहमानश्चरसि सासहान इवर्षभ:
तेनाश्वत्थ त्वया वयं सपत्नान् सहिषीमहि ॥५॥
सिनात्वेनान् निर्ऋतिर्मृत्योः पाशैरमोक्यैः ।
अश्वत्थ शत्रून् मामकान् यांश्चाहं द्वेष्मि ये च माम् ॥६॥
अधराञ्च: प्र प्लवन्तां छिन्ना नौरिव बन्धनात् । वन्धनात्
न निर्बाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥
प्रैणान्नुदामि मनसा प्र चित्तेन प्र ब्रह्मणा ।
प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामसि ॥८॥


यदद: संप्रयतीरहावनदता हते ।
तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धव:॥१॥
यत् प्रेषिता वरुणेनाच्छीभं समवल्गत ।
तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठनः ॥२॥
अपकामं स्यन्दमाना अवीवरत वो हिकम् ।
इन्द्रो वः शक्तिभिर्देवीस्तस्माद् वार्णाम वो हिकम् ॥३॥
एको वो देव उपातिष्ठत् स्यन्दमाना उपेत्य ।
उदानिषुर्महीरिति तस्मादुदकमुच्यध्वे ॥४॥
आपो देवीर्घृतमिदाप आहुरग्नीषोमौ बिभ्रत्याप इत्ता: ।
तीव्रो रसो मधुपृचामरङ्गम आ मा प्राणेन सह वर्चसा गन् ॥५॥
आदित् पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम्।
मेने भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदापः ॥६॥


अग्निर्नो दूतः प्रत्येतु शत्रून् प्रतिदहन्नभिशस्तिमरातिम् ।
स चित्तानि मोहयतु परेषां निहस्तांश्च कृणवज्जातवेदाः ॥१॥
अयमग्निरमूमुहद् यानि चित्तानि वो हृदि ।
वि वो धमात्योकस: प्र वो धमाति सर्वतः ॥२॥
इन्द्र चित्तानि मोहयार्वागाकूत्या अधि ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥
व्येषामाकूतय इताथो चित्तानि मुह्यत ।
अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥४॥
अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि ।
अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥५॥
असौ या सेना मरुतः परेषामस्मानभ्यैत्योजसा स्पर्धमाना ।
तां गुहत तमसापव्रतेन यथैषामन्यो अन्यं न जानात् ॥६॥
(इति षडृचोनामतृतीयकाण्डे प्रथमोऽनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP