संस्कृत सूची|संस्कृत साहित्य|संहिता|शार्ङ्गधर संहिता|उत्तरखण्डम्| चतुर्थोऽध्यायः उत्तरखण्डम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः उत्तरखण्डम् - चतुर्थोऽध्यायः संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत. Tags : Ayurvedsamhitasanskritsharangdhar samhitaआयुर्वेदशार्ङ्गधर संहितासंस्कृतसंहिता विरेचनविधिः Translation - भाषांतर तत्र विरेचनविषयःस्निग्ध स्विन्नस्य वान्तस्य दद्यात्सम्यग्विरेचनम् ॥१॥वमनरहिते विरेचनदोषाःअवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफःमन्दाग्निं गौरवं कुर्याज्जनयेद्वा प्रवाहिकाम् ॥२॥अथवा पाचनैरामं बलासं च विपाचयेत्स्निग्धस्य स्नेहनैः कार्यं स्वेदैः स्विन्नस्य रेचनम् ॥३॥विरेचनकालःशरदृतौ वसन्ते च देहशुद्ध्यै विरेचयेत्अन्यदात्ययिके काले शोधनं शीलयेद् बुधः ॥४॥दोषनाशे विरेचनस्य श्रेष्ठतादोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैःये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः ॥५॥विरेचनार्हा रोगाःपित्ते विरेचनं युञ्ज्यादामोद्भूते गदे तथाउदरे च तथाऽध्माने कोष्ठशुद्ध्यै विशेषतः ॥६॥विरेचनानर्हा जनाःबालवृद्धावतिस्निग्धः क्षतक्षीणो भयान्वितःश्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी च नवज्वरी ॥७॥नवप्रसूता नारी च मन्दाग्निश्च मदात्ययीशल्यार्दितश्चरूक्षश्च न विरेच्या विजानता ॥८॥विरेचनार्हा जनाःजीर्णज्वरी गरव्याप्तो वातरक्ती भगन्दरीअर्शःपाण्डूदरग्रन्थिहृद्रो गारुचिपीडिताःयोनिरोगप्रमेहार्त्ता गुल्मप्लीहव्रणार्दिताः ॥९॥विद्र धिच्छर्दिविस्फोटविषूचीकुष्ठसंयुताःकर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः ॥१०॥प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षीणानिलार्दिताःशूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः ॥११॥विरेचनार्थे कोष्ठभेदाःबहुपित्तो मृदुः कोष्ठो बहुश्लेष्मा च मध्यमःबहुवातः क्रूरकोष्ठो दुर्वि रेच्यः स कथ्यते ॥१२॥कोष्ठानुरूपविरेचनमात्रानिर्देशःमृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे च मध्यमाक्रूरे तीक्ष्णा मता द्र व्यैर्मृदुमध्यमतीक्ष्णकैः ॥१३॥मृद्वादिविरेचनद्र व्यनिर्देशःमृदुद्रा र्क्षा!पयश्चञ्चुतैलैरपि विरिच्यतेमध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरिच्यतेक्रूरः स्नुक्पयसा हेमक्षीरदन्तीफलादिभिः ॥१४॥विरेचनसंख्याऽनुसारेण मात्राया उत्तमत्वादिनिर्देशःमात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तिकावेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका ॥१५॥विरेके कषायादीनां मात्रानिर्देशःद्विपलं श्रेष्ठमाख्यातं मध्यमं च पलं भवेत्पलार्धे च कषायाणां कनीयस्तु विरेचनम् ॥१६॥कल्कमोदकचूर्णानां कर्षं मध्वाज्यलेहतःकर्षद्वयं पलं वाऽपि वयोरोगाद्यपेक्षया ॥१७॥कोष्ठानुसारेण विरेकौषधव्यवस्थापित्तोत्तरे त्रिवृच्चूर्णं द्रा क्षाक्वाथादिभिः पिबेत्त्रिफलाक्वाथगोमूत्रैः पिबेद् व्योषं कफार्दितः ॥१८॥त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबेन्नरःवातार्दितो विरेकाय जाङ्गलानां रसेन वा ॥१९॥एरण्डतैलप्रयोगःएरण्डतैलं त्रिफलाक्वाथेन द्विगुणेन चयुक्तं पीतं पयोभिर्वा न चिरेण विरिच्यते ॥२०॥वर्षादिषडृतुषु क्रमेण षड् विरेचनयोगाःत्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम् ॥२१॥समृद्वीकारसक्षौद्रं वर्षाकाले विरेचनम्त्रिवृद्दुरालभामुस्ताशर्करोदीच्यचन्दनम् ॥२२॥द्रा क्षाऽम्बुना सयष्टीकं शीतलं च घनात्ययेत्रिवृतां चित्रकं पाठामजाजीं सरलां वचाम् ॥२३॥हेमक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्पिप्पली नागरं सिन्धु श्यामा त्रिवृतया सह ॥२४॥लिहेत्क्षौद्रे ण शिशिरे वसन्ते च विरेचनम्त्रिवृता शर्करा तुल्या ग्रीष्मकाले विरेचनम् ॥२५॥सर्वर्त्तुयोग्यो विरेचनयोगःत्रिवृतां हपुषां दन्तीं सप्तलां कटुरोहिणीम्स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत् त्र्! यहम्एष सर्वर्त्तुको योगः स्निग्धानां मलदोषहा ॥२६॥अभयादिमोदकःअभया मरिचं शुण्ठीविडङ्गामलकानि च ॥२७॥पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव चएतानि समभागानि दन्ती च द्विगुणा भवेत् ॥२८॥त्रिवृदष्टगुणा ज्ञेया षड्गुणा चात्र शर्करामधुना मोदकान्कृत्वा कर्षमात्रप्रमाणतः ॥२९॥एकैकं भक्षयेत्प्रातः शीतं चानुपिबेज्जलम्तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते ॥३०॥पानाहारविहारेषु भवेन्निर्यन्त्रणः सदाविषमज्वरमन्दाग्निपाण्डुकासभगन्दरान् ॥३१॥दुर्नामकुष्ठगुल्मार्शोगलगण्डभ्रमोदरान्विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान् ॥३२॥वातरोगांस्तथाध्मानं मूत्रकृच्छ्राणि चाश्मरीम्पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत् ॥३३॥सततं शीलनादेषां पलितानि प्रणाशयेत्अभयामोदका ह्येते रसायनवराः स्मृताः ॥३४॥विरेचनान्ते कर्त्तव्यकर्मोपदेशःपीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषीसुगन्धिं किंचिदाघ्राय ताम्बूलं शीलयेन्नरः ॥३५॥निर्वातस्थो न वेगांश्च धारयेन्न स्वपेत्तथाशीताम्बु न स्पृशेत्क्वापि कोष्णनीरं पिबेन्मुहुः ॥३६॥सम्यग्विरिक्तस्य लक्षणम्बलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत्रेकात्तथा मलं पित्तं भेषजं च कफो व्रजेत् ॥३७॥दुर्विरिक्तस्य लक्षणम्दुर्विरिक्तस्य नाभेस्तु स्तब्धत्वं कुक्षिशूलतापुरीषवातसङ्गश्च कण्डूमण्डलगौरवाःविदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते ॥३८॥दुर्विरिक्तस्य चिकित्सातं पुनः पाचनैः स्नेहैः पक्त्वा संस्निह्य रेचयेत्तेनास्योपद्र वा यान्ति दीप्तोऽग्निर्लघुता भवेत् ॥३९॥अतिविरिक्तस्य लक्षणम्विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च ॥४०॥शूलं कफातियोगः स्यान्मांसधावनसन्निभम्मेदोनिभं जलाभासं रक्तं चापि विरिच्यते ॥४१॥अतिविरिक्तस्य चिकित्सातस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिःमधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु ॥४२॥तत्र नाभिप्रलेपःसहकारत्वचः कल्को दध्ना सौवीरकेण वापिष्टो नाभिप्रलेपेन हन्त्यतीसारमुल्बणम् ॥४३॥तत्र पथ्यव्यवस्थाअजाक्षीरं रसं वाऽपि वैष्किरं हारिणं तथाशालिभिः षष्टिकैः स्वल्पं मसूरैर्वाऽपि भोजयेत् ॥४४॥तत्रोपायान्तरम्शीतैः संग्राहिभिर्द्र व्यैः कुर्यात्संग्रहणं भिषक् ॥४५॥सुविरिक्तस्य लक्षणम्लाघवे मनसस्तुष्टावनुलोमे गतेऽनिलेसुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि ॥४६॥विरेचनस्य फलम्इन्द्रि याणां बलं बुद्धेः प्रसादो वह्निदीपनम्धातुस्थैर्यं वयः स्थैर्यं भवेद्रे चनसेवनात् ॥४७॥विरेचने निषिद्धकृत्यानिप्रवातसेवां शीताम्बु स्नेहाभ्यङ्गमजीर्णताम्व्यायामं मैथुनं चैव न सेवेत विरेचितः ॥४८॥विरिक्तस्य पथ्यार्थे पेयादिद्र व्याणिशालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत्कृताम्जाङ्गलैर्विष्किराणां वा रसैः शाल्योदनं हितम् ॥४९॥इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे विरेचनविधिर्नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : March 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP